एवं स भुवनैश्वर्यं भुक्त्वा भूमिभृतां वरः ।
अनेनैव शरीरेण भेजे भूतपतेः सभाम् ॥ ३७७ ॥
प्रासादे प्रवरेशस्य सिद्धिक्षेत्रे क्षमापतेः
स्वर्गद्वारप्रतिभटं द्वारमद्यापि लक्ष्यते ॥ ३७८ ॥
तस्य रत्नप्रभादेव्यां जातो राजा युधिष्ठिरः ।
अपासीन्नवमासोनाः क्ष्मां चत्वारिंशतिं समाः ॥ ३७९ ॥
सर्वरत्नजयस्कन्दगुप्तशब्दाङ्किताभिधाः।
आसन्विहारचैत्यादिकृत्यैस्तत्सचिवा वराः ॥ ३८० ॥
भवच्छेदाभिधं ग्रामं स्तुत्यं चेत्यादिसिद्धिभिः।
यो व्यधात्सोस्य वज्रेन्द्रोप्यासीन्मन्त्री जयेन्द्रजः ॥ ३८१ ॥
दिक्कामिनीमुखोत्कीर्णकीर्तिचन्दनचित्रकाः।
आसन्कुमार सेनाद्यास्तस्यान्येप्यग्र्यमन्त्रिणः ॥ ३८२ ॥
पद्यावत्यां सुतस्तस्य नरेन्द्रादित्य इत्यभूत् ।
लःखणापरनामा यो नरेन्द्रस्वामिनं व्यधात् ॥ २८३ ॥
वज्रन्द्रतनयौ वज्रकनकौ यस्य मन्त्रिणौ ।
अभूतां सुकृतोदन्तो राज्ञी च विमलप्रमा ॥ ३८४ ॥
स विधायाधिकरणं लिखितस्थितये निजम् ।
द्यां त्रयोदशभिर्वर्षैरारूरोह महाभुजः ।। २८५ ॥
तस्यानुजो धरणिभृद्रणादित्यस्ततोभवत् ।
तुञ्जीनापरनामानं यं जनाः प्राहुरञ्जसा ।॥ ३८६ ॥
जगद्विलक्षणं यस्य शङ्खमुद्राङ्कितं शिरः ।
अपूर्वशर्वरीशान्तर्लीनभानुश्रियं दधे ॥ ३८७ ॥
रिपुकण्ठाटवीष्वासीद्यस्य धाराधरः पतन् ।
तद्वधूनेत्रकुण्डैस्तु जलाधिक्यमधार्यत ॥ ३८८ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९१
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
तृतीयास्तरङ्गः