ललाटे शूलमुद्राङ्के जराशुक्लाः शिरोरुहाः ।
तस्य शंभुभ्रमासङ्गिगङ्गाम्भोविभ्रमं दधुः ॥ ३६५ ॥
अथाश्वपादेनेशाननिदेशात्तत्क्षणागतः ।
काश्मीरिको जयन्ताख्यो द्विजन्मायोजि पार्श्वगः ॥ ३६६ ॥
श्रान्तोस्यध्वन्य नान्यस्माद्देशात्तेभिमतं भवेत् ।
राज्ञे प्रवरसेनाय लेख एष प्रदर्श्यताम् ॥ ३६७ ॥
इत्युक्त्वार्पितलेखोसावसमर्थः पथः प्रुथून् । ्
गन्तुं प्रस्थानखिन्नोस्मि सद्यस्तेनेत्यगद्यत ॥ ३६८ ॥
स्नाह्यद्य तावत्वं स्पृष्टो द्विजः कापालिना मया ।
उक्त्वेति तेन क्षिप्तोसावासन्ने दीर्घिकाजले ॥ ३६९. ॥
उन्मीलितेक्षणोद्राक्षीत्स्वं स्वदेशादथोत्थितम् ।
तस्थुषश्चार्चने राज्ञो भृत्यान्व्यग्राञ्जलाह्रुतौ ॥ २७० ॥
स्वमावेदयितुं नद्या नीयमाने नृपान्तिकम् ।
अव्याक्षिप्तोक्षिपल्लेखं स स्नानकलशे ततः ॥ ३७१ ॥
प्रवरेशं स्नापयता स्रस्तं तत्कलशात्पुनः ।
राज्ञा लेखं वाचयित्वा जयन्तः प्रापितोन्तिकम् ॥ ३७२ ॥
कृतं कृत्यं महदत्तं भोगा भुक्ता वयो गतम् ।
किमन्यत्करणीयं त एहि गच्छ शिवालयम् ॥ ३७३ ॥
ततस्तं वृत्तसंकेतः संतोष्याभिमतार्पणात् ।
भित्वा तमश्मप्रासादं जगाहे विमलं नभः ॥ २७४ ॥
जनैः स ददृशे गच्छन्कैलासतिलकां दिशम्।
विशदे घटयन्व्योम्नि द्वितीयतपनोदयम् ॥ ३७५ ॥
जयन्तेनाद्भुतोदन्तहेतुनावाप्य संपदः ।
स्वनामाङ्काग्रहारादिकर्मभिर्निर्मलाः कृताः ॥ २७६ ॥
११
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/९०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
८१
तृतीयस्तराङ्गः