सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०१
चतुर्थस्तरङ्गः


अन्येद्युरथ भूपेन स बहिर्दत्तदर्शनः ।
पुण्यकर्मणि नो विघ्नः किं त्वमेवेत्यपृच्छयत ॥ ६३ ॥
प्रतिभाति गृहं तच्चेद्रम्यं तव ततोधिकम्‌ |
तदर्थ्य॑तां धनं वापि भूर्येवं चाभ्यधीयत ॥ ६४ ॥
तूष्णीं स्थितं ततो भूपं चर्मकारो व्यजिझपत् ।
दन्तांशुसूत्रैस्तत्सत्त्वमानं ज्ञातुमिवोद्यतः ॥ ६५ ॥
राजन्विज्ञाप्यते किंचिद्यदस्माभिर्यथाशयम् ।
न स्थेयमचलिप्तेन तत्र द्रष्ट्रा सता त्वया ॥ ६६ ॥
नाहमूनः शुनो नास्ति काकुस्थात्पार्थिवः पृथुः ।
क्ष्युभ्यन्तीवाद्य तत्सभ्याः संलापेस्मिन्किमावयोः ॥ ६७ ॥
जातस्य जन्तोः संसारे भङ्गुरः कायकञ्चुकः ।
अहंताममताख्याभ्यां शङ्कुभ्यामेव बध्यते ॥ ६८ ॥
कङ्कणाङ्गदहारादिशोभिनां भवतां यथा । |
निष्किंचनानामस्माकं स्वदेहेहंक्रिया तथा ॥ ६९ ॥
देवस्य राजधान्येषा यादृशी सौधहासिनी ।
कुटी घटमुखानद्धतमोरिस्तादृशी मम ॥ ७० ॥
आ जन्मनः साक्षिणीयं मातेव सुखदुःखयोः ।
मठिका लोठ्यमानद्य नेक्षितुं क्षम्यते मया ॥ ७१ ॥
नृणां यद्वेश्महरणे दुःखमाख्यातुमीश्वरः ।
तद्धिमानच्युतो मर्त्यो राज्यश्रष्टोथ पार्थिवः ॥ ७२ ॥
एवमप्येत्य मद्धेदम सा चेद्देवेन याच्यते ।
सदाचारानुरोधेन दातुं तदुचितं मम ॥ ७३ ॥
इति तेनोत्तरे दत्ते भूभृद्नत्वा तदास्पदम्‌ ।
कुटीं जग्राह वित्तेन नाभिमानः शुभार्थिनाम्‌ ॥ ७४ ॥