त्रोटयत्यायसान्बन्धान्स्फोटयत्युपलानिति ।
यः ख्यातिमवहत्तथ्यां हिम्मको भीमविक्रमः ॥ २४८ ॥
तस्यासिना राजकुलभट्टदेहार्धपातिना ।
चर्ममार्त्रं न तुत्रोट कङ्कटस्यातिसंकटे ॥ २४९ ॥
युग्मम् ॥
विलोक्य तदसंभाव्यं सैन्ये दैन्यं समाश्रिते ।
अघानि हिम्मको योधैरवष्टनम्भि यशोधरः ॥ २५० ॥
तथाप्यासीत्स्फुरन्संख्ये य ऐरमत्तकः क्षणम् ।
स भग्नासिश्च्युतो वाहाज्जीवग्राहमगृह्यत ॥ २५१ ॥
नाजौ तैरेष्यताधातुं यः श्रीमान्रजबान्धवः ।
जगामोदयगुप्तः स क्वापि त्यक्त्वा महाहवम् ॥ ५२ ॥ ,
इत्थं लब्धजया राज्ञी तत्क्षणान्न्यग्रहीद्रुषा ।
यशोधरं शुभधरं मुकुलं च सबान्धवम् ॥ २५३ ॥
काश्मीरिकाणां यः श्राद्धशुल्कोच्छेत्ता गयान्तरे ।
सोप्येरमत्तकः शूरः परिहासपुराश्रयः ॥ २५४ ॥
बद्ध्वा महाशिलां कण्ठे वितस्ताम्भसि पातितः ।
स्वदुर्नयफलं देव्याः प्रकोपेनानुभावितः॥ २५५ ॥
युग्मम् ॥
ये सप्तसप्तताद्वर्षादा गोपालनृपात्पुरा ।
अभिमन्युं यावदासन्षोडशानां महीभुजाम् ॥ २५६ ॥
वर्षषष्टिं प्रतापायुःश्रीहरा द्रोहवृत्तयः ।
ते क्षिप्रं मन्रिणः स्वे सान्ववायाः सदानुगाः ॥ २५७ ॥
भीमभ्रुभङ्गमात्रेण दिद्दादेव्या सकोपया ।
आसन्निःदोषतां नीता दुर्गयेव महासुराः ॥ २५८ ॥
तिलकम् ॥
१ अवराष्टम्मि इत्युचितम् ।