पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
षष्ठस्तरङ्गः


द्रोग्धायं थक्कनं रक्षन्धनादायीति पैशुनम्‌ ।
तथ्यमेव तदीयं सा स्वयं वादादमन्यत ॥ २३६ ॥
अथ स्ववसतिं प्राप्ते कम्पनेशे जयोर्जिते ।
याष्ठीकान्व्यसृजद्दिद्दा स्फुटं निर्वासनोद्यता ॥ २३७ ॥
तदाक्षेपं समाकर्ण्य स्मरन्तः कोशसंविदम्‌ ।
ते हिम्मकैरमत्तायाः पूवैवद्धिक्रियां ययुः ॥ २३८ ॥
नरवाहनमुख्यास्तु राज्ञीपक्षं न तत्यजुः ।
विभेदं पूर्ववत्प्रापदेवं निजबलं पुनः ॥ २३९ ॥
प्रविष्टेषु ततः कोपात्पुरं शुभधरादिषु ।
भट्टारकामठे दिद्दा भूयः पुत्रं व्यसर्जयत्‌ ॥ २४० ॥
दत्तार्गले नृपगृहे स्थितां तां दैवमोहिताः ।
ते तदैव विना पुत्रं विमूढा नोदपाटयन्‌ ॥ २४१ ॥
राक्ष्या संजघटे लोकः परस्मिन्नेव वासरे ।
यद्वलेन तदा‌ स्थैर्ये सा किंचित्समदर्शयत्‌ ॥ २४२ ॥
जयाभट्टारिकापार्श्वेद्यावकच्छूरमठान्तिकम्‌ ।
व्याप्य स्थितैर्द्विषत्सैन्यैरथ प्रववृते रणः ॥ २४३ ॥
राजधानीं राजसैन्ये प्रविष्टे त्रासविद्रुते ।
सिंहद्वारे घटाबन्धमेकाङ्गाः समदर्शयन्‌ ॥ २४४ ॥
शरीरनिरपेक्षास्ते भीतं संस्तम्भ्य तद्वलम्‌ ।
अधावन्विद्विषां सैन्यं चेलुः केचिच्च शत्रवः ॥ २४५ ॥
तसिन्नवसरे राजकुलभट्टः समाययौ ।
तूर्यघोषैर्द्विषां सैन्यं भिन्दन्नानन्दयन्निजम्‌ ॥ २४६ ॥
तस्मिन्प्राप्ते द्विषां सैन्यं विननाश विनेश्वरम्‌ ।
न द्रोहाविनयं जातु सहन्ते शस्त्रदेवताः ॥ २४७ ॥