अथान्येन पथाकस्मात्तुङ्गः सार्धं सहोदरैः ।
कृत्स्नां राजपुरीं वीरः प्रविश्य सहसादहत् ॥ ३५१॥
ननाश तेनोपायेन पृथ्वीपालः स पार्थिवः।
शेषाणां मन्रिणां सैन्यं प्राप मुक्तिं च संकटात् ॥३५२
अबलः सन्स भूपालस्तुङ्गाय प्रददौ करम् ।
एवं कृतं तदा तेन नष्टस्यार्थस्य योजनम् ॥ २५२ ॥
प्रविशन्नगरं तुङ्गस्ततः स्वीकृतकम्पनः ।
चकार डामरग्रामसंहारं सिंहविक्रमः ॥ २५७ ॥
दिद्दाप्युराजस्य भ्रातुः पुन्नं परीक्षितम् ।
चक्रे संग्रामराजाख्यं युवराजमशङ्किता ॥ २५५ ॥
सा हि सर्वाञ्शिशुप्रायान्पुरो भातृसुतान्तास्थितान् ।
परीक्षितुं मुमोचाग्रे पालेवतफलावलिम् ॥ २५६ ॥
शक्तः कियन्ति कः प्राप्तुं फलान्यत्रेति वादिनी ।
साभवद्राजपुत्राणां तेषां कलहकारणम् ॥ २५७ ॥
गृहीताल्पफलाल्लग्नप्रहारांस्तान्ददर्श च ।
संग्रामराजं त्वस्वल्पफलभाजमविक्षतम् ॥ २५८ ॥
अनन्तफलसंप्राप्तावक्षतत्वे च कारणम् ।
सविस्मयं तया पृष्टः स तामेवं तदाब्रवीत् ॥ ३५९ ॥
अन्योन्यकलहव्यग्रानेतान्कृत्वा पृथग्वसन् ।
समवापं फठान्यन्स्मिन्न चाभूवं परिक्षतः ॥ ३६० ॥
व्यसने संप्रवेश्यान्यान्स्थितानामप्रमादिनाम् ।
न काः क्लेशविहीनानां घटन्ते स्वार्थसिद्धयः ॥ ३६१॥
श्रुत्वेति तस्य सा वाचमप्रमत्तत्वदूतिकाम् ।
भीरुर्नारीस्वभावेन राज्येमन्यत योग्यताम् ॥ ३६२ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२४०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
षष्ठस्तरङ्गः