पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० राजतरङ्गिणी

तया स्वर्णप्रदानेन सुमनोमन्तकादयः ।
ब्राह्मणाः समगृह्यन्त ततः प्रायो न्यवर्तत ॥ ३३९ ॥
एवं तस्मिन्महाक्षेपे तया दानेन वारिते ।
ययौ विग्रहराजः स भग्नशक्तिर्यथागतम् ॥ ३४० ॥
अथ दाढ्यं समासाद्य तुङ्गाद्याः प्रभविष्णवः ।
शनैः कर्दमराजादीअनुर्विहितविप्लवान् ॥ ३४१ ॥
सुलक्कनो रक्कसूनुस्तथान्ये मुख्यमन्त्रिणः ।
रुष्टैर्निर्वासिता देशात्तुस्तैः संप्रवेशिताः ॥ ३४२ ॥
प्रवर्धमानवैरेण गूढदूतैर्विसर्जितैः ।
प्रायं विग्रहराजेन ब्राह्मणाः कारिताः पुनः ॥ ३४३ ॥
उत्कोचादित्सया विप्रा भूयः प्रायविधायिनः ।
लब्धस्थैर्येण तुङ्गेन संनिपत्यापहस्तिताः ॥ ३४४ ॥
तेषां मध्ये वसन्गूढमादित्याख्यः पलायितः ।
हतो विग्रहराजस्य प्रियः कटकवारिकः ॥ ३४५ ॥
शस्त्रक्षतः प्रतीहारो वत्सराजाभिधः
पुनः 1
न्यङ्कोतकादिभिर्धावञ्जीवग्राहमगृहात ॥ ३४६ ॥
ते स्वर्णग्राहिणो विप्राः सुमनोमन्तकादयः ।
सर्वेपि वद्धास्तुङ्गेन कारागारं प्रवेशिताः ॥ ३४७ ॥
अथ फल्गुणनाशेन हप्ते राजपुरीपतौ ।
तां प्रत्यारब्धिरभवत्क्रुध्यतां सर्वमत्रिणाम् ॥ ३४८ ॥
निपत्य संकटे वीरः पृथ्वीपालाभिधस्ततः ।
चक्रे राजपुरीराजः काश्मीरिकवलक्षयम् ॥ ३४९ ॥
शिपाटको हंसराजो विपन्नौ तत्र मत्रिणौ ।
चन्द्राद्यैर्दुर्गतिर्दृष्टा मरणं यत्र भेषजम् ॥ ३५० ॥