तवात्मजाः क्षणे तस्मिन्गहनद्धोदचाक्रिकाः ।
चकुर्निगूढराज्येच्छा: प्रजायासैर्धनार्जनम् ॥ २६८ ॥
युग्मम् ॥
सार्धे सुगन्धादित्येन गूढं शंकरवर्धनः ।
तेषां ज्येष्टो बद्धसख्यो मुमोष नृपमन्दिरम् ॥ २६९ ॥
क्षीणप्रजे क्षणे तस्मिन्क्षारपात इव क्षते ।
उदीपः प्लाविताशेषशरच्छालिरजृम्भत ॥ २७० ॥
स्रार्ये सहस्रकेयायां दुर्लभे भोजनेभवत् ।
वर्ष त्रिनवते घोरे दुर्भिक्षेण जनक्षयः ॥ २७१ ॥
शवैश्चिरप्रविष्टाम्वुषसंसेकोच्छूनविग्रहै: ।
वितस्ता सर्वतश्छन्ना दुर्लक्ष्यसलिलाभवत्॥ २७२ ॥
विश्वतोस्थिमये जाते नैबिड्यात्क्षितिमण्डले ।
सवेभूतभयादायि श्मशानैक्यमजायत ॥ २७६३ ॥
महार्घधान्यसंभारविक्रयप्राप्तसंपदः ।
मन्त्रिणः क्ष्मापतेः प्रापुस्तत्रिणश्च धनाढ्यताम् ॥ २७४ ॥
आदेयः क्ष्माभुजः सोभून्मन्री यस्तादृशीः प्रजाः ।
विक्रीय वाहयन्नासीत्तन्न्रिणां हुण्डिकाधनम् ॥ २७५ ॥
अटव्यां वृष्टिसंपाते वातवर्षैरुपद्रुतम् ।
बहिः सर्व जनं पश्यन्कश्चित्प्राप्तोष्णमन्दिरः ॥ २७६ ॥
यथा तथा जनं दुःस्थं वीक्ष्य कापुरुषश्चिरम् ।
राजधानीस्थितः पङ्गुः स्वसुखं बह्वमन्यत ॥ २७७ ॥
युग्मम् ॥
तुञ्जीनचन्द्रापीडादिप्रजापालप्रियाः प्रजाः।
एवं तस्मिन्क्षणे नीताः संक्षयं राजराक्षसैः ।॥। २७८ ॥
पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१९०
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
पञ्चमस्तरङ्गः ।