सामग्री पर जाएँ

यज्ञाधिकारः/एकोनविंशोऽध्यायः

विकिस्रोतः तः
← अष्टादशोऽध्यायः यज्ञाधिकारः
एकोनविंशोऽध्यायः
[[लेखकः :|]]
विंशोऽध्यायः →


अथैकोनविंशोऽधायः।
अङ्गुलिसज्ञा।

अत ऊर्ध्वं प्रवक्ष्यामि अङ्गुलेर्मानलक्षणम्
मानाङ्गुलं तथा मात्रं देहलब्धाङ्गुलं त्रिधा। 1
परमाणुभिरष्टाभी रथरेणुस्तथैव च
रथरेण्वगुणितं रोमाग्र ञ्च तथैव च 2
रोमाष्टगुणितं लिख्यं यूकं लिख्याष्टकं तथा
यवं यूकाष्टगुणितमङ्गुलं स्याद्यवाष्टकम्। 3
मानाङ्गुलं स्यात्तत्पश्चात्पुरुषस्य च समस्य च
मध्यमाङ्गुलिमध्यस्य विपुलं दीर्घ मेव वा। 4
मात्राङ्गुलं तद्बेरस्य भागैर्जात न्तु तत्तु वा
त्रयाणामङ्गुलाना ञ्च भूतसंज्ञा प्रवक्ष्यते 5
मात्रामोक्षोऽम्बरो विष्णुरेकसङ्ख्येति कीर्त्यते
पक्षाक्षिगोलकाश्विन्यौ विभागश्च कला द्विजाः 6
(यग्मम्।ग।)यूक न्तु युगलं पादं द्व्यङ्गुलस्याभिधानकम्
अग्निरुद्राक्षवर्गाश्च गुणबन्धं ? त्रियङ्गुलम् 7
जातिवर्णाश्रमा वेदयुगतुर्याब्जजाननाः
भागप्रतिष्ठाकरणाश्चतुरङ्गुलिसंज्ञिताः 8
विषयेन्द्रियभूताश्च पृथ्वी बाणश्च पञ्चमम्
समायाङ्गकर्म कर्तुश्च कुमारानषडङ्गुलाः? 9
धातुपातालद्वीपाश्च मुनिः सप्ताङ्गुलस्य च
वन्वष्टगुणनागाश्च दिक्पालाश्चाष्टसङ्ख्यया 10
नवनन्दग्रहारन्द्रसूत्राणि नवमाङ्गुलाः
धर्मनाडीदिशः पङ्क्तिरवतारो दशाङ्गुलम्। 11
त्रिष्टुप् कुन्तलरुद्राश्च एकादश समाख्यया
यमं राशिर्मुखं तालं द्वादशाङ्गुल संज्ञया 12
----------------
मानं प्रमाणमुन्मानं परिमाणो पमानकम्
लम्बमानं तथा मानान् लक्षयेत्संज्ञ या तया। 13
मानं तत्प्रतिमायामं प्रमाणं तत्तिर्यग्गतम्
घनं बहुलनीव्रं स्यादुन्मानेन च दृश्यते। 14
उन्मानं तत्प्रदेशो च्चमिष्टमुन्नत वेशनम्
परिमाणमिति प्रोक्तं परिमाण ञ्च नाहकम्। 15
(नीव्रवीवर्णमानकम्।ग।)द्व्यन्तरं ह्युपमानं हि नीते ह्युपरमं ? तलम्
लम्बमान ञ्च सूत्र ञ्च प्रतिमामेव कथ्यते।
तालमानम्।
तालसङ्ख्याक्रमं वक्ष्ये धर्माद्यं चाम्बरान्तकम्


उत्तमं दशतालेन विष्णुब्रह्ममहेश्वरान्। 17
श्रियं भूमिमुमां वाणीं दशतालेने मध्यमम्
इन्द्रार्कजन्द्ररुद्रादीन् मुनयो वसवोऽश्विनौ। 18
वीशशैषिकदुर्गाश्च ऋषयोऽपि गुहस्तथा
हीनेन दशतालेन कारयेदन्यपर्षदः। 19
नवार्द तालमानेन यक्षेश ञ्च ग्रहादयः
उत्तमं नवतालेन ?Rसिद्धवाद्याधराधयः 20
मनुष्टाश्चाष्टतालेन प्रेताद्या रससङ्ख्यया
सप्ततालेन वेतालान् पञ्चतानेन कुब्जकान् 21
वामनं तच्चतुस्तालैः त्रितालेनैव किन्नरान्
कूश्माण्डांस्तु द्वितालेन कबन्धांश्चैकेन कारयेत्। 22
प्रत्येगमेवमेताषां त्रिधा स्यादुत्तमं क्रमात्
चतुर्विंशच्छताङ्गुल्य मुत्तमं दशतालकम् 23
सविंशति शताङ्गुल्यं मध्यम ञ्चेति कीर्त्यते
कलाधिकशताङ्गुल्यमधमं परिपठ्यते 24
अङ्गुष्टप्रदेशिनीभ्यं प्रादेशं हि मित न्तु तत्
मध्यमेव मितं तालं वितस्तिः स्यादनामिका 25
(अङ्गुलेऽनामिकाकर्णम् )कनिष्टाङ्गुलेन गोकर्णं दश्रिणेन करेण च
चतुर्विंशत्यङ्गुलं किष्कुः पञ्चविंशतित्प्रजापतिः 26
(षड्विंशतिर्धनुर्मुष्टिः स्पतविंशद्धनुर्गहः।)धनुर्ग्राहश्च षड्विंशः धनुर्मुष्टिः सप्तविंशतिः
एतैश्चतुर्गुणं दण्डं तद्दण्डे गृहादिनाम् (कान्) 27
विन्यासं कारयेद्वाऽथ दण्डेच्छेदं विना सदा
हस्तेन देवतावासं मनुष्यसदनादिकम् 28
शयनादि वितस्त्या च अङ्गुल्या त्रिदशादिकान् (ग।)
यनेव च तिलेनैव मितमेतद्गृहार्चने 29
प्राजापत्येन हस्तेन देवतामन्दिरं स्मृतम्
धनुर्ग्रहेण देवानां धनुर्मुष्ट्याऽथ वा पुनः 30
किष्कुणा तन्मनुष्यस्य विश्वेषं वाऽथ किष्कुणा
-----------------
अपमानं प्रवक्ष्यामि स्थानकादौ हरेस्तथा 31
भूजान्तं मणिबन्धान्तं वस्वङ्गुलमथापि वा
(उष्णीषात्) श्रोत्रेण शङ्खचक्रान्तं मुखमानं प्रवक्ष्याते 32
मध्योदरात्कूर्परान्त (तद्दशाङ्गुलम्।ग।) तद्रसाङ्गुलमिष्यते
अभयस्य वान्तराङ्गुल्या चूचुकान्तरमेव च 33
त्रयोदशाङ्गुलं प्रोक्तं स्वागतस्य विशेषतः
मध्यमाङ्गुलिनाभ्यन्तं (दशाङ्गु विवर्धनम्।ग।)दशाङ्गुल्युदरं तथा 34
वदनस्य नवाङ्गुल्यं श्रोण्यन्तं मध्यमात्सुधीः
वामं तद्योनिमूलान्तं नाभि (सूत्रान्तमेव च।ग।) सूत्रं तथैव च। 35


पार्श्वन्तं मणिबन्धान्तं (नवपङ्क्त्यङ्गुलैः।) नवपङ्क्तिगुणैः तथा
भागं जान्वन्तरं प्रोक्तं भूतं स्याज्जघनान्तरम्। 37
नलान्तरं रसाङ्गुल्य भूतं स्यादक्षयोन्तरम्
पाण्यन्तमाश्रमं प्रोक्तं (तलमध्यान्तरं समम्।) नवमध्यान्तरं रसम्। 38
वसवोऽङ्गुष्टयोर्मध्यमत्रा नुक्तं खिलोक्तवत्
प्रलम्बफलकां पश्चादुक्तवृक्षेण कारयेत्। 39
सङ्कल्प्य सुषिरं तद्वल्लम्बमानं तथा चरेत्
अथा त ऊरुसूत्रं तच्छिखायां मणिमध्यमे। 40
(हनु)भ्रूसङ्गमस्य मध्ये तु नासाग्रस्य तु मध्यमे
कण्ठे च हृदये कुक्षौ नाभौ यानौ च पादयोः। 41
मध्ये प्रलम्बयेत्सूत्र कुक्षिनासाग्र संस्पृशम्
सूत्रमामौलिपट्टान्तरं समयाङ्गुलमीरितम्। 42
हनुमध्यं यवाधिक्यमाश्रमं परिचक्षते
हिक्कान्तं वेदमेवं स्यादूर्वोर्मध्यं द्वियङ्गुलम्। 43
नाभौ मनुयवं प्रोक्तं योनिमूलं द्वियङ्गुलम्
ऊरुमध्यमवर्गं स्यात् जान्वन्तरषडङ्गुलम्। 44
जङ्घान्तरं तन्नागाश्च (नलकाम्।ग।) नलकापूर्वतः क्रमात्
सार्धाष्टाङ्गुलमेवं स्यादङ्गुष्टाग्रात्पुरो बुधः 45
तद्द्व्यर्धाङ्गुलमेव स्यान्यध्यसूत्रं प्रलम्बयेत्
बाह्वोः पर्यन्तमेवं स्यात्पर्स्वसूत्रं प्रलम्बयेत्। 46
बाहुकूर्परयोः पार्श्वे तच्चूडामणिमध्यमे
मूर्ध्नस्त (षट्सूत्रान् मध्यमादिषु।)त्कण्ठवल्ल्यौ च ग्रीवा जानु च जङ्घयोः 47
गुल्पानां मध्यमे चैव मतिर्मा संम्प्रलम्भयेत्
मौलिमूर्ध कृकाटि च ककुद्वं शस्तधैव च 48
स्फिक्पारि पृष्टमध्ये तु परसूत्रं प्रलम्बयेत्
शिरपार्श्वे वक्त्कबाह्ये गण्डबाह्ये च चूचु के 49
श्रोण्यूरुजानु (जङ्घानाम्।ग।) पर्यन्तं मध्यसूत्रं प्रलम्बयेत्
तेषां पद्मादि पीठे तु (लम्बान्यन्यानि) लम्बान्यानि च तत्र वै 50
(तत्तदङ्ग ञ्च संस्पृश्य।)ततदङ्गस्य संस्पर्शे युक्त्या चैवं प्रलम्बयेत्
आसने प्यूर्ध्वकाये च (षट्सूत्रान् मध्यमादिषु।)षट्सूत्रं मध्यमादिकम् 51
लम्बयेदासनस्योर्ध्वे सर्वं पूरवदाचरेत्
सूत्रान्ताद्वामजान्वन्तमूर्ध्व (कायन्तसम्मतम्।)कायार्ध संस्पृशम् 52
तद्देवदक्षिणे जानु (हीनद्वंश ञ्च तत्क्रमात्।) हीनान्त्याङ्गुलमेव च
अन्यदनुक्तं यत्सर्वं प्रोक्तं मानाधिकारवत्
तथैव कारयेद्विद्वान् भावं तच्चुभदर्शनम्। 53
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे अङ्गुलिसंज्ञातालक्रमविधिर्नाम
(अङ्गुलैर्मानविधिर्नाम अष्टादशोऽध्यायः।ग।)एकोनविंशोऽध्यायः