यज्ञाधिकारः/अष्टादशोऽध्यायः

विकिस्रोतः तः
← सप्तदशोऽध्यायः यज्ञाधिकारः
अष्टादशोऽध्यायः
[[लेखकः :|]]
एकोनविंशोऽध्यायः →


अथष्टादशोऽध्यायः।
-----------------------
(मधूच्छिष्टक्रिया)

अत ऊर्ध्वं प्रवक्ष्यामि मधूच्छिष्टक्रियाविधिम्
अयने चोत्तरे श्रेष्टमथवा दक्षिणे चरेत् 1
कुम्भकन्याकुलीरेऽर्के धनुःकर्किरविं ? विना
मासानन्यां त्समाहृत्य शुभमृक्षं तथा हरेत् 2
यजमानगृहे वाऽथ आलये वा मनोरमे
आलङ्कृत्य वितानाद्यैः कुण्डमौपासनं तथा। 3
कृत्वा चाऽग्निं प्रतिष्टाप्य वैष्णव ञ्च सुहूयताम्
विष्णुसूक्त ञ्च हुत्वा तु ब्रह्मं रौद्रं तथैव च 4
वीशशैषिकचक्राणां विघ्नेशस्य सुहूयताम्
तस्याग्नेर्धक्षिणे कुर्याद्व्रीहिभिः स्थण्डिलं तथा। 5
चतुरश्रीपरि वस्त्रं ञ्च समास्तीर्य यथाशुभम्
पश्चिमे चक्रमुद्दिश्य चोत्तरे शैषिकस्य च 6
प्राच्यां (विश्वेशकार्थ ञ्च विघ्नेशार्थम्।ग।) विशेषिकार्थ ञ्च ?विश्वेशार्थ ञ्च दक्षिणे
चक्रस्य व्रीहिभिश्चाधः स्थण्डिलान् कारयेद्बुधः 7
तयोरुपरि प्रागग्रं कूर्चां त्सन्न्यस्य मन्त्रवित्
तथा जयादीनिन्द्रादीन् परितः सम्यगर्चयेत्। 8
विघ्नेशं सम्प्रपूज्यैव हविर्भिस्सन्नि वेदयेत्
शोधितं तन्मधूच्छिष्टमादाय प्रणवेन च 9
लोहपात्रे सुसन्न्यस्य मण्डलोपरि विन्यसेत्
'इषेत्वोर्जे' त्वेति मन्त्रेण प्राधानाङ्गं प्रकल्पयेत्। 10
अक्षराणि च विन्यस्य पुण्याहमपि वाचयेत्
वैष्णवं मन्त्रमुच्चार्य समभ्यर्च्य भिमृश्य च 11
वैष्णवं ञ्च ततो हुत्वा देवानन्यान् विसृज्य च
अग्निं विसृज्य पश्चात्तद्यजमानस्य मूर्धनि 12
आदाय(शङ्ख।)शाखाघोपैश्च सार्धं तत्कर्म मण्डपे
सन्न्यस्य शिल्पिनं सम्यगभिपूज्य मनः प्रियम्। 13
अभ्यर्च्य स्थपतिन्तत्र तस्मिन्नुपरि शास्त्रवित्
स्थपतिर्गुरुणा सार्धं (शंङ्ख।) कृत्वा तत्प्रतिमां शुभम्। 14
शनैरालिप्य (मृदा चैव।) मृदुना संशोष्य बहिरातपे
(पटैराश्चाद्य) पटै राबद्ध्य विधिना पुनरालिप्य शोष्य च 15
यजमानानुकूर्क्षेन पूर्ववद्धोममाचरेत्
तथा लोहं समभ्यर्च्य लोहपात्रेषु सन्न्यसेत् 16
जलतुल्य (ष्य) क्रमाद्रात्रावाग्निना पाच (ताप) येद्यथा


(युक्त्यासिक्त ञ्च सङ्ग्राह्य तस्मिन् गर्भं प्रदापयेत्।ग।) युक्त्या सिद्ध ञ्च संस्राव्य तस्मिन् गर्भं प्रतापयेत् 18
पुनस्सन्तप्तलोहेन अत्वर्स्त्वपूरयेत्
ततः प्रभाते कर्ता च शिल्पि तद्गुरुणा सह 18
शनैर्मृद्भेदनं कृत्वा दोषान् सम्यक्परीक्षयेत्
खण्डादिस्फुटितैर्दोषैर्दुष्टे सति पुनर्गुरुः 19
आलोच्य दोषमल्प ञ्च दूषिते यदि वा चरेत्
पूर्ववद्बेरमाहृत्य यथापूर्वं तथा चरेत् 20
इति श्री वैखानसे भगवच्छास्त्रे(उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञाधिकारे
(सप्तदशोऽध्यायः) अष्टादशोऽध्यायः।