यज्ञाधिकारः/विंशोऽध्यायः

विकिस्रोतः तः
← एकोनविंशोऽध्यायः यज्ञाधिकारः
विंशोऽध्यायः
[[लेखकः :|]]
एकविंशोऽध्यायः →

अथ विंशोध्यायः।
---------------
अत ऊर्ध्वं प्रवक्ष्यामि श्रेष्टतालक्रमं द्विजाः
उष्णीषात्पादपर्यन्तं चतुर्विंशच्छताङ्गुलम्। 1
(अतः परं प्रवक्ष्यामि आदिभूम्युन्नतिं क्रमात्, यावद्विमानविस्तारं तिपादं वा तदर्धकम्, पादं वा तत्र कुर्वीत्
यत्र देवालयं क्रिय ?, यद्वायामं विमानस्य नवधा कल्पयेद्भुधः, तत्रैकांशं प्रणज्ञैर्हस्त इत्यभिधीयते,
तत्रैकांशं समारभ्य द्विद्विहस्तप्रवर्धनात्, तत्रैक षष्टिपर्यन्तं त्रिंशद्भेदांस्तदुन्नते, एतेष्वेकं विनिश्चित्य तद्भूमेरुन्नति ञ्चरेत्, तद्भूम्युपरिभागे तु विमानं सम्प्रकल्पयेत्। इति। ग। आदर्शे अधिकः।)
मूर्ध्नि सार्धाङ्गुल ञ्चैव केशान्तं तद्द्वियङ्गुलम्
तस्मात्तदक्षिसूत्रान्तं वेदं वेदयवाऽधिकम् 2
तस्मात्तत्पुटसूत्रान्तं तत्समं चेद्यथा कुरु
सार्धत्रयोदशाङ्गुल्यं मुखायामं प्रचक्षते 3
तथैव हनुपर्यन्तं कारयेन्ततिमान् बुधः
ग?Rळमर्धाङ्गुलं प्रोक्तं भागं कन्धरमुच्छ्रयम् 4
हिक्कान्तं हृदयान्त ञ्च सार्धं त्रयोदशाङ्गुलम्
हृदयान्नाभिपीठान्तं नाभिमेढ्रान्तकं तथा 5
तस्माज्ञान्वन्तरं प्रोक्तं नक्षत्रान्तं ञ्च कथ्यते
आश्रमं जानुमानं स्यज्जङ्घा चोरुसमा भवेत्। 6
तालभागं समुत्तुङ्गं दीर्घमानं विलम्बितम्
ऊर्ध्वे मुखे च केशान्तं नवसूत्रं प्रचक्षते 7
मूर्धान्तं पृष्टकेशान्तं मुखमेव विशिष्यते
अर्काङ्गुलं तदुष्णीषात्पार्श्व केशान्तमस्तकम् 8
नवत्रिंशाङ्गुलं नाहं कर्णयो (ऊर्ध्वतः शिरः ग।)रुभयोरपि
हनु स्तद्द्व्यङ्गुलायाममूर्ध्वोत्तुङ्गं यवाङ्गुलम्
हनोर्गलाद्रसार्धांशं कलार्धं कण्ठवेशनम् 9
ग्रीवाग्रविपुलं तस्य अष्टांशार्धं प्रकीर्त्यते
ग्रीवामूलस्य विपुलं (सार्धरन्ध्र ञ्च कन्धरे )ग्रीवमष्टाङ्गुलं भवेत्। 10
सुवृत्तं ग्रीवमित्युक्तं त्रिरेखा परिवेष्टितम्
हिक्कासूत्रात्क्रमात्तुङ्गं वेदस्यांशांशकं ततः। 11
अर्धाङ्गुलं क्रमात् क्षीणं बाह्वन्त ञ्च तथैव च
हिक्काद्वितीयकं निम्नमधो जत्रु कलंशकम्। 12
विपुलं बाहुपर्यन्तं सार्धस्मृत्यङ्गुलं विधुः
(विंशदं गुलमानं तत्)चतुरङ्गुलपर्यन्तं कट्यग्रविपुलं मतम्। 13
द्वाविंशदङ्गुल ञ्चैव कटिमूलमिदं मतम्
कटेरूर्ध्वाकृतिंकायां गोमखाकार वच्चरेत् 14
शिष्टायामिति प्रोक्तं भूताङ्गुलयवाधिकम्
मुष्कविस्तारदीर्घं स्यादाश्रमाङ्गुल मिष्यते। 15
(लिङ्ग।ग।) जानुमूलस्य मान तत्त (तन्मुख्यम्।) दूर्ध्वे चोरुबन्धनम्


विपुलं चोरुमूलस्य मुखमान ञ्च कध्यते। 16
ऊरुमध्यतलं प्रोक्तमर्काङ्गुल मितीष्यते
ऊर्वग्रविपुलं प्रोक्तं सार्धं पङ्क्तिस्ततो भवेत् 17
नन्दार्धाङ्गुलमानं स्याज्ञानुमण्डल विस्तृतम्
यवेनाष्टाङ्गुलं प्रोक्तं जङ्घामूलं विशालतः। 18
सप्तमात्राङ्गुलोपेतं जङ्घामाध्यस्य तारकम्
सार्ध लाश्रमं प्रोक्तम?Rळकाविपुलं तथा 19
भूताङ्गुलं विशाल ञ्च (इष्टाङ्गुलयवं तथा।)अष्टगुल्फद्वयोस्तथा
(पादायध्यर्ध..)पादयोर्माध्यविपुलं क्रमेणोन्मानमुच्यते 20
रसांशार्धमति ज्ञेयं पादाग्रविपुलं तथा
अक्षात्पार्ण्यन्तरं वेदमुदयं तत्समं विदुः 21
अक्षादङ्गुष्टमूलान्तं ततं मात्रार्धमिष्यते
आश्रमाङ्गुलमानं तत्पादाङ्गुष्ठायतं ततम्। 22
तालं तस्य यवोपेतं द्व्यंशकं स्यात्प्रकथ्यते
नखतारस्य तस्यार्धं स्यात् पादायत वर्तुलम्। 23
(अथालस्य नखोच्छ्रायं शलपार्श्वमदोमुखम् ?) अङ्गुलस्य मुखोच्छ्रायं मांसलं पार्श्वयोर्मुखम्
आश्रमांशद्वयोपेतं सार्धांशोनत्रियं शकम्। 24
अग्न्यंश ञ्च यवोपेतं कलार्धं चाङ्गुलं ततः
नन्धाष्टार्धाष्टधात्वाद्या स्तर्जन्यादियनैस्ततम्। 25
स्वतारार्धं नख ञ्चैव शेषं मानाधिकारवत्
अथस्ताद्धिक्कासूत्रस्य बाहुदीर्घदिनैस्तथा। 26
युग्मं तत्कूर्परायामं प्रकोष्टं चैकविंशतिः
(तस्मान्यध्याङ्गुलाग्रान्तम्।ग।)तस्मादर्धाङ्गुलाग्रं तन्मुखमानं प्रशस्यते 27
तलायामन्तु धात्वंशं शिष्टमध्यं (र्धां)गुलायतम् ?
(शरांशार्धं यावाधिक्यम्।)रसांशं द्वियवाधिक्यमनामिकोदयमुच्यते 28
प्रदेशिन्यायतं प्रोक्त सम ? वेदशरांशकम्
चतुरंशं सपादांशं कनिष्ठाङ्गुलमायतम्। 29
अङ्गुष्ठादिकनिष्ठान्तं विपुलं तस्य वक्ष्याते
द्विपादाधिकमायामं शेषांशं तद्द्विपार्श्वयोः 30
अग्रपर्वोदयं मानं नखायामद्वयं तथा
अङ्गुष्टमूलपर्वं तदनामि कायं चरणाङ्गुलम् 31
तर्जनीमूलपर्वं स्याद्यवद्वयं कलाङ्गुलम्
मध्यमायामं तत्पर्यं तत्पादोनत्र्यङ्गुलं भवेत्। 32
अंशं भूतयवोपेतं कनीयं मूलपर्वतम्
अग्रमूलद्वयोर्मध्ये शिष्टमध्यस्थपर्वकम्। 33
अङ्गुष्ठे तु कला पर्व त्रिपर्वाङ्गुलयः स्मृतम्
भूतार्धांशं कलाश्रस्य ततं मध्यं रसांशकम्। 34
तस्य तारस्य मूलस्य सार्धकौशिक मात्रकम्


त्रियार्धाङ्गुष्ठमूलोर्ध्वे तर्जनीमूलमध्यमम्। 35
अङ्गुष्टमूलिकाधस्तन्म णिबन्धान सानकम्
शुकोदरेव भागः स्यात् घनं द्व्यर्धाङ्गुलं भवेत् 36
अध्यर्धं पार्ष्णि हस्तस्य घनमग्राङ्गुलं भवेत्
अङ्गुलीनामधस्तत्तद्द्व्यर्धांसं मांसलं तथा 37
शुकोदरविशालं तद्द्वामासांशं ? पार्श्णि हस्तकम्
निम्नं तलस्य मध्ये तु मांसलं द्वितलाधिकम् ? 38
शङ्खचक्रादिकं सूक्ष्मं तलरेखा प्रकथ्यते
बाहुमूलविशालं तन्नवमात्राङ्गुलं स्मृतम् 39
सार्धाष्टाङ्गुलमानं स्यान्मध्यमस्य विशेषतः
सार्धं मुन्यङ्गुलं तस्य कूर्परस्य ततः पुनः 40
कौशिकं तत्प्रकोष्ठस्य बूतार्धांश ञ्च मध्यमे
अग्न्यङ्गुलार्धकं तस्य मणिबन्धततं विदुः 41
द्व्यङ्गुलं श्रोत्रविस्तारं तस्यायामं वसु स्मृतम्
भ्रुवोःसूत्रसमं प्रोक्तं श्रोत्रयोरुदयं विधुः 42
पृष्ठकण्ठद्वयोरन्तः त्रयोदशाङ्गुलिकं तथा
प्रमुखस्य तु विस्तारं त्रयोदशाङ्गुलमेव च 43
पिप्पल्यन्तादधस्तात्तन्नाललम्बि द्विभागया
नालान्तर ञ्चार्धामात्रं (स्यत्र्तियवं नालनिम्नकम्।ग।) स्याद्यवं नवना?Rळकम् 44
?Rपिप्पलीसार्धमात्रं स्यात्सुषिर ञ्च यथाक्रमम्
कर्णिकाकारवत्कर्णं नालाकारं प्रकीर्त्यते 45
द्वियवं कर्णपाली च समं तत्कर्णपट्टिका
मात्रार्धं कर्णपा?Rळी च कर्णना?Rळं द्वियङ्गुलम् 46
लकाराकृतिवन्मध्ये पिचूष्णी ? कर्णचूलिका
कर्णमूलादपाङ्गान्तं वसुमात्रं प्रशस्यते 47
द्व्यङ्गुलावधिकं नेत्रं तुर्यावाधिकमेव वा
षड्यवं तस्य विस्तारं नेत्रायामन्त्रिधा चरेत् 48
कृष्णमण्डलमध्ये तत्पार्श्वयोः श्वेतमण्डलम्
तुलां कृष्णस्यमध्ये तु ज्योति स्तद्यवमात्रकम् 49
दृष्टिमण्डलमध्ये तु बिन्धु (नागां कणम्।ग।)नागांशक न्तु तत्
(अक्षांशे।)अक्षान्ते द्वियवं रक्तं कन्यकांशे यवं तथा 50
ऊर्ध्वतो वर्मताराः स्युर्यवार्ध ञ्च यव ञ्चरेत्
पक्ष्मरोमाणि नवतिः कृष्णाञ्जन समप्रभम् 51
पादोनद्वियवं मात्रं नेत्रभ्रूभुच्चयो ? द्वयोः
कनीनि कामसाङ्गस्य द्वयोर्मध्योऽक्षि सूत्रकम् 52
अक्षिसूत्रस्य केशान्तं मध्ये तस्य भ्रुवोः स्थितिः
मूलादग्रात्तदा रूपं चापाकारं क्रमात्कृशम् 53
गोलकस्य यवाधिक्यं भ्रूरेखानेत्ररेखयोः


भ्रूरेखामूर्ध्वकेशान्तात्समं तद्द्व्यर्धमात्रकम् 54
अर्धमात्रं भ्रुवोर्मध्यं भ्रुवायाम न्तु नासिकम्
यवतारं भ्रुवोरमाध्यं भ्रुवः क्षमविशालवत् ? 55
यवाधिकद्विमात्रं स्यादक्षयोरन्तरे बुधः
(नासिकापुटपुण्यः) नासिकापुटयोर्ह्यः ? स्यात्तद्वद्द्व्यङ्गुल मिष्यते 56
मध्यमं स्यात्तदर्धं तु मूलं तस्यार्धकं विधिः
गोलकांशं न्तु गोज्यग्रान्नासिकाग्रोदयं क्रमात् 57
नासिकाग्रं पुटोर्ध्वे तु तारं रन्ध्रद्वयं मतम्।
ताटिकायास्त्रियुग्द्वारं तारं सप्तयवार्धकम् 58
श्रोत्रस्योच्चं य (न) वं भूतं पुटनिव्रं यवेन तु
(दुर्ग ?) सदृश्यं निष्पावबीजेन नासिकायः पुटाकृति 59
एवं तन्नासिका कारं तिलपुष्पमिवाकृतिः
अंशेश पुष्करोत्तुङ्गं मध्यमं द्वियवं घनम् 60
अध्यर्धलम्बं नासाग्रलम्बनं सुमनोहरम्।
(सधवे पुटसूत्र स्यादधकोष्टन्तुक तन !)अदिकोष्ठाधिगन्त ञ्च ? गोलकं द्वियवाधिकम् 61
(भागार्धयव।श्रेषु।) भागार्धं यव?Rळ्योच्चं ? तदर्धं तस्य तारकम्।
..............................................................
..........................................................
भगन्तु द्वियवाधिक्यमुत्तरोष्ठायतं विधुः 62
उत्तरोष्ठस्य विपुल न्त्रि वार्धयवं तथा
(वर्गवत्तो ?)यवेन चोत्तरा पाली यवार्धहृदयं बुधः 63
अनुपूर्व्या क्षयं तारम (मानुभूत्वां तदायतम्।) सृक्वान्तात्ततायतम्।
नन्दाष्टपङ्क्तिषट्सार्ध यवोस्तत्या यवोन्नतम्
अधरं पालिकासार्धं मायवारमधोगतः
(दर्शनोयत्त दृश्यन्तम्। ग।)दर्शनोद्दिश्य दिश्यं तद्द्वात्रिंशत्परिचक्षते 65
द्वियवं विपुलं तस्य उदयं तत्समं विधुः
दंष्ट्रायामं यवाधिक्यं सदंशं मुकु?Rळोपमम् 66
तदूर्ध्वे षोढशदन्तं स्यात्तापदेवाधरे बुधाः
अधोदन्तस्य विपुलं यवार्धं तारमुच्छ्रयम् 67
जिह्वायामं षडङ्गुल्यं विस्तारं स्यात्तदर्धकम्
ग्रीवायाम न्तु भगं स्यात्तुल्यं तच्च गुरु स्तथा 68
सप्तविंशति मात्र स्यात्कृकटि का च सन्धिकम्।
सार्धत्रयोदशांशं स्या (तत्र्तयोदश ?) त्तस्याधः कण्ठवेशनात् 69
सार्ध भागाङ्गुलं मानं तस्याधः पृष्ट कायतः
तस्याधोऽप्यायतं मानं सार्धद्वाविंशदङ्गुलम् 70
वेदांशं जानुदीर्घं स्याज्जङ्घा त्रिंशन्न वाङ्गुलम्
(तत्राशम्।)आश्रमं पार्ष्णि कायामं (तन्मूले पृष्टकायतम्।) पृषठायामं प्रकीर्तितम्। 71
कक्षयोरन्तरं पृष्टे सप्तविंशतिमात्रकम्


समारभ्य पृष्टवर्ति ञ्च तस्योर्ध्वे दशमात्रकम् 72
 स्फिक्पिण्डं कारयेत्पश्चाद्वोदोच्चं चोरुमूलतः
बृह (सृ) तीस्तनयोर्मध्ये (ऋत्विक्) जत्रोर्मात्रघनं भवेत् 73
कट्यकान्त्यबृहत्यऽथ आयामार्ध न्तु भागिकम्
तद्घन ञ्च कलामात्रं तदूर्ध्वे चांशकं तथा 74
कटिदण्डस्य विपुलं नन्दपङ्त्कर्ध भागिकम्।
नवार्धंशकविस्तारौ स्फिक्पिण्डौ तौ सलक्षणौ 75
नीवृद्द्वर्धांशकं पश्चाद्बन्धं तच्चतुरंशकम्।
अत्रानुक्त ञ्च यत्सर्यं बुद्ध्वा युक्त्या च तक्षखः 76
शिल्पशस्त्रोक्तमार्गेण कारयेद्गुरुणा सह।
इति श्री वैखानसे भगवच्छास्त्रे (उत्तरतन्त्रे) भृगुप्रोक्तायां
संहितायां यज्ञादिकारे उत्तमदशताल विधिर्नाम
(प्रतिमालक्षण विधिर्नामैकोनविंशोऽध्यायः।ग।)विंशोऽध्यायः।