ऋत्विक्संख्यानियमाधिकरणम् ] तृतीयोऽध्यायः । २१३ विर्धानस्य समीपदेशः इति नियन्तुं हविर्धानेन सन्निधिलक्ष्यते। तथा सति नियममा- त्रविधानाल्लाघवं भवति । त्वत्पक्षे त्वभिषवोपलक्षितस्य दक्षिणस्य हविर्धानस्याऽत्यन्त- मप्राप्तं सामिधेन्यङ्गत्वं विधीयत इति गौरवम् । तस्माद्देशलक्षणा ॥ इति सप्तमं हविर्धानस्य सामिधेन्यनङ्गताधिकरणम् ॥ ७ ॥ अथाऽष्टमं यजमानभिन्न कत्रन्तरप्रतिपादनाधिकरणम् ॥ ८ ॥ अष्टमाधिकरणमारचयति- यजमानेन कर्तव्यं निखिलं त्याग एव वा । कर्तृगामिफलश्रुत्या युज्यते सर्वकर्तृता ॥ १५॥ प्रयोजकेऽपि कर्तृत्वमस्ति नो चेत्क्रयो वृथा । कार्यं तेन त्यागमात्रमृत्विजोऽन्यत्र कर्तृता ॥ १६ ॥ "स्वर्गकामो यजेत' इति स्वर्गभोक्तुर्यागकर्तुश्च सामानाधिकरण्यादेकत्वं गम्यते । पाणिनिश्च (१)“स्वरितञितः कर्त्रभिप्राये क्रियाफले” इति सूत्रेण क्रियाफलस्य कर्तृगामित्वे सत्यात्मनेपदं विदधाति । अतः साङ्गकर्मानुष्ठानमन्तरेण फलासम्भवा- निखिलं यजमानेन कर्तव्यमिति प्राप्ते- ब्रूमः-निखिलानुष्ठानाभावेऽपि प्रयोजकतया यजमानस्य सर्वकर्तृत्वमस्ति । 'षड्भिर्हलैः कर्षति' इत्यत्र तथा दर्शनात् । यदि स्वेनैव सर्वमनुष्टीयेत, तदानीमृत्विजां परिक्रयो वृथा स्यात् । तस्मात् यजमानेन त्यागमानं कार्यम् । अन्यत्र साङ्गप्रधाने क्रीतस्यर्त्विजोऽनुष्ठानम् । तथा सति साक्षात्परम्परया च सर्वकर्तृत्वस्य यजमाने स म्भवात्तस्य फलं न विरुध्यते ॥ इत्यष्टमं यजमानभिन्न कर्त्रन्तरप्रतिपादनाधिकरणम् ॥ ८ ॥ अथ नवममृत्विक्संख्यानियमाधिकरणम् ॥ ४॥ नवमाधिकरणमारचयति- न क्रीतकर्तृसंख्याया नियमोऽस्त्यस्ति वा न हि । अविशेषादस्ति यावत्कार्यं तावन्त एव हि ॥ १७ ॥ १. पा. सू. १. ३. ७२.
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१४
दिखावट