> २१२ सविस्तरायां जैमिनीयन्यायमालायां [अ. ३. पा.७. अधि.७ अग्नीषोमीयपशौ (१)"यूपं मिनोति” इति प्रकृत्य श्रूयते-(२) अर्धमन्तर्वैदि मिनोति, अर्धं बहिर्वेदि” इति । 'यूपं स्थापयितुं कियद्विस्तारवानवटोऽपेक्षितः' इति वुभुत्सायां तन्निर्णयाय यूपमूलस्य स्थौल्यमगुल्यादिभिर्मातव्यम् । तस्य च मीयमान- स्य यूपस्य वेद्यभ्यन्तरभागोऽङ्गत्वेन विधीयते इति चेत्- मैवम् ; यथा संस्कृतो वेद्यन्तरभागः 'अर्धमन्तर्वेदि' इत्यनेन वाक्येन विधी- यते, तद्वदसंस्कृतो बहिर्भागो 'बहिर्वेदि' इत्यनेन वाक्येन विधातव्यः । ततो वाक्यं भिद्येत । यदा तु वेदेरभ्यन्तरबाह्यभागाभ्यामुपलक्षितोऽसंस्कृतो लौकिको देशो मीय- मानयूपोचितो विधीयते, तदा नाऽस्ति वाक्यभेदः । तस्मात् लौकिकदेश एवाऽत्र यूपा- ङ्गत्वेन विधीयते, न तु संस्कृतवेदिभागः ॥ इति षष्ठं यूपावटदेशलक्षणाधिकरणम् ॥ ६ ॥ अथ सप्तमं हविर्धानस्य सामिधेन्यनङ्गताधिकरणम् ॥ ७ ॥ सप्तमाधिकरणमारचयति- हविर्धाने स्थितो ब्रूयात्सामिधेनीरिहाऽङ्गता । हविर्धानस्य तास्वाहो तद्देशोऽनेन लक्ष्यते ॥ १३ ॥ वाक्यात्स्यादङ्गता,मैवं प्रकृत्या पश्चिमेऽग्नितः। देशः प्राप्तो लाघवेन लक्ष्यः शकटसन्निधिः ॥ १४ ॥ ज्योतिष्टोमे श्रूयते-"उत यत्सुन्वन्ति सामिधेनीस्तदन्वाहुः” इति । हविर्धानमण्डपगतयोर्दक्षिणोत्तरभागावस्थितयोर्हविर्धाननामकयोः शकटयोर्मध्ये दक्षिणं शकटमत्र यत्तच्छब्दाभ्यामभिधीयते । तस्य समीपे सोमस्याऽभिषवः । 'उत' इत्ययं शब्दोऽथशब्दार्थे वर्तते-अथ यस्मिन्हविर्धाने सोममभिपुण्वन्ति, तस्मिन्सामिधेनी- रनुब्रू युः । इह दक्षिणस्य हविर्धानस्य सामिधेनीष्वङ्गत्वं प्रतीयते । न चाऽत्र पूर्ववद्वा- क्यभेददोषः शङ्कयः, एकवाक्यतायाः स्पष्टं प्रतिभासात् इति प्राप्ते- ब्रूमः–सामिधेनीनामिष्टयङ्गतया दर्शपूर्णमासावत्र प्रकृतिः । प्रकृती चाऽऽहव- नीयाग्नेः पश्चिमो देशः सामिधेनीनां स्थानम् । इहोत्तरवेदेराहवनीयत्वात्तदपेक्षया ह- विर्धानस्य पश्चिमदेशावस्थानात् स देशश्चोदकेन प्राप्त इति देशस्य सामिधेन्यङ्गत्वं विधातव्यम् । किन्तु दक्षिणोत्तरहविर्धानसमीपदेशयोरनियमेन प्राप्तौ दक्षिणस्यैव ह- १. यूपखननार्थं अवटं मिनुयात् इत्यर्थः । २.मै. सं. ३. ९.४. अवट स्याऽर्धभागो वेदेरन्तः अर्धभागो वेदेर्बहिश्च यथा भवेत् तथा मिनुयादित्यर्थः । -
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/२१३
दिखावट