अथ तृतीयं पौर्णमास्यधिकरणम् ॥ ३ ॥ (१)तृतीयाधिकरणमारचयति- एवं विद्वान् पौर्णमासीममावास्यामितीरितम् । कर्माऽन्यत् उत पूर्वोक्तसमुदायानुवादकम् ॥ ६ ॥ कर्मान्तरं स्यादभ्यासाद्धौवं द्रव्यं हि देवता । वार्त्रघ्नीत्यादितो लभ्याऽनुवादस्तु न युज्यते ॥ ७ ॥ चानीत्याध्यभागाङ्गव्यवस्थोक्तेन देवता । पौर्णेत्यनूद्यते पौर्णमासीयुक्तं त्रिकं तथा ॥ ८ ॥ अमेत्यपि समूहस्य द्वित्वसिद्धिः प्रयोजनम् । सहस्थितिः पौर्णमास्यामित्युक्तिभ्यां त्रिके त्रिके ।। ६ ।। विद्वद्वाक्यविधौ विध्यावृत्तिराग्नेयकादिना । विहितस्य फलित्वेन प्राधान्यमितरे गुणाः ॥ १० ॥ इदमाम्नायते-(२)“य एवं विद्वान् पौर्णमासी यजते, “य एवं विद्वानमावास्यां यजत" इति । अत्र यजतिना कर्मान्तरं विधीयते, न तु प्रकृता आग्नेयादयः षड्- यागा अनूद्यन्ते। आनेयादयश्च कालसंयुक्तास्तस्मिन् प्रकरण एवमाम्नायन्ते-(३)“यदा- ग्नेयोऽष्टाकपालोऽमावास्यायां पौर्णमास्यां चाऽच्युतो भवति' “तावब्रूतामग्नीषोमावा- ज्यस्यैव नावुपांशु पौर्णमास्यां यजन्' (४) ताभ्यामेतमन्नीषोमीयमेकादशकपालं पूर्णमासे प्रायच्छत्” (५) ऐन्द्रं दध्यमावास्यायाम्” “ऐन्द्रं पयोऽमावास्यायाम्" इति । एतेभ्यः प्रकृतेभ्यः षड्भ्य आग्नेयादिभ्यो विद्वद्वाक्य विहितस्य कर्मणोऽन्यत्वे १. पूर्वाधिकरणेनाऽस्याऽऽपवादिको संगतिः । २. (ते. सं. १. ६. ९.१.) पूर्व प्रजापतिः अग्निहोत्रदर्शपूर्णमासान् हवि- र्यज्ञान् , अग्निष्टोमोक्थ्यातिरात्रसंस्थाकान् सोमयज्ञान् असृजत् । सृष्ट्वा च तान् परस्परमतोलयत् । तत्र तुलनायामग्निहोत्रमन्निष्टोमसममासीत् , पूर्णमासी चोक्थ्यसमा, अमावास्या चाऽतिरात्र समावास्तामिति पूर्वसन्दर्भः । य एवं विद्वान् पौर्णमास्युक्थ्य- योस्साम्यं जानन पौर्णमासी यजते, सोऽनेनेव पौर्णमासयागेनोक्थ्यानुष्ठानफलभाग्भवति । य एवं अमावास्यातिरानयोस्साम्यं जानन् अमावास्यां यजते, सोऽतिरात्रसमानफलभा- गभवतीति विषयवाक्यार्थः । ३. है. सं. २. ६. ३. 2 ४. तै. सं. २. ४..
पृष्ठम्:जैमिनीयन्यायमालाविस्तरः (समूलः).djvu/९२
दिखावट