सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ६ (निर्वाणप्रकरणम्)/सर्गः ४

विकिस्रोतः तः
← सर्गः ३ लघुयोगवासिष्ठः
सर्गः ४
[[लेखकः :|]]
सर्गः ५ →

शिलोपाख्यानम्।।
चतुर्थः सर्गः।।
वसिष्ठ उवाच।।
अथेमामिन्दुवदन चित्रां विस्मयकारिणीम्।
वर्ण्यमानां मया रम्यामन्यामाख्यायिकां शृणु।।[6-41]
पूर्वमन्तर्भावितसर्वार्थमद्वितीयमेव चैतन्यं बिल्वफलत्वेन निरूपितम्। इदानीं तु विचित्रजगच्चित्रतापि अखण्डैकरसा निर्विकल्पाघनीभूता सैव चिन्महाशिलात्वेन निरूप्यते-अथेत्यादिना।। चित्रामश्रुतपूर्वां अतश्च विस्मयकारिणीम्।।
स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारसालिनी।
निबिडा नित्यनीरन्ध्रा क्वचिदस्ति महाशिला।।[6-4-2]
स्निग्धेति।। स्निग्धा चित्तप्रेमास्पदत्वात्। स्पष्ट स्वयमेव प्रकाशमानत्वात्। मृदुस्पर्शा सुखहेतुत्वात्। महाविस्तारशालिनी निरवधित्वात्। निबिडा संततत्वात्। नित्यनीरन्ध्रा विजातीयवस्त्वमिश्रितत्वात्। इत्थंभूता महाशिला क्वचिदस्ति। स्वव्यतिरिक्तस्याधारस्य निरूपयितुमशक्यत्वात्क्वचिदित्युक्तम्। `स भगवान् कस्मिन्प्रतिष्ठित इति। स्वे महिम्नि' इति श्रुतेः।।
तस्यामन्तः प्रफुल्लानि पद्मानि सुबहून्यपि।
सरस्यामिव रम्याणि सन्त्यनन्तानि राघव।।[6-4-3]
तस्यामिति सार्धश्लोकद्वयं वाक्यम्। अत्र पद्मानीत्यनेन भुवनादिविवक्षितानि संकोचविकासयोगित्वात् जीवभ्रमराश्रयत्वाच्च।।
अन्योन्यप्रोतपत्राणि मिथो विघटितानि च।
मिथश्चोपरि रूढानि गूढानि प्रकटानि च।
ऊर्ध्वमूलान्यधोमूलान्यमूलानीतराणि च।।[6-4-4]
तानि कानिचिदन्योन्यप्रोतपत्राणि परस्परसंबन्धवन्ति। कानिचित्तु मिथो विघटितानि संबन्धरहितानि। तेषां च मध्ये कानिचिदूर्ध्वमूलानि अमरादिभूवनानामुपरिस्थितध्रुवमण्डलाश्रयत्वात्। कानिचिदधोमूलानि पातालानां भूलोकस्य बाह्यस्थितकूर्माश्रयत्वात्। कानिचिदमूलानि शिवविष्णुलोकादीनां नित्यत्वात्। इतराणि चेत्यनेन तिर्यङ्भूलान्युच्यन्ते। तिर्यग्गमनस्वभावेन वायुनैव केषांचिद्भुवनानामवष्टब्धत्वात्। इत्थंभूतानि पद्मानि तस्यां शिलायामन्तः सन्तीत्यन्वयः।।
तेषां च निकटे सन्ति शङ्खाः शतसहस्रशः।
चक्रौघाश्च महाकाराः पद्मवत्संनिवेशिनः।।[6-4-5]
राम उवाच।।
सत्यमेतन्मया दृष्टा तादृशी सा महाशिला।
शालग्रामे हरेर्मूर्ध्नि विद्यते तादृशी शिला।।[6-4-6]
तेषामिति।। तेषां च पद्मानां निकटे शतसहस्रशः शङ्खाः सन्ति। शङ्खशब्देन नक्षत्रग्रहताररूपाणि ज्योतिर्मण्डलान्युच्यन्ते। समुद्रवन्नीले नभसि शङ्खसङ्घवद्भासमानत्वात्। चक्रशब्देन मण्डलाकाराणि द्वीपानि। तेषां चक्रधारावदाभासमानैः समुद्रैरुपलक्षितत्वात्।।[6-4-5,6]
वसिष्ठ उवाच।।
चिच्छिलैषा मयोक्ता ते यस्यामन्तर्जगत्स्थितिः।
घनत्वैकात्मकत्वादिवाशादेषा शिलैव चित्।।[6-4-7]
चिदिति।। घनत्वैकात्मकत्वादिवशात् घनत्वं निबिडत्वम्। एकात्मकत्वमेकरूपत्वम्। आदिशब्दाद्विभुत्वादीनि। तद्वशात्तत्सामर्थ्यादेषा चित्तशिलैव तत्सदृशत्वात्।।
अप्यत्यन्तघनाङ्गायाः सुनीरन्ध्राकृतेरपि।
विद्यतेऽन्तर्जगद्वृन्दं व्योम्नीव विपुलोऽनिलः।।[6-4-8]
अपीति।। घनाया नीरन्ध्राया अपि तस्याः शिलाया अन्तः जगद्वृन्दं विद्यते। जगद्वृन्दस्य तदभिन्नत्वेन घनत्वनीरन्ध्रत्वयोर्विरोधाभावात्।।
द्यौः क्षमा वायुराकाशः पर्वताः सरितो दिशः।
सन्ति तस्यां शिला सा च सुषिरा न मनागपि।।[6-4-9]
द्यौरिति।। सा च मनागपि सुषिरा सरन्ध्रा न भवति। द्युप्रभृतीनां तदभिन्नत्वात्।।
शङ्खपद्मादिकं लोकं पाषाणे लिप्यते तथा।
भूतं भवद्भविष्यच्च चिच्छिला शालभञ्जिका।।[6-4-10]
शङ्खेति।। शङ्खपद्मादिलेखनेऽपि पाषाणः यथा न किंचिद्भिद्यते तथा भूतभवद्भविष्यद्रूपापि चिच्छिलामयी शालभञ्जिका। बहुविधचित्रविचित्रिता प्रकृतिरेव न भिद्यत इत्यर्थः।।
उपलोऽन्तःसंनिवेशो नानात्माप्येकपिण्डताम्।
तथा चिद्विश्वगर्भाऽपि न मुञ्चत्येकपिण्डताम्।।[6-4-11]
उपल इति।। यथा अन्तःसंनिवेशः अन्तःस्थितः शङ्खपद्मादिसंनिवेश उपलो नानात्मकतया प्रतीयमानोऽपि वस्तुतः एकपिण्डकस्तथा चिद्विश्वगर्भापि जगद्गर्भगतापि एकपिण्डतां न मुञ्चति।।
यथा पद्मः शिलाकोशादभिन्नस्तद्वपुर्मयः।
तथा सर्गश्चितो रूपादभिन्नः सर्वदैव हि।।[6-4-12]
यथेति।। शिलायां कल्पितः पद्मः तद्वपुर्मयः शिलामयत्वाच्छिलाकोशाद्यथा अभिन्नः तथा चिति कल्पितः सर्गोऽपि चिद्रूपादभिन्नः।।
शिलान्तः पद्मलेखाली मरीचान्तश्चमत्कृतिः।
नोदेति नास्तमायाति यथा सर्गस्तथा चितौ।।[6-4-13]
शिलेति।। शिलायां कल्पिता पद्मलेखाली। मरीचान्तश्चमत्कृतिर्मरीचस्यान्तः स्थिता चमत्कारहेतुः कटुरसस्फूर्तिश्च यथा चितौ सर्गास्थितिः।।
यथा पुरन्ध्र्यां मर्त्योऽन्तर्मज्जा वा बिल्वगा यथा।
तथानन्तविकाराढ्या चितौ ब्रह्माण्डमण्डली।।[6-4-14]
यथेति।। पुरन्ध्र्यां गुर्विण्यां मर्त्यो गर्भरूपो यथान्तर्वर्तते। मज्जा सारभूतोंऽशो यथा बिल्वगा बिल्वफलान्तर्गता वर्तते तथैव अनन्तविकाराढ्या ब्रह्माण्डमण्डली चितावन्तर्वर्तते।।
सुषुप्तावस्थया चक्रपद्मलेखाः शिलोदरे।
यथा स्थिताश्चितेरन्तः स्थितेयं जगदावली।।[6-4-15]
सुषुप्तेति।। चक्रपद्मरूपा लेखाः शिलोदरे यथा सुषुप्तावस्थाया सुषुप्तवन्निश्चलावस्थया स्थिताः।।
यथा यत्र यदाकारं तथा तत्र तदेव हि।
ब्रह्म सर्वात्मकं सर्वं सुषुप्तस्थमिव स्थितम्।।[6-4-16]
यथेति।। सर्वात्मकं ब्रह्म यत्र यस्मिन् देशे यदाकारं यद्रूपं यत् यथा प्रवर्तते तत्र तदेव वस्तु तथा तेनैव प्रकारेणोपलक्षितं भवति। अतः सर्वं ब्रह्मैव सुषुप्तस्थमिव सुषुप्तावस्थापन्नमिव निर्विकारं स्थितम्। ब्रह्मणः स्वर्वात्मकत्वात् सत्यसंकल्पत्वाच्च स्वसंकल्पानुसारेण नानारूपतयावस्थानं युक्तमिति भावः।।
भूरिभावविकाराढ्यो योऽयं जगदुरुभ्रमः।
सुषुप्तमेव तद्वद्धि शिलान्तः पङ्कजादिवत्।।[6-4-17]
भूरीति।। भूरिभिर्भावविकारैः जन्मादिभिराढ्यो योऽयं जगद्रूपः उरुभ्रमस्तच्छिलान्तः पङ्कजादिवत्सुषुप्तं ब्रह्मैव विद्धि।।
नित्यं सुषुप्तपदमेव जगद्विलासः सम्यक्प्रशान्तसमचिद्धन आत्मनीदृक्।
पद्मं शिलान्त इव सर्गदशास्त्वसारा दृष्टा न देहमुपयान्ति कदाचिदेव।।[6-4-18]
इति श्रीयोगवासिष्ठसारे निर्वामप्रकरणे शिलोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।
नित्यमिति।। प्रशान्ते समे चिद्धने चात्मनि ईदृक्प्रतीयमानो जगद्विलासः शिलान्तःपद्ममिव सुषुप्तपदमिव ब्रह्मणः सुषुप्तावस्थयावस्थानमेव। दृष्टास्तु सर्गदशाः सर्गाद्यवस्थाः असारा निःप्रमाणाः। अतः कदाचिदेव देहं वास्तवं स्वरूपं नोपयान्ति।।
इति श्रीवासिष्ठविवरणे शिलोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।