सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ६

विकिस्रोतः तः
← सर्गः ५ लघुयोगवासिष्ठः
सर्गः ६
[[लेखकः :|]]
सर्गः ७ →

उद्दालकोपाख्यानम्।।
षष्टः सर्गः।।
वसिष्ठ उवाच।।
एवमेषातिवितता दुर्ज्ञाना रघुनन्दन।
महामोहकरी माया विषमा पारमात्मिकी।।[5-6-1]
अतो वच्मि महाबाहो मायेयं विषमान्वहम्।
असावधानमनसं संयोजयति संकटे।।,5-6-2]
चित्ताक्रमणमात्रात्तु परमादौषधादृते।
प्रयत्नेनापि संसारमहारोगो न शाम्यति।।[5-6-3]
पूर्वं चित्तोपशान्तये मायावैचित्र्यमुक्तम्। इदानीं दृढभूमेर्योगाभ्यासाच्चञ्चलमपि चित्तमुपशाम्यतीति उद्दालकोपाख्यानेन निरूप्यते-एवमित्यादिना।। पारमात्मिकी परमात्मसंबन्धिनी तच्छक्तिरूपत्वात्।।[5-6-1,2,3]
वर्तमानं क्रमायातं भजद्बाह्यधिया क्षणम्।
भूतं भविष्यदभजद्याति चित्तमचित्तताम्।।[5-6-4]
वर्तमानमिति।। क्रमायातं वर्णाश्रमक्रमवशादागतं वर्तमानमेव कार्यं बाह्यधिया अनादरया बुद्ध्या क्षणमात्रमनुसंदधत् भूतं भविष्यच्च कार्यमभजत् अननुसंदधानं चित्तमचित्ततां निर्विकल्पतां याति।।
संकल्पाशानुसन्धावर्जनं चेत्प्रतिक्षणम्।
करोषि तदचित्तत्वं प्राप्त एवासि पावनम्।।[5-6-5]
संकल्पेति।। एवमेव करिष्यामीति मानसं कर्म संकल्पः। इदं मे स्यादिति प्रार्थनमाशा। अतीतानुस्मरणमनुसन्धानम्।।
चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते।
निर्मनस्कस्वभावं तु न तत्र कलनामलः।।[5-6-6]
चेतनमिति।। चित्तरिक्तं विकल्पविहीनं चेतनं चैतन्यं प्रत्यक्चेतनं प्रत्यगात्मस्वरूपचैतन्यमुच्यते। तत्र प्रत्यक्चैतन्ये निर्मनस्कस्वभावत्वात् कलनामलः अविद्याकृतः कलङ्को नास्ति।।
सा सत्यता सा शिवता सावस्था पारमात्मिकी।
सर्वज्ञता सा सा तृप्तिर्ननु यत्र मनः क्षतम्।।[5-6-7]
सेति।। यत्र यस्यां दशायां मनः क्षतं विनष्टं सैव दशा सत्यता निर्विकारता। जीवन्मुक्ततेति यावत्। सैव शिवता विदेहमुक्तता। सैव पारमात्मिकी अवस्था। सैव च सर्वज्ञता। सैव तृप्तिः आनन्दरूपता चेत्यर्थः।।
अविवेकादुपाहृत्य चेतः सोद्यमनिश्चयैः।
बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमैः।।[5-6-8]
अविवेकादिति।। सोद्यमनिश्चयैः उद्यम उत्साहः तत्सहितैर्निश्चयैः आत्मानात्मविवेकहेतुभिः प्रमाणतर्कैश्चेतः कर्म अविवेकादात्मनो देहादावभिमानादुपाहृत्य उद्धृत्य बलात्कारेण पुरुषप्रयत्नेन सास्त्रसत्पुरुषक्रमैरध्यात्मशास्त्रैरात्मविदामाचारक्रमैश्च संयोज्यम्।।
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि।
निरस्तमननोऽनन्ते संविन्मात्रपरो भव।।[5-6-9]
अथ पञ्चभिः श्लोकैरात्मानुसंधानमुपदिशति-प्रलपन्निति।। प्रलापादिषु संनिधिमात्रेण तत्प्रवर्तके सर्वसाक्षिणि निर्विकल्पे अनन्ते संविन्मात्र एव तात्पर्यवान्भव।।
ममेदं तदयं सोऽहमिति संत्यज्य वासनाः।
एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव।।[5-6-10]
ममेति।। इदं मम जन्म सोऽहं अयमहमिति भेदवासनाः संत्यज्य एकनिष्ठतया सर्वाधिष्ठानमेकमेव ब्रह्मेति निश्चयेन अन्तस्थे संविन्मात्रे तात्पर्यवान्भव।।
मलं संवेद्यमुत्सृज्य मनो निर्मलयन्परम्।
आशापाशानलं छित्त्वा स्वसंवित्तिमयो भव।।[5-6-11]
मलमिति।। आशारूपान्पाशानलं छित्त्वा संवेद्यं दृश्यमेव मलमुत्सृज्य मनः निर्मलयन्स्वसंवित्तिपरो भव।।
अशुभाशुभसंकेतः संशान्ताशाविषूचिकः।
नष्टेष्टानिष्टदृष्टिस्त्वं संवित्सारपरो भव।।[5-6-12]
अशुभेति।। अशुभाशुभसंकेतः अविद्यमानः शुभमशुभमिति च संकेतो भेदोल्लेखो यस्य संशान्ता आशारूपा विषूचिका यस्य नष्टा इष्टदृष्टिः अनिष्टदृष्टिश्च यस्य तादृशस्त्वं संवित्सारपरो भव।।
आत्मतापरते त्यक्त्वा निर्विभावो जगत्स्थितौ।
यज्ञस्तम्भवदात्मानमवलम्ब्य स्थिरो भव।।[5-6-13]
तदा संक्षीयते मोहः संसारभ्रमकारणम्।
निर्मलायां निराशायां स्वसंवित्तौ यदा स्थितिः।।[5-6-14]
आत्मतेति।। चेतनाचेतनात्मके प्रपञ्चे भेदभावनां परित्यज्यात्मानमेव केवलमनुसंदधानो यज्ञस्तम्भवत्स्थिरो निर्विकल्पो भव।।[5-6-13,14]
स्वभावमालोकयतः स्वानन्दमयसंस्थितेः।
रसायनमपि स्वादु राम प्रतिविषायते।।[5-6-15]
स्वभावमिति।। स्वभावमात्मस्वरूपमवलोकयतः साक्षात्कुर्वतः अतएवानन्दमयी संस्थितिर्यस्य तस्य पुंसः स्वादु मधुरमपि रसायनं रसवद्वस्तु प्रतिविषायते प्रतिकूलं विषमिव भवति। `एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ती'ति श्रुतेः।।
दूरादात्मज्ञतायाति चित्ते पीवरतां गते।
आलोकलक्ष्मीरभितो महामेघ इवोत्थिते।।[5-6-16]
दूरादिति।। चित्ते पीवरतां संसारवासनाभिः स्थूलतां गते सति आत्मज्ञता दूराद्याति। अभितो महामेघ उत्थिते आलोकलक्ष्मीरिव प्रकाशसंविदिवेत्यन्वयः।।
अनात्मन्यात्मभावेन देहमात्रास्थया धिया।
पुत्रदारकुटुम्बैश्च चेतो गच्छति पीनताम्।।[5-6-17]
चित्तस्य कथं पीवरत्वमित्याकाङ्क्षायां पञ्चभिः श्लोकैः पीनतामाह-अनात्मनीत्यादिना।। अनात्मनि देहादावात्मभावेन हेतुना देहमात्रे आस्था आदरो यस्यास्तया धिया पुत्रदारादिभिः कुटुम्बैः पोष्यवर्गैश्चेतः पीनतां स्थूलतां गच्छति।।
अहंकारविकारेण ममतामललीलया।
इदं ममेति भावेन चेतो गच्छति पीनताम्।।[5-6-18]
अहंकारेति।। अहंकाररूपविकारेण इदं ममेत्येवंरूपेम भावेन प्रवृत्ता या ममतारूपस्य मलस्य लीला हेला तया चेतः पीनतां गच्छति।।
आधिव्याधिविलासेन समाश्वासेन संसृतौ।
हेयादेयविभागेन चेतो गच्छति पीनताम्।।[5-6-19]
आधीति।। समाश्वासेन शुभनिश्चयेन।।
स्नेहेन धनलोभेन लाभेन मणियोषिताम्।
आपातरमणीयेन चेतो गच्छति पीनताम्।।[5-6-20]
स्नेहेनेति।। पुत्रदारादिस्नेहेन आपातरमणीयेन अविचारितरम्येण मणियोषितां लाभेन प्रवृत्तो यो धनलोभस्तेन च चेतः पीनतां गच्छति।।
दुराशाक्षीरपानेन भोगानिलबलेन च।
आश्वासनेन चारेण चित्ताहिर्याति पीनताम्।।[5-6-21]
दुराशेति।। अहिः क्षीरपानेन अनिलप्रचारबलेन सम्यक्करोषीत्याश्वासनेन स्वैरचारेण पीनतां याति तद्वच्चित्तं दुराशादिभिरित्यर्थः।।
उद्दालकवदालूनं विशीर्णं पञ्चभूतकम्।
कृत्वा कृत्वा धिया धीर धीरयान्तर्विचारय।।[5-6-22]
राम उवाच।।
केन क्रमेण भगवन्मुनिनोद्दालकेन तत्।
भूतपञ्चकमालूनं कृत्वान्तःप्रविचारितम्।।[5-6-23]
वसिष्ठ उवाच।।
शृणु राम यथा पूर्वं भूतवृन्दविचारणात्।
उद्दालकेन संप्राप्ता परमा दृष्टिरक्षता।।[5-6-24]
गन्धमादनशैलेन्द्रनाम्नः काचित्किल स्थली।
विद्यते कीर्णकुसुमा कर्पूरद्रुमधूसरा।।[5-6-25]
तत्र कस्मिंश्चिदुचिते सानौ सफलपादपे।
उद्दालको नाम मुनिरासीदुद्दामतापसः।।[5-6-26]
प्रथमं तु बभूवासावल्पप्रज्ञोऽविचारवान्।
ततः क्रमेण तपसा शास्त्रार्थैर्नियमैर्यमैः।।[5-6-27]
विवेकमाजगामैनमथेदं समचिन्तयत्।
किं तत्प्राप्यं प्रधानं स्याद्यद्विश्रान्तौ न शोचति।।[5-6-28]
कदाहं त्यक्तमनने पदे परमपावने।
चिरं विश्रान्तिमेष्यामि मेरुशृङ्ग इवाम्बुदः।।[5-6-29]
कदा शममुपैष्यन्ति ममान्तर्भोगसंविदः।
इदं कृत्वेदमप्यन्यत्कर्तव्यमिति चञ्चलाः।।[5-6-30]
कदाहं बहुकल्लोलां नावा परमया धिया।
परितीर्णो भविष्यामि मत्तां तृष्णातरङ्गिणीम्।।[5-6-31]
ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः।
कदाहं स्वस्तिमेष्यामि स्वप्रकाशपदे स्थितः।।[5-6-32]
कदोपशान्तमननो धरणीधरकन्दरे।
समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना।।[5-6-33]
उद्दालकवदिति।। आलूनं विशीर्णं आसमन्ताल्लूनं छिन्नं च तद्विशीर्णं विक्षिप्तं चेति तथा।।[5-6-22,23,24,25,26,27,28,29,30,31,32,33]
निरंशध्यानविश्रान्तमूकस्य मम मूर्धनि।
कदा तार्ण करिष्यन्ति कुलायं वनपुत्रिकाः।।[5-6-34]
इति चिन्तापरवशो वन उद्दालको द्विजः।
पुनःपुनस्तूपविश्य ध्यानाभ्यासं चकार ह।।[5-6-35]
विषयैर्नीयमाने तु चित्ते मर्कटचञ्चले।
न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम्।।[5-6-36]
निरंशेति।। निरंशध्यानविश्रान्तमूकस्य निरंशध्यानं निर्विकल्पकसमाधिः। तार्णं तृणमयम्। कुलायं नीडम्। वनपुत्रिका वनपतङ्गिकाः यत्कृतं मधु पौत्रिमुच्यते।।[5-6-34,35,36]
कदाचिद्बाह्यसंस्पर्शपरित्यागादनन्तरम्।
तस्यागच्छच्चित्तकपिरान्तरस्पर्शसंचयान्।।[5-6-37]
कदाचिदान्तरस्पर्शाद्बाह्यं विषयमाददे।
तस्योड्डिय मनो याति कदाचित्रस्तपक्षिवत्।।[5-6-38]
कदाचिदिति।। स्पृशन्तीति स्पर्शा विषयाः। बाह्यस्पर्शपरित्यागाद्बाह्यविषयपरित्यागादान्तरस्पर्शसंचयान्मनोरतपरिकल्पितान्विषयचयान्।।[5-6-37,38]
कदाचिदुदितार्काभं तेजः पश्यति विस्तृतम्।
कदाचित्केवलं व्योम कदाचिन्नबिडं तमः।।[5-6-39]
इति पर्याकुलस्वान्तः स लुठन्ध्यानवृत्तिषु।
अतिपर्याकुलमना विजहारारतिर्गिरौ।।[5-6-40]
समग्रजनदुःप्रापामेकदा प्राप्य कन्दराम्।
संशान्तसर्वसंचारां मुनिर्मोक्षदशामिव।।[5-6-41]
स तां विवेश धर्मात्मा गन्धमादनकन्दराम्।
चकारासनमम्लानैः पत्रैरन्तस्थगुच्छकम्।।[5-6-42]
तस्य प्रस्तारयामास पृष्टे चारु मृगाजिनम्।
तत्रोपाविशदावेशच्चेतः स तनुतां नयन्।।[5-6-43]
कदाचिदिति।। रजस उद्रेके उदितार्काभं विस्तृतं तेजः पश्यति। सत्त्वोद्रेके तु केवलंव्योम। तमस उद्रेके तु निबिडं तम इति विवेकः।।[5-6-39,40,41,42,43]
बुधवत्सुदृढं बध्वा पद्मासनमुदङ्मुखः।
पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्ममञ्जलिम्।।[5-6-44]
वासनाभ्यः समुद्धृत्य मनोमृगमुपप्लुतम्।
निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम्।।[5-6-45]
अयि मूर्ख मनः कोऽर्थस्तव संसारवृत्तिभिः।
धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम्।।[5-6-46]
बुधवदिति।। इदमत्र पद्मासनमभिप्रेतम्। यदुक्तमगस्त्यसंहितायाम्-`पादद्वयं समं सम्यगङ्कमूलद्वयोपरि। कृतं पद्मासनं ह्येतत्प्रशस्तं सर्वकर्मसु' इति। अतएव पार्ष्णिभ्यां पादपृष्ठभागाभ्यां वृषणौ धृत्वा नियम्येत्येतदुपपद्यते। चकार ब्राह्ममञ्जलिमिति। ब्रह्माञ्जलिर्नाम ब्रह्मानुध्यानसमये परस्पराभिमुखयोरुत्तानयोः पाण्योः संनिवेशः स चास्य पद्मासनस्याङ्गम्। यदुक्तमागमान्तरे-`उत्तानं वामचरणं दक्षिणोरुणि विन्यसेत्। उत्तानं सव्यचरणं वामोरुणि निवेशयेत्। तन्मध्य ऊर्ध्वगोत्तानौ वामवामेतरौ करौ। निवेशयेदित्यनुषङ्गः। स्थित्वा निश्चलदृष्टिभ्यां नासाग्रमवलोकयेत्।। इदं पद्मासनं प्राहुर्मुख्यं ध्यानादिकर्मस्वि'ति। तथाच कालिदासः-`पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतासन्नमितोभयांसम्। उत्तानपाणिद्वयसंनिवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये' इति।।[5-6-44,45,46]
अनुधावति यो भोगांस्त्यक्त्वा शमरसायनम्।
संत्यक्तमन्दारवनः प्रयाति विषजाङ्गलम्।।[5-6-47]
यदि यासि महीरन्ध्रं ब्रह्मलोकमथापि वा।
तन्न निर्वृतिमाप्नोषि विनोपशमनामृतम्।।[5-6-48]
अनुधावतीति।। विषजाङ्गलं विषवृक्षभूयिष्ठमरण्यम्।।[5-6-47,48]
इमा विचित्राः कलना भावाभावमयात्मिकाः।
दुःखायैव भयोग्राय न सुखाय कदाचन।।[5-6-49]
इमा इति।। कलनाः कल्पनाः। भावाभावमयात्मिकाः सदसद्वस्तुविषयत्वाद्भावमयः अभावमयश्चात्मा स्वरूपं यासां ताः। भयोग्राय भयेनोग्राय।।
शब्दादिगाभिरेताभिः किं मूर्ख हतवृत्तिभिः।
यस्मात्किंचिदवाप्नोषि यस्मिन्वहसि निर्वृतिम्।
तस्मिंश्चित्तशमे मूर्ख नानुधावसि किं पदम्।।[5-6-50]
शब्दादीति।। शब्दादिगाभिः शब्दादीन्विषयान् गच्छन्तीति शब्दादिगाः ताभिः। यस्मादिति। यस्माच्छमात्किंचित्प्रयोजनं कैवल्यरूपं अवाप्नोषि। यस्मिन्निति। यस्मिन् शमे सति निर्वृतिं स्वरूपसुखं वहसि प्राप्नोषि तस्मिन् शमे किमिति पदं नानुधावसि नानुबध्नासि।।
आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम्।
धिया शब्दानुसारिण्या मृगवन्मा क्षयं व्रज।।[5-6-51]
आगत्येति।। शब्दानुसारिण्या श्रवणेच्छया शब्दमनुसरन्त्या धिया बुद्धिवृत्त्या व्यर्थोत्थानोपबृंहितां निःप्रयोजनेनैवोद्यमेन वर्धितां श्रोत्रतां श्रवणेन्द्रियत्वमागत्य मृगवल्लब्धकगीतासक्तमृगवत्संक्षयं मा व्रज।।
त्वक्त्वमागत्य दुःखाय स्पर्शोन्मुखतया तया।
मूर्ख मा बध्यतामेहि गजीलुब्धगजेन्द्रवत्।।[5-6-52]
त्वक्त्वमिति।। तया तादृश्या स्वर्शोन्मुखतया स्पर्शार्हसुखानुभवेच्छया दुःखाय केवलं त्वक्त्वं त्वगिन्द्रियत्वमागत्य गजीलुब्धगजेन्द्रवद्बध्यतां मा एहि।।
रसनाभावमागत्य गर्धेनान्धदुरन्धसाम्।
मा नाशमेहि बडिशपिण्डीलम्पटमत्स्यवत्।।[5-6-53]
रसनेति।। दुरन्धसां दुरन्नानां गर्धेन आस्वादनाकाङ्क्षया रसनेन्द्रियत्वमागत्य बडिशपिण्डीलम्पटमत्स्यवन्मा नाशमेहि। बडिशं मत्स्यवेधनम्। पिण्डी तद्गतोऽल्पो मांसपिण्डः।।
चाक्षुषीं वृत्तमाश्रित्य प्रभारूपचयोन्मुखीम्।
मा गच्छ दग्धतां मूर्ख कान्तिलुब्धपतङ्गवत्।।[5-6-54]
चाक्षुषीमिति।। प्रभारूपचयोन्मुखीं प्रभावतो लावण्ययुक्तस्य रूपस्य चये ग्रहणे उन्मुखीं सावधानाम्।।
घ्राणमार्गमुपाश्रित्य शरीराम्भोजकोटरे।
गन्धोन्मुखतया बन्धं मा समाश्रय भृङ्गवत्।।[5-6-55]
घ्राणेति।। गन्धोन्मुखतया घ्राणमार्गमुपाश्रित्य शरीरम्भोजकोटरे बन्धं मा समाश्रयेत्यन्वयः।।
कुरङ्गालिपतङ्गेभमीनास्त्वेकैकशो हताः।
सर्वैरेतैरनर्थैस्तैर्व्याप्तस्याज्ञ कुतः सुखम्।।[5-6-56]
कुरङ्गेति।। एकैकशः एकैकेन शब्दादिविषयेण।।
हे चित्त वासनाजालं बन्धाय भवतोऽभितः।
यदि शाम्यसि तत्त्यक्त्वा तदानन्तो जयस्तव।।[5-6-57]
हे चित्तेति।। हे चित्त, भवतो बन्धायैवाभितो वासनाजालं प्रवर्तते। तद्वासनाजालं त्यक्त्वा यदि शाम्यसि तत्तर्हि तव अनन्तो निरवधिको जयो विजयः स्यात्।।
करोम्येष किमर्थं वा तवैतदनुशासनम्।
विचारणावतः पुंसश्चित्तत्वमपि नास्ति यत्।।[5-6-58]
करोमीति।। विचारणावतः आत्मव्यतिरेकेण चित्तं नाम किमिति विचारयतः पुंसः चित्तमेव नास्ति। अविचारसिद्धत्वादिदन्तया न स्फुरतीत्यर्थः।।
अनन्तस्यात्मत्त्वस्य तन्वी मनसि संस्थितिः।
न संभवति बिल्वान्तर्वासिता दन्तिनो यथा।।[5-6-59]
अनन्तस्येति।। यथा हि दन्तिनो बिल्वफलाभ्यन्तरवासित्वं न संभवति तथा देशकालादिभिरपरिच्छिन्नस्यात्मतत्त्वस्य सूक्ष्मे मनसि स्थितिर्न संभवतीत्यर्थः।
पादाङ्गुष्ठाच्छिरो यावत्कणशः प्रविचारितम्।
न लब्धोऽसावहंनाम कः स्यादहमिति स्थितः।।[5-6-60]
पादेति।। पादाङ्गुष्ठमारभ्य शिरःपर्यन्तं कणशो मया प्रविचारितम्। तत्र पादादिकेशान्ते देहे अहंशब्दार्थो न लब्धः। अहमिति स्थितः पदार्थः कः स्यादिति चित्तं प्रति विचारः।।
भरिताशेषदिक्कुञ्जं पश्याम्येकं जगत्रये।
संवेदनमसंवेद्यं सर्वत्र विततात्मकम्।।[5-6-61]
भरितेति श्लोकद्वयं वाक्यम्।। यस्य वस्तुनः इयत्तादयो न दृश्यन्ते तादृशमसंवेद्यं प्रकाशान्तराप्रकाश्यं संवेदनमेकमेव भरिताशेषदिक्कुञ्जं पश्यामीत्यन्वयः।।
दृश्यते यस्य नेयत्ता न नाम परिकल्पना।
नैकता न च नानाता स्थूलता न च नाणुता।।[5-6-62]
इयत्ता परिच्छिन्नत्वम्। एकता एकत्वसंख्यायोगः। नानाता भेदः। स्थूलता महत्ता च परिमाणभेदः।।
वेदनत्वात्सुसंवेद्ये मयि त्वं दुःखकारणम्।
विवेकजेन बोधेन तदिदं हन्यसे मया।।[5-6-63]
वेदनत्वादिति।। वेदनन्वाज्ज्ञानरूपत्वात्स्वसंवेद्ये स्वयंप्रकाशे मयि हे चित्त, त्वं दुःखकारणं जायसे तत्तस्मात्कारणादिदं त्वं विवेकजेन बोधेन मया हन्यसे।।
इदं मांसमिदं रक्तमिमान्यस्थीनि देहके।
इमे ते स्वासमरुतः कोऽसावहमिति स्थितिः।।[5-6-64]
इदमिति।। इदन्तया गृह्यमाणेषु मांसादिषु कोऽसावहंशब्दार्थः न कोऽपि। इदन्ताहन्तयोर्विरोधादिति।।
मांसमन्यदसृक्चान्यदस्थीन्यन्यानि चित्त हे।
बोधोऽन्यः स्पन्दनं चान्यत्कोऽसावहमिति स्थितिः।।[5-6-65]
मांसमिति।। मांसादिनामात्मनोऽन्यत्वेन प्रतीयमानत्वादहन्ता नोपपद्यत इत्यर्थः। तत्र बोधो ज्ञानेन्द्रियव्यापारः।।
इदं घ्राणमियं जिह्वा त्वगियं श्रवणे इमे।
इदं चक्षुरयं स्पन्दः कोऽसावहमिति स्थितिः।।[5-6-66]
इदमिति।। घ्राणादीन्यपीदन्तया प्रतीयमानत्वान्नाहंशब्दार्थ इत्यर्थः। तत्र स्पन्दो नाम क्रियाहेतुः कर्मेन्द्रियगणः।।
अहमेव हि सर्वत्र नाहं किंचिदपीह वा।
इत्येवं सन्मयी दृष्टिर्नेतरो विद्यते क्रमः।।[5-6-67]
अहमिति।। इह जगति सर्वत्र प्रतीयमानोऽहमेवेति वा इह प्रतीयमानं किंचिदपि अहं नेति वा या दृष्टिः सैव सन्मयी वास्तवी। इतरक्रमः परिच्छिन्नविषयाहंप्रत्ययरूपो न विद्यते। न वास्तव इत्यर्थः।।
चिरमज्ञानधूर्तेन पोथितोऽस्मीत्यहन्तया।
वृकेन दृप्तेनाटव्यां पशुपोतो यथा तथा।।[5-6-68]
चिरमिति।। इत्येवमज्ञाननाम्रा धूर्तेन चिरमहन्तया परिच्छिन्नाहंकारेण पोथिऽस्मि हिंसितोऽस्मि। दृप्तेन वृकेन अटव्यां पशुपोतो गवादेः पशोः शिशुर्यथा तथा। तद्वदित्यर्थः।।
दिष्ट्येदानीं परिज्ञातो मयैषोऽज्ञानतस्करः।
पुनर्न संश्रयाम्येनं स्वरूपार्थापहारिणम्।।[5-6-69]
वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः।
प्रवर्तते बहिः स्वार्थं वासना नात्र कारणम्।।[5-6-70]
तस्मान्मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम्।
कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ।।[5-6-71]
दिष्ट्येति।। इदानीं ममैषोऽज्ञानरूपस्तस्करः परिज्ञातो दिष्ट्या फलितं भाग्येनेत्यर्थः। स्वरूपार्थापहारिणं स्वरूपमेवार्थः तदपहारिणं एनमज्ञानतस्करं पुनर्न संश्रयामि।।[5-6-69,70,71]
तृष्णयैव विनष्टाः स्थ व्यर्थमिन्द्रियबालकाः।
कोशकाराः कुकृमयस्तन्तुनेव स्वयंभुवा।।[5-6-72]
तृष्णयैवेति। स्वयंभुवा स्वोत्पन्नेनैव तन्तुना कोशकारकृमय इव स्वयंभुवातृष्णयैव व्यर्थं विनष्टाः स्थ।।
हे चित्त सर्वेन्द्रियकोश तस्मात्सर्वेन्द्रियैरैक्यमुपैत्य नूनम्।
आलोक्य चात्मानमसत्स्वरूपं निर्वाणमेकामलबोधमास्व।।[5-6-73]
हे चित्तेति।। सर्वेन्द्रियकोश सर्वैश्चक्षुरादिभिः कोशवदुपजीव्य हे चित्त, तस्मात्पूर्वोक्ताद्धेतोः सर्वेन्द्रियैः ऐक्यमुपैत्य आत्मानं स्वीयं रूपं असत्स्वरूपं अविद्यमानस्वभावमालोक्य विचार्य एकामलबोधं एकः केवलः अमलश्च बोधो यथा स्यात्तथा निर्वाणमुपरतव्यापारमास्व तिष्ठ।।
विषयविषविषूचिकामनन्तां निपुणमहंस्थितिवासनामपास्य।
अभिमतपरिहारमन्त्रयुक्त्वा भव विभवो भगवान्भियामभूमिः।।[5-6-74]
विषयेति।। हे चित्त, अनन्तां विषयविषविषूचिकां विषयरूपां विषयजन्यविषूचिकां अहंस्थितिवासनां च अभिमतपरिहारमन्त्रयुक्त्या इष्टवस्तुपरित्यागरूपमन्त्रयोगेन निपुणमपास्य विभवो विगतसंसारो भियां भयानामभूमिः भगवान्भव।।
उद्दालक उवाच।।
संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम्।
विततां भुवमासाद्य विहरामि यथासुखम्।।[5-6-75]
संकल्पेति।। संकल्पा एव पादपा यस्मिंस्तृष्णा एव लता यस्मिंस्तन्मनोवनं छित्त्वा विततां भुवं चिदाकाशरूपामासाद्य यथासुखं विहरामि।।
पदं तदनुयातोऽस्मि केवलोऽस्मि जयाम्यहम्।
निर्वाणोऽस्मि निरंशोऽस्मि निरीहोऽस्मि निरीप्सितः।।[5-6-76]
पदमिति।। यतः केवलोऽस्मि निर्मनस्कत्वात् अतस्तत्पदं ब्रह्मभावमनुयातोऽस्मि। अतस्तापत्रयशान्त्या निर्वाणोऽस्मि। परिपूर्णत्वान्निरंशोऽस्मि अतश्चावाप्तकामत्वान्निरीप्सितोऽस्मि ततो निरीहोऽस्मि ततो जयामीति संबन्धः।।
स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता।
आनन्दितोपशमिता मानिता मुदितोदिता।।[5-6-77]
पूर्णतोदारता सत्या कान्तिमत्तैकता मता।
सर्वैकता निर्भयता क्षीणद्वित्वविकल्पिता।।[5-6-78]
एता नित्योदिताः स्वस्थाः सुन्दर्यः सुभगोदयाः।
ममैकात्मरतेर्नित्यं कान्ता हृदयवल्लभाः।।[5-6-79]
वसिष्ठ उवाच।।
इति निर्णीय स तया धिया धवलया मुनिः।
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः।।[5-6-80]
स्वच्छतेति श्लोकत्रयं वाक्यम्।। स्वच्छतादयः कान्ता मम हृदयवल्लभाः व्युत्थानदशायां हृदयं विनोदयन्तीत्यर्थः। तत्र स्वच्छता मनोमलराहित्यम्। ऊर्जितता दैन्याभावः। सत्ता सद्रूपता। हृद्यता सर्वप्रियत्वम्। सत्यता अबाध्यत्वम्। ज्ञता ज्ञानिता। आनन्दिता आनन्दस्वरूपता। उपशमिता निर्विकारता। सदोदिता मुदिता च पुण्यकर्मसु प्रीतिः। पूर्णता व्याप्तता। सत्या वास्तव्युदारता उत्कृष्टता। कान्तिमत्ता ब्रह्मचित्ताभिव्यञ्जिका मुखकान्तिः। एकता भेदाभावः। मता संमता। सर्वैकता सर्वात्मकत्वम्। निर्भयता विश्रम्यः। क्षीणद्वित्वविकल्पिता द्वित्वादिविकल्पाभावः।।[5-6-77,78,79,80]
ओंकारमकरोत्तारस्वरमूर्ध्वगतध्वनिम्।
सम्यगाहतलाङ्गूलं घण्टाकुण्डमिवारवम्।।[5-6-81]
ओंकारमिति।। सम्यगाहतं ताडितं लाङ्गूलं मध्यलम्बिदण्डो यस्य। अतएव आरवं आसमन्ताद्रवो यस्य तादृशं घण्टाकुण्डमिव कुण्डवन्मण्डलाकारां घण्टामिव तारस्वरमोंकारमूर्ध्वगतध्वनिं ब्रह्मरन्ध्रव्याप्तं नादमकरोत्।।
ओमुच्चारयतस्तस्य संवित्तत्त्वे तदुन्मुखे।
यावदोंकारमूर्ध्वस्थे वितते विमलात्मनि।।[5-6-82]
ओमिति शलोकत्रयं वाक्यम्। ओमित्युच्चारयतस्तस्योद्दालकस्य संवित्तत्त्वेस्वरूपचैतन्ये तदुन्मुखे ओंकारानुसारिणि यावदोंकारं ओंकारानुवृत्तिपर्यन्तं ऊर्ध्वस्थे ऊर्ध्वमुखे विमलात्मनि वितते व्याप्ते सति।।
सार्धत्र्यंशात्ममात्रस्य प्रथमेंऽशे स्फुटारवे।
प्रणवस्य समाक्षुब्धप्राणे रणितदेहके।।[5-6-83]
सार्धवंशात्ममात्रस्य अर्धेन सहितास्त्रर्योंऽशा आत्मा स्वरूपं यासां ताः सार्धत्र्यंशात्मानः ता मात्रा यस्य तादृशस्य। अर्धमात्रादिकत्रिमात्रस्येत्यर्थः। प्रणवस्य ओंकारस्य समाक्षुब्धप्राणे समः एकप्रकारः अक्षुब्धश्च प्राणः प्राणवायुर्यस्मिंस्तादृशे प्रथमेंऽशे अकारात्मके प्रथमभागे स्फुटारवे व्यक्तध्वनौ रणितदेहके मुखरितशरीरके सति।।
रेचकाख्येऽखिलं कायं प्राणनिष्क्रमणक्रमः।
रिक्तीचकार पीताम्बुरगस्त्य इव सागरम्।।[5-6-84]
रेचकेति।। रेचकाख्यः प्राणनिष्क्रमणक्रमः पीताम्बुरगस्त्यः सागरमिवाखिलं कायं रिक्तीचकार। एतच्च प्रणवस्य सार्धत्रिमात्रत्वं अथर्वशिखायां उपनिषदि-`चतुष्पादिदमक्षरं परं ब्रह्मे'त्यादिना प्रपञ्चितम्। `वर्णत्रयात्मिका ह्येते रेचपूरककुम्भकाः' इति याज्ञवल्क्यवचनात् रेचकादीनां प्रणवांशभूताकारोकारमकारात्मनां प्रवृत्तिर्युक्तेत्यनुसंधेयम्।।
अतिष्ठत्प्राणपवनश्चिद्रसापूरिताम्बरे।
हृदयाग्निर्ज्वलज्ज्वालो ददाह मलिनं वपुः।।[5-6-85]
अतिष्ठदिति।। चिद्रसेन चैतन्येनापूरिताम्बरे प्राणपवनः अतिष्ठत्। रेचकेन रेचितः प्राणोऽम्बरे निरुद्धस्तथैवातिष्ठदित्यर्थः। हृदयाग्निश्च रेचकेन संधुक्षितो ज्वलज्ज्वालः सन्मलिनं पापरूपं वपुर्ददाह।।
यावदिच्छमवस्थैषा प्रणवप्रथमे क्रमे।
बभूव न हठादेव हठयोगो हि दुःखदः।।[5-6-86]
यावदिति।। एषा प्रणवस्य प्राणायामस्य प्रथमे क्रमेऽवस्था रेचकरूपा यावदिच्छं इच्छानुवृत्तिर्यावत्तावदेव बभूव नतु हठाद्बलात्कारादेव। कुतः। हि यस्मात्कारणाद्धठयोगो दुःखदः। हठयोगो नाम महामुद्रादिभिर्बलात्प्राणनिरोधद्वारा मनोनिरोधः।।
अथेतरांशावसरे प्रणवस्य समास्थितौ।
निष्पन्दः कुम्भको नाम प्राणानामभवत्क्रमः।।[5-6-87]
अथेति।। अथ प्राणपवनस्य चिद्रसापूरिताम्बरनिरोधानन्तरं समास्थितौ साम चित्तस्य स्थितिर्यस्मात्तस्मिन् प्रणवस्य इतारंशावसरे उकारात्मनो द्वितीयाशस्य मूर्तिध्यानावसरे ओमुच्चारयतस्तस्योद्दालकस्य निष्पन्दो निष्कम्पः कुम्भकः प्राणानां क्रमोऽभवत्। पूर्वं चिद्रसापूरितेऽम्बरे निरुद्धस्य प्रामवायोः तत्रैवान्तरे तत्प्रयत्नवशात्कुम्भकरूपः क्रमोऽभवदित्यर्थः। अत्र च प्रणवस्य अकारादिवर्णत्रयात्मकत्वाच्च तेषां ब्रह्मविष्णुरुद्ररूपत्वात्तत्तन्मूर्तिध्यानपूर्वकं प्रणवजपेन रेचकादिः प्राणायामक्रमः प्रतिपाद्यत इत्यनुसंधेयम्।।
न बहिर्नान्तरे नाधो नोर्ध्वं नाशासु तत्र ते।
संक्षोभमगमन्प्राणा इव संस्तम्बिता दृतौ।।[5-6-88]
तदेव कुम्भकस्य निष्पन्दत्वमाह-नेति।। बहिः शरीराद्बहिरभ्यन्तरे शरीराभ्यन्तरे। अध ऊर्ध्वमिति। यस्मिन्नाकाशदेशे प्राणनिरोधस्तस्मादध ऊर्ध्वं चेत्यर्थः। तत्र कुम्भके। दृतौ चर्मभस्त्रिकायाम्।।
दग्धदेहपुरो वह्निः शशामाशनिवत्क्षणात्।
अदृश्यत सितं भस्म शरीरं हिमपाण्डुरम्।।[5-6-89]
दग्धेति श्लोकद्वयं वाक्यम्।। दग्धं देहरूपं पुरं येन स वह्निः क्षणादशनिवच्छशाम।।
यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम्।
शरीरास्थीनि दृश्यन्ते निष्पन्दानि सितानि च।।[5-6-90]
यत्र सिते भस्मनि कर्पूरशय्यायां सुखोचितं सुप्तानीव शरीरस्थीनि दृश्यन्ते तादृशं शरीरं भस्मेवादृश्यतेत्यन्वयः।।
तद्भस्म वायुना नीतं सास्थि वायुरयोजयत्।
तच्चण्डपवनोद्धूतमावृत्य गगनं क्षणात्।
शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद्ययौ।।[5-6-91]
तदिति।। तदस्थिमद्भस्म चण्डपवनोनेर्ध्वं नीतं सत् शरदि अभ्रमिहिकेव प्रालेययुतो मेघ इव गगनमावृत्य क्षणात्क्वापि ययौ।।
यावदिच्छमवस्थैषा प्रणवस्यापरे क्रमे।
बभूव न हठादेव हठयोगो हि दुःखदः।।[5-6-92]
यावदिति।। प्रणवस्य प्रणवात्मकस्य प्राणायामस्यापरे कुम्भकरूपे क्रमे एषावस्था यावदिच्छमेव बभूव।।
ततस्तृतीयावसरे प्रणवस्योपशान्दिदे।
पूरणात्पूरको नाम प्राणानामभवत्क्रमः।।[5-6-93]
तत इति।। ततः कुम्भकानन्तरं उपशान्तिदे चित्तस्योपशान्तिहेतौ प्रणवस्य ओंकारस्य तृतीयावसरे मकारात्मकस्य तृतीयांशस्य मूर्तिध्यानावसरे ओमुच्चारयतस्तस्य पूरणाद्धेतोः पूरको नाम प्राणानां क्रमोऽभवत्।।
तसिमिन्नवसरे प्राणाश्चेतनामृतमध्यगाः।
व्योम्नि शीतलतामीयुर्हिमसंस्पर्शसुन्दरीम्।।[5-6-94]
तस्मिन्निति।। तस्मिन्नवसरे पूरकावसरे प्राणाः प्राणवायवो व्योम्नि चेतनामृतमध्यगाः चेतनैवामृतं तस्य मध्यगाताः सन्तो हिमसंस्पर्शेन सुन्दरीं शीतलतामीयुर्गतवन्तः।।
क्रमाद्गगनमध्यस्थाश्चन्द्रमण्डलतां ययुः।
धूमा गगनकोशस्थाः शीतलाम्बुदतामिव।।[5-6-95]
क्रमादिति।। गगनमध्यस्थास्ते प्राणाः क्रमाच्चन्द्रमण्डलतां ययुः धूमा गगनकोशस्थाः शीतलाम्बुदतामिव।।
कलाकलापसंपूर्णे ते तस्मिंश्चन्द्रमण्डले।
रसायनमहाधाराः सम्पन्नाः पाणवायवः।।[5-6-96]
कलेति।। ते प्राणवायवो रसायनस्यामृतस्य महत्यो धाराः संपन्नाः। सुधाधारारूपतां प्राप्ता इत्यर्थः। धाराया एकत्वेऽपि प्रकृतिभूतप्राणप्राधान्यविविक्षया संघीभवन्ति ब्राह्मणा इतिवत्सम्पन्ना इति बहुवचनम्।।
सा पपाताम्बराद्धारा शेषे शारीरभस्मनि।
रसायनी हरशिरःपतितेव पुरापगा।।[5-6-97]
उदभूदिन्दुबिम्बाभं चतुर्बाहुधरं शुभम्।
उद्दालकशरीरं तन्नारायणतयोदितम्।।[5-6-98]
रसायनमयाः प्राणास्तच्छरीरमपूरयन्।
ततः कुण्डलिनीमन्तः पूरयामासुरादृताः।।[5-6-99]
अथ पद्मासनगतः कृत्वा देहस्थितिं दृढाम्।
आलानमिव मातङ्गं निबद्धेन्द्रियपञ्चकम्।।[5-6-100]
चिन्तया हृयाम्भोजे चेतो भ्रमरचञ्चलम्।
बलात्संरोधयामास सेतुर्जलमिव द्रुतम्।।[5-6-1-101]
निमिमील दृशावर्धं परिपक्ष्मलपक्ष्मके।
निष्पन्दतारामधुरे संध्याकाल इवाम्बुजे।।[5-6-102]
सेति।। रसायनी अमृतमयी धारा अम्बरात्पुरा पूर्वं हरशिरःपतिता आपगा भागीरथीव शेषे अवशिष्टे शारीरभस्मनि पपात।।[5-6-97,98,99,100,101,102]
सौम्यतामनयन्मौनी प्राणापानजवं मुखे।
इन्द्रियाणीन्द्रियार्थेभ्यः पृथक्चक्रे प्रयत्नतः।।[5-6-103]
सौम्यतेति।। मौनी सन्मुखे प्राणापानजवं उच्छ्वासनिःश्वासरूपं सौम्यतां प्रशान्तत्वमनयत्। इन्द्रियार्थेभ्यः इन्द्रियाणि पृथक्चक्रे। प्रत्याजहारेत्यर्थः।।
बाह्यान्स्पर्शानशेषेण जहौ दूरे स धीरधीः।
विलीनानान्तरांश्चक्रे स्पर्शानुज्झितदर्शनात्।।[5-6-104]
बाह्येति।। स्वर्शान्विषयान्। दर्शनं वृत्तिज्ञानम्।।
रुरोध गुदसंकोचान्नवद्वारानिलानथ।
मुखसंस्थगितः कुम्भो रन्ध्रकोशानिवेतरान्।।[5-6-105]
आत्मतत्त्वप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छनाम्।
दधार कन्धरां वीरो मेरुशृङ्गशिखामिव।।[5-6-106]
रुरोधेति।। अथ गुदसङ्कोचाद्वज्रासनादिना मूलाधारनिरोधात् नवद्वारानिलान् रुरोध। मुखेति।। मुखे संस्थगित आवृतः कुम्भः इतरान् रन्ध्रकोशानिव। मुखे स्थगिते कुम्भस्य सूक्ष्मरन्ध्रेषु वायुर्यथा निरुध्यते तद्वदित्यर्थः।।[5-6-105,106]
बभार हृदयाकाशे मनः संयममागतम्।
विन्ध्यखात इवोन्मत्तगजं युक्तिवशीकृतम्।।[5-6-107]
बभारेति।। संयमं शिक्षामागतं प्राप्तं मनः हृदयाकाशे दहाराख्ये बभार दधार। युक्तिभिरुपायैर्वशीकृतमुन्मत्तं गजं विन्ध्यस्य खाते बिल इव।।
शरन्नभोवदासाद्य विमलामतिसौम्यताम्।
दुधावाथ विकल्पौघान्प्रतिभासमुपेयुषः।।[5-6-108]
अगच्छतो यताकामं प्रतिभासान्पुनःपुनः।
अच्छिनन्मनसा शूरः खड्गेनेव रणे रिपून्।।[5-6-109]
शरदिव दुधाव निरस्तवान्।।[5-6-108,109]
विकल्पौघे परे लूने सोऽपश्यद्धृदयान्तरे।
तमश्छन्नविवेकार्कं लोलकज्जलमेचकम्।।[5-6-110]
विकल्पेति।। तमो विकल्पहेतुभूतमज्ञानं लोलकज्जलघन्मर्दितमषीवन्मेचकं मलिनवर्णम्।।
तदप्युच्छेदयामास सम्यक्स्वान्तर्विवस्वता।
तमस्युपरते कान्तं तेजःपुञ्जं ददर्श सः।
तल्लुलाव स्तालाब्जानां वनं बाल इव द्विपः।।[5-6-111]
तदपीति।। तत्तमोऽपि स्वान्तःकरणगतविवेकत उत्सादयामास। ततस्तमस्युपरते तेजः प्रकाशरूपां सत्त्वगणवृत्तिं ददर्श। दृष्ट्वा च तदपि तेजो लुलाव चिच्छेद।।
तेजस्युपरते तस्य घूर्णमानं मनो मुनेः।
निशाब्जवदगान्निद्रां तामप्याशु लुलाव सः।।[5-6-112]
तेजसीति।। तेजसि सत्त्ववृत्तावुपरते तस्य मनो घूर्णमानं विश्रान्तिमलभमानं पुनरपि निद्रां तामसीं वृत्तिमगात्। सत्त्वादिगुणानां परस्पराभिभवेन परिणममानत्वात्। यदुक्तं सांख्ये-`प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः। अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणा' इति।।
निद्राव्यपगमे तस्य व्योमसंवित्समुद्ययौ।
व्योमसंविदि नष्टायां मूढं तस्याभवन्मनः।
मूढमप्येष मनसस्तं ममार्ज महाशयः।।[5-6-113]
निद्रेति।। व्योमसंविच्छून्याकारा संवित्‌मूढं अप्रतिपत्तिजडम्।।
ततस्तेजस्तमोनिद्रामोहादिपरिवर्जिताम्।
कामप्यवस्थामासाद्य विशश्राम मनः क्षणम्।।[5-6-114]
तत इति।। तेजस्तमोनिद्रामोहादिपरिवर्जितां तेजःप्रभृतीनां सत्त्वादिगुणपरिणामिरूपत्वात्तद्रहितां कामप्यवस्थां निर्विकल्पां समाध्यवस्थामासाद्य मनो विशश्रम आत्मनि तस्थौ।।
विश्राम्याशु पपाताङ्गसंविदं विश्वरूपिणीम्।
सेतुरुद्धं सरोवारि प्रतीपं स्वमिवास्पदम्।।[5-6-115]
विश्राम्येति।। विश्वरूपिणीं सर्वात्मिकां। अङ्गसंविदं स्वस्वरूपचैतन्यपूर्णाम्। ब्रह्मात्मैक्यसंविदमित्यर्थः। सेतुना रुद्धं सरोवारि प्रतीपं प्रत्यावृत्तं सत् स्वमास्पदं मूलस्थानभूतं सर इव।।
चिरानुसंधानवशात्स्वादनाच्च स्वसंविदः।
मनश्चिन्मयतामागाद्धेमनूपुरतामिव।।[5-6-116]
चिरेति।। चिरं स्वरूपानुसंधानवशात्स्वसंविदः स्वरूपानन्दसंविदः स्वादनादास्वादनाच्च हेमनूपुरतामिव मनश्चिन्मयतामागात्।।
चित्तत्वमथ संत्यज्य चित्तं चित्तत्त्वमागतम्।
अन्यदेव बभूवाशु पङ्कः कुम्भस्थितो यथा।।[5-6-117]
चित्तत्वमिति।। अथानन्तरं चित्तं कर्तृ चित्तत्वं चित्तरूपतां संत्यज्य चित्तत्त्वं चितः पारमार्थिकं रूपं आगतं सत् अन्यदेव बभूव। चिदेव बभूवेत्यर्थः। कुम्भस्थितः पङ्को यथा कालातिक्रमाज्जलविलये सति पङ्करूपं परित्यज्य कुम्भाकारां लोष्टतां याति तद्वदिति।।
चेत्यं संत्यज्य चिच्छुद्धा चित्सामान्यमथाययौ।
त्यक्तवीच्यादिभेदोऽब्धिर्वाःसामान्यमिवैकधीः।।[5-6-118]
चेत्यमिति।। चित्कर्त्री चेत्यं संत्यज्य शुद्धा सती चित्सामान्यं सर्वानुवृत्तिचिन्मात्ररूपमाययौ त्यक्तवीचत्यादिबेदत्वात्। एकधीरेकाकारबुद्धिगोचरः सन्नब्धिः वाःसामान्यं शुद्धजलभावमिव।।
त्यक्तभोगौघमननं ततो विश्वम्भरं महत्।
चिदाकाशं ततः शुद्धं सोऽभवद्बोधमागतः।।[5-6-119]
त्यक्तेति।। बोधं स्वरूपसाक्षात्कारं आगतः त्यक्तभोगौघमननं संत्यक्तबाह्यान्तरिन्द्रियवृत्तिकं विश्वंभरं शुद्धं महच्चिदाकाशमभवत्।।
तत्र प्रापदथानन्दं दृश्यदर्शनवर्जितम्।
अनन्तमुत्तमास्वादं रसायनमिवार्णवम्।।[5-6-120]
तत्रेति।। तत्र चिदाकाशे रसायनममृतारूपमर्णवमिव दृश्यदर्शनवर्जितमुत्तमास्वादमनन्तमानन्दं प्रापत्।।
शरीरात्समतीतोऽसौ कामप्यवनिमागतः।
सत्तासामान्यरूपात्मा बभूवानन्दसागरः।।[5-6-121]
शरीरादिति।। शरीरात्समतीतः जीवबावादुत्तीर्णः कामप्यवनिं चिदाकाशरूपाम्।।
द्विजचेतनहंसोऽसावानन्दसरसि स्थिरः।
अतिष्ठच्छरदच्छे खे कलापूर्ण इवोडुपः।।[5-6-122]
द्विजेति।। द्विजचेतनहंसः परमात्महंसभावमापन्न उद्दालकद्विजरूपस्चेतन इत्यर्थः। उडुपश्चन्द्रमाः।।
बभूवावातदीपाभो लिपिकर्मार्पितोपमः।
अवीच्यम्बुनिधिप्रख्यो वृष्टमूकाम्बुदस्थितिः।।[5-6-123]
अथैतस्मिन्महालोकेऽतिष्ठदुद्दालकश्चिरम्।
अपश्यद्व्योमगान्सिद्धानमरानपि भूरिशः।।[5-6-124]
आगतानि विचित्राणि सिद्धजालानि चाभितः।
तानि नादरयांचक्रे सिद्धिवृन्दानि स द्विजः।।[5-6-125]
सिद्धिसार्थमनादृत्य तस्मिन्स्वानन्दमन्दिरे।
अतिष्ठदथ षण्मासानद्रिकूट इवोत्तरे।।[5-6-126]
जीवन्मुक्तपदं तत्तु यत्स संप्राप्तवान्द्विजः।
तत्र सिद्धाः सुराः साध्याः स्थिता ब्रह्महरादयः।।[5-6-127]
बभूवेति।। वृष्टमूकाम्बुदस्थितिः वृष्टो मुक्तवर्षो मूको निःशब्दश्च योऽम्बुदस्तस्येव स्थितिर्यस्य।।[5-6-123,124,125,126,127]
आनन्दपरिणामित्वादनानन्दपदं गतः।
आनन्दे न निरानन्दे ततस्तत्संविदाबभौ।।[5-6-128]
आनन्देति।। यतः कारणात्स उद्दालकः आनन्दपरिणामित्वादानन्दरूपेण परिणतात्वात् अनानन्दपदं स्वरूपव्यतिरिक्तानन्दरहितं पदं गतस्ततः कारणात्तत्संवित् उद्दालकस्य संविन्निरानन्दे आनन्दविषयानाबभौ न भातिस्म। स्वरूपातिरिक्तस्यानन्दस्याभावात् निरानन्दे निरानन्दवस्तुविषया च नाबभौ। स्वरूपस्यैवानन्दात्मना सर्वत्रावभासमानत्वात्।।
तत्पदं सा गतिः शंभोस्तच्छ्रेयः शाश्वतं शिवम्।
तत्पदं साधवः प्राप्य क्षणं वर्षशतं च वा।।[5-6-129]
तत्पदमिति।। तत्पदं जीवन्मुक्तिरूपम्।।
दृश्यदृष्टिं समायान्ति न पुनर्भवकारिणीम्।।[5-6-130]
दृश्येति।। पुनर्भवकारिणीं संसारहेतुं दृश्यदृष्टिं प्रपञ्चस्फुरणाम्।।
उद्दालकोऽत्र षण्मासान्दूरोत्सारितसिद्धिभूः।
उषित्वोन्मिषितोऽपश्यत्सिद्धांश्चन्द्रवपुर्धरान्।।[5-6-131]
विद्याधरीभिर्वलितान्विद्याधरपतीनपि।
ते तमूचुर्महात्मानमुद्दालकमुनिं तदा।।[5-6-132]
प्रसादेन प्रणामान्ते भगवन्नवलोकय।
आरुह्येदं विमानं त्वमेहि त्रैविष्टपं पुरम्।।[5-6-133]
स्वर्ग एव हि सीमान्तो जगत्संभोगसंपदाम्।
आकल्पमुचितान्भुङ्क्ष्व भोगानभिमतान्विभो।।[5-6-134]
एवं कथयतः सिद्धानतिथीनित्यसौ मुनिः।
परिपूज्य यथान्यायमतिष्ठद्गतसंभ्रमम्।।[5-6-135]
नाभ्यनन्दत तत्याज तां विभूतिं स धीरधीः।
भोः सिद्धा व्रजतेत्युक्त्वा स्वव्यापारपरोऽभवत्।।[5-6-136]
अथ स्वकर्मनिरतं भोगेष्वरतिमागतम्।
तमुपास्यं ययुः सिद्धा दिनैः कतिपयैः स्वयम्।।[5-6-137]
जीवन्मुक्तः स च मुनिर्विजहार यथासुखम्।
यावदिच्छं वनान्तेषु मुनीनामाश्रमेषु च।।[5-6-138]
कदाचिदह्ना मासेन कदाचिद्वत्सरेण च।
कदाचिद्वत्सरौघेण ध्यानासक्तो व्यबुध्यत।।[5-6-139]
उद्दालक इति।। अत्र समाधौ दूरोत्सारितसिद्धिभूः दूरमुत्सारिता निरस्ता सिद्धिभूः स्वर्गादिर्येन। चन्द्रवपुर्धरांश्चन्द्रवन्मनोहरान्।।[5-6-131,132,133,134,135,136,137,138,139]
चित्तत्त्वैकघनाभ्यासान्महाचित्त्वमुपैत्य सः।
चित्सामान्यचिराभ्यासात्सत्तासामान्यमाययौ।।[5-6-140]
चित्तत्त्वेति।। चित्तत्वैकघनाभ्यासात् चित्तत्त्वस्य एस्यैव घनो निरन्तरो योऽभ्यासोऽनुसंधानं तस्मान्महाचित्त्वं परिपूर्णचितो भावं चिदिति सत्तासामान्यं रामप्रश्नानन्तरं स्वयमेव वक्ष्यति।।
समरसपदलाभप्राप्तिसंशान्तचेता गलितजनविलापः क्षीणसंदेहदोलः।
शरदिनमिव शान्तं व्याततं चोर्जितं च स्फुटममलमचेतस्तद्वपुःस्वं बभार।।[5-6-141]
राम उवाच।।
आत्मज्ञानदिनैकार्क मत्संशयतृणानल।
अज्ञानदाहशीतांशो सत्तासामान्यमीश किम्।।[5-6-142]
समेति।। समरसपदं जीवन्मुक्तिपदम्।।[5-6-141,142]
वसिष्ठ उवाच।।
यदा संक्षीयते चित्तमभावात्यन्तभावनात्।
चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा।।[5-6-143]
यदेति।। अभावात्यन्तभावनात् अनुसंधानात् कालत्रयेऽपि दृश्यं वस्तुतो नास्तीति श्रुतियुक्त्यनुभवैः निरन्तरमनुसंधानाद्धेतोः यदा चित्तं सम्यक्क्षीयते विलीयते तदा चित्सामान्यस्वरूपस्यात्मनः सत्तासामान्यता संपद्यते। विक्षेपहेतोश्चित्तस्याभावादात्मनः स्वरूपसत्तैवावशिष्यत इत्यर्थः।।
नूनं चेत्यांशरहिता चिद्यदात्मनि लीयते।
असद्रूपवदत्यच्छा सत्तासामान्यता तदा।।[5-6-144]
नूनमिति।। यदा मनोविलये सति चिच्चित्तवृत्तिप्रतिफलितचैतन्यं चेत्यांशरहिता घटकस्य चित्तस्याभावात् चेत्यसंबन्धरहिता सती अत्यच्छा असद्रूपवदविद्यमानरूपवदात्मनि लीयते तदा आत्मनो घनीभूतचितः सत्तासामान्यता संपद्यते।।
यदा सर्वमिदं किंचित्सबाह्याभ्यन्तरात्मकम्।
अपलप्य वसेच्चेतः सत्तासामान्यता तदा।।[5-6-145]
यदेति।। सबाह्याभ्यन्तरात्मकं इदं सर्वं किंचिदपि अपलप्य निर्हृत्य। नास्तीति निश्चित्येत्यर्थः। चेतः कर्तृ यदा आत्मनि वसेत् लीयते तदा सत्तासामान्यता।।
कूर्मोऽङ्गानीव दृश्यानि लीयन्ते स्वात्मनात्मनि।
अभावितान्येव यदा सत्तासामान्यता तदा।।[5-6-146]
कूर्मेति।। दृश्यानि चित्तस्यान्तर्मुखत्वादभावितान्येव अननुसंहितान्येव सन्ति। यदा कूर्मोऽङ्गानीव आत्मनि स्वात्मनैव प्रयत्नं विनैव लीयन्ते तदा सत्तासामान्यता।।
दृष्टिरेषा हि परमा सदेहादेहयोः सदा।
मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा।।[5-6-147]
दृष्टिरिति।। तुर्यातीतपदाभिधा एषा परमा दृष्टिर्ज्ञानावस्था। सदेहादेहयोर्मुक्तयोः संभवत्येव। जाग्रदाद्यवस्थात्रयेऽनुवृत्तं साक्षिचैतन्यं तुर्यं विश्वतैजसप्राज्ञरूपजाग्रदाद्यभिमानिचैतन्यापेक्षया चतुर्थमित्यर्थः। इयं तु ज्ञानदशा तच्चतुष्टयातीतत्वात्तुर्यातीतशब्दवाच्या।।
व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ।
ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा।।[5-6-148]
व्युत्थितस्येति।। एषा पूर्वोक्ता अवबोधजा स्वरूपज्ञानजनिता दृष्टिर्ज्ञस्य व्युत्थितस्य समाधिस्थस्य च केवलं भवति। अज्ञस्य तु न भवत्येव।।
अस्यां दृष्टौ स्थिताः सर्वे भुवि मुक्ता महारसाः।
अस्मत्प्रभृतयः सर्वे नारदाद्याश्च राघव।।[5-6-149]
ब्रह्मविष्ण्वीश्वाराद्यश्च दृष्टावस्यां व्यवस्थिताः।
एतामालम्ब्य पदवीं समस्तभयनाशिनीम्।।[5-6-150]
उद्दालकोऽसाववसद्यावदिच्छं जगद्गृहे।
अथ कालेन महता बुद्धिस्तस्य बभूव ह।।[5-6-151]
विदेहमुक्तस्तिष्ठामि देहं त्यक्त्वेति निश्चला।
एवं चिन्तिततवान्द्रेर्गुहायां पल्लावसने।।[5-6-152]
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः।।[5-6-153]
अस्यामिति।। भुवि रसाः षड्रसा इव।।[5-6-149,150,151,152,153]
संयम्य गुदसंरोदाद्द्वाराणि नव चेतसा।
मात्रास्पर्शान्विचिन्वानो भावितस्वात्मचिद्धनः।।[5-6-154]
संयम्येति सार्धश्लोकचतुष्टयं वाक्यम्। मात्रास्पर्शान् मीयन्ते आभिर्विषया इति मात्रा इन्द्रियाणि स्पृशन्त इति मात्रा इन्द्रियाणि स्पृशन्त इति स्पर्शा विषयाः मात्राश्च स्पर्शाश्च तानिन्द्रियाणि विषयांश्च विचिन्वानः प्रत्याहरन् भावितस्वात्मचिद्धनः भावितः स्वात्मा स्वस्वरूपभूतः चिद्धनो येन।।
संरुद्धप्राणपवनः समसंस्थानकन्धरः।
तालुमूलान्तरालग्नजिह्वामूलोल्लसन्मुखः।।[5-6-155]
समसंस्थानकन्धरः सममकुटिलं संस्थानं संनिवेशो यस्यास्तादृशी कन्धराग्रीवा यस्य। तालुमूलान्तरालग्नजिह्वामूलः तालुमूलयोः काकुदमूलदेशयोः आन्तरे लग्नं आलग्नं जिह्वामूलं यस्येत्यनेन नभोमुद्रा दर्शिता। या हि खेचरीत्युच्यते। तदुक्तं विवेकमार्तण्डे-`महामुद्रां नभोमुद्रामुड्डियानं जलन्धरम्। मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजन'मित्युपक्रम्य-`कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तरगा दृष्टिर्मुद्रा भवति खेचरी'इति।।
न बहिर्नान्तरे नाधो नोर्ध्वमर्थे न शून्यके।
संयोजितमनोदृष्टिर्दन्तैर्दन्तानसंस्पृशन्।।[5-6-156]
प्राणप्रवाहसंरोधसमस्वच्छाननच्छविः।।[5-6-157]
न बहिरिति।। विषयान्तरेण संयोजिते मनोदृष्टी येन तादृशः सन्नर्थे भाविरूपे शून्ये अभावरूपे च। दन्तैर्दन्तानसंस्पृशन्नित्यपि खेचर्या आनुगुण्यमुक्तम्।।[5-6-156,157]
अङ्गचित्संविदुत्थानरोमकण्टकिताङ्गभूः।
अङ्गचित्संविदाभ्यासाच्चित्सामान्यमुपाददे।।[5-6-158]
अङ्गचित्संविदुत्थानरोमकण्टकिताङ्गभूः अङ्गचित्स्वरूपचैतन्यं तस्याः संवित्साक्षात्कारः तस्या उत्थानमुदयस्तेन रोमकण्टकिता संजातहर्षा अङ्गभूः शरीरं यस्य। स्वस्वरूपसाक्षात्कारहर्षेण रोमाञ्चितगात्र इत्यर्थः। अङ्गचित्संविदाभ्यासात्स्वरूपानुसंधाननैरन्तर्याच्चित्सामान्यं सर्वानुवृत्तं चिन्मात्रमुपाददे।।
तदभ्यासादवापान्तरानन्दस्पन्दमुत्तमम्।
तदास्वादनतो लीनचित्सामान्यदशाक्रमम्।।[5-6-159]
तदित्यर्धं वाक्यम्।। तदभ्यासाच्चित्साम्यानुसंधानात्।। तदेति।। तदास्वादनतः परानन्दानुभवात् लीनचित्सामान्यदशाक्रमं विलीनचिद्वृत्तिस्फुरणम्।।
विश्वंभरमनन्तात्म सत्तासामान्यमाययौ।
शुद्धचित्संविदभ्यासाच्चित्सामान्यमुपाययौ।।[5-6-160]
विश्वंभरं परिपूर्णं अनन्तात्म अपरिच्छिन्नं सत्तासामान्यमाययौ।।
तस्थौ समशमाभोगः परां विश्रान्तिमागतः।।[5-6-161]
तस्थाविति अर्धमेकं वाक्यम्। समशमाभोगः एकाकारशमविस्तारः।।
अनानन्दशमानन्दमुग्धमुग्धमुखद्युतिः।
संशान्तानन्दपुलकः पदं प्राप्यामलं तदा।।[5-6-162]
चिरकालपरिक्षीणमननादिभवभ्रमः।
बभूव स महासत्त्वो लिपिकर्मार्पितोपमः।।[5-6-163]
अनानन्देति सार्धश्लोकद्वयं वाक्यम्।। अनानन्दशमानन्दमुग्धमुग्धमुखद्युतिः अनानन्दस्य निरानन्दस्य वस्तुनः शमादुचिता आनन्दमुग्धा आनन्दमयी मुग्धा मनोहरा मुखच्छविर्यस्य। आनन्दजा मुखच्छविरपि रोमहर्षाद्यानन्दविकाराभावादानन्दजन्येति न ज्ञायत इत्यर्थः। सानन्दमपि सुखं निर्विकारतया निरानन्दमिवाभूदिति यावत्। लिपिकर्मार्पितोपम इति निर्विकारत्वे दृष्टान्तः। शरदिन्दुना सम इति तु प्रकाशानन्दमयत्वे।।[5-6-162,163]
उपशशाम शनैर्दिवसैरसौ कतिपयैः स्वपदे विमलात्मनि।
तरुरसः शरदन्त इवामले रविकरौजसि जन्मदशातिगः।।[5-6-164]
उपशशामेति।। असौ उद्दालकः जन्मदशातिगः संसारदशामतिक्रान्तः सन् विमलात्मनि स्वपदे स्वस्वरूपएवोपशशाम। शरदन्ते शरत्कालवसाने तरुरसः अमले रविकरौजसीव सूर्यतेजसीव। `आदित्याज्जायते वृष्टि'रिति स्मरणात्। तरुरसस्य आदित्यतेजसि स्वकारणे लयो युज्यते।।
गतसकलविकल्पो निर्विकाराभिरामो निखिलभयविनाशोपाधिनिर्मुक्तमूर्तिः।
विगलितमुखमाद्यं तत्सुखं प्राप यस्मिंस्तृणमिव जलराशावूह्यते शक्रलक्ष्मीः।।[5-6-165]
गतेति।। यस्मिन्मुखे शक्रलक्ष्मीरपि जलराशौ तृणमिव तुच्छत्वनोह्यते उत्प्रेक्षते तदाद्यं सुखं प्राप।।
अपरिमितनभोऽन्तर्व्यापिदिग्व्यापि पूर्णं भुवनभरणशीलं भूरिभव्योपसेव्यम्।
कथितगुममतीतं सत्यमानन्दमाद्यं सुखममृतमनन्तं ब्रह्मणोऽसौ बभूव।।[5-6-166]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरण उद्दालकोपाख्यानं नाम षष्ठः सर्गः।। 6 ।।
अपरिमितेति।। पूर्वश्लोके सुखं प्रापेति भेदप्रतीतेरपरितोषात् इह श्लोके स ब्रह्मणः पूर्णं सुखं बभूवेत्यभेदः प्रतिपाद्यते।।
इति श्रीवाशिष्ठरामायणे मोक्षोपाय उपशमप्रकरणे षष्ठः सर्गः।। 6 ।।