सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ७

विकिस्रोतः तः
← सर्गः ६ लघुयोगवासिष्ठः
सर्गः ७
[[लेखकः :|]]
सर्गः ८ →


सुरघुपाख्यानम्।।
सप्तमः सर्गः।।
वसिष्ठ उवाच।।
क्रमेणानेन विहरन्विचार्यात्मानमात्मना।
विश्रान्तिमेहि वितते पदे पद्मदलेक्षण।।[5-7-1]
शास्त्रार्थगुरुचेतोभिस्तावत्तावद्विचार्यते।
सर्वदृश्यक्षयाभ्यासाद्यावदासाद्यते पदम्।।[5-7-2]
पूर्वं योगाभ्यासदार्ढ्येन चित्तविश्रान्तिः स्यात्सैव समाधेरुत्तमावस्थेत्युक्तम्। इदानीं सैव चित्तविश्रान्तिः जीवन्मुक्तिसीमेति सुरघूपाख्यानेन प्रतिपाद्यते। तत्र तावद्धितमुपदिशति-क्रमेणेत्यादिना।। अनेन क्रमेण पूर्वोक्तेनोद्दालकसमाचारक्रमेण।।[5-7-1,2]
वैराग्याब्यासशास्त्रार्थप्रज्ञागुरुयमक्रमैः।
पदमासाद्यते पुण्यं प्रज्ञयैवैकयाथवा।।[5-7-3]
वैराग्येति।। वैराग्यं वैतृष्ण्यं अभ्यासः सर्वदृश्यक्षयानुसंधानं शास्त्रार्थः अध्यात्मशास्त्रतत्त्वज्ञानं प्रज्ञा त्रैकालिकी वस्तुतत्त्वपरीक्षा गुरुर्गुरूपदेशः यमक्रमः यमनियमादिक्रमः तैः।। प्रज्ञयैवेति। परिपक्वान्तःकरणेन प्रज्ञयैकया परं पदमासाद्यत इत्यर्थः।।
संप्रबोधवती तीक्ष्णा कलङ्करहिता मतिः।
सर्वसामग्र्यहीनापि प्राप्यं प्राप्नोति शाश्वतम्।।[5-7-4]
प्रज्ञयैवेत्येतदुपपादयितुमाह-संप्रबोधेति।। तीक्ष्णा वस्तुस्वरूपपरिच्छेदिका। सर्वसामग्र्यं नाम पूर्वोक्तं वैराग्यादिकम्।।
राम उवाच।।
भगवन्भूतभव्यज्ञ कश्चिज्जातसमाधिकः।
प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन्।।[5-7-5]
भगवन्निति श्लोकद्वयेन प्रश्नः। कश्चिन्मुमुक्षुः जातसमाधिकः कदाचित्प्राप्तसमाधिसुखः प्रबुद्ध इव सुप्तेत्थित इव व्यवहारपरोऽपि सन् विश्रान्तः स्वात्मन्येवाभिरमते।।
कश्चिदेकान्तमाश्रित्य समाधिनियमस्थितः।
तयोस्तु कतरः श्रेयानिति मे भगवन्वद।।[5-7-6]
कश्चित्पुनरेकान्तमाश्रिस्य समाधौ नियमस्थितः तयोर्मध्ये कतरः श्रेयानित्येतद्वद।।
वसिष्ठ उवाच।।
इमं गुणसमाहारमनात्मत्वेन पश्यतः।
अन्तःशीतलता यासौ समाधिरिति कथ्यते।।[5-7-7]
इममिति।। गुणसमाहारं सत्त्वादिगुणसमुदायरूपं इमं प्रपञ्चमनात्मत्वेन पश्यतः पुरुषस्य यान्तःशीतलता अमृतसागरनिमग्नस्येव या संतापनिवृत्तिः असौ समाधिरिति कथ्यते।।
दृश्यैर्मम न संबन्ध इति निश्चित्य शीतलः।
व्यवहारे स्थितः कश्चित्कश्चिद्ध्यानव्यवस्थितः।।[5-7-8]
द्वावेतौ राम सुखिनावन्तश्चेत्परिशीतलौ।
अन्तःशीतलता या स्यात्तदनन्ततपःफलम्।।[5-7-9]
दृश्यैरिति श्लोकद्वयं वाक्यम्।। यस्मात्कारणादन्तःशीतलतैवानन्तस्य तपसः फलं तस्मादन्तःशीतलत्वे सति द्वयोः सामान्यमेवेति पूर्वेणैवान्वयः।।[5-7-8,9]
समाधिस्थानसंस्थस्य चेतश्चेद्वृत्तिचञ्चलम्।
तत्तस्य यत्समाधानं सममुन्मत्तताण्डवैः।।[5-7-10]
उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम्।
तदस्योन्मत्तनृत्यं तु समं बुद्धसमाधिना।।[5-7-11]
चित्तविश्रान्तेरेव शीतलतारूपायाः प्राधान्यमन्वयव्यतिरेकाभ्यां स्लोकद्वयेनाह-समाधीति।। वृत्तिचञ्चलं हर्षविषादादिभिः क्षुभितं तत्तर्हि। यदुक्तं भगवता-`कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यत' इति।।[5-7-10,11]
व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः।
द्वावेतौ सुसमौ नूनमसन्देहपदं गतौ।।[5-7-12]
व्यवहारीति।। प्रबुद्धः अवगतात्मतत्त्वः। असंदेहपदं असंदिग्धमात्मतत्त्वम्। `छिद्यन्ते सर्वसंशयाः' इति श्रुतेः।।
अकर्तृ कुर्वदप्येतच्चेतः प्रतनुवासनम्।
दूरंगतमना जन्तुः कथासंश्रवणे यथा।।[5-7-13]
अकर्तृ इति।। चेतः प्रतनुवासनं चेत्कुर्वदपि शरीरेन्द्रियाणि प्रवर्तयदपि अकर्त्रेव। कथासंश्रवणे दूरंगतमना जन्तुर्यथा। स हि पुराणकथामासन्नतया शृण्वन्नपि न शृणोत्येव।।
अकुर्वदपि कर्त्रेव चेतः प्रघनावासनम्।
निष्पन्दाङ्गमपि स्वप्ने श्वभ्रपातस्थिताविव।।[5-7-14]
चेतसो यदकर्तृत्वं तत्समाधानमुत्तमम्।
तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा।।[5-7-15]
अकुर्वदिति।। चेतः प्रघनवासनं चेदकुर्वदपि कर्त्रेव। यथा स्वप्ने श्वभ्रपातस्थितौ श्वभ्रे पुराणकूपादौ पतामीत्येवंप्रतीतौ निष्पन्दाङ्गमपि शरीरे क्रियामनुत्पादयदपि चेतः कर्त्रेव भयकम्पादिहेतुत्वात् तद्वदिति।।[5-7-14,15]
चेतश्चलाचलत्वेन परमं कारणं स्मृतम्।
ध्यानाध्यानदृशोस्तेन तदेवानङ्कुरं कुरु।।[5-7-16]
चेत इति।। चेत एवाचञ्चलत्वेन ध्यानदृशः कारणम्। चञ्चलत्वेनाध्यानदृशः कारणमित्यर्थः। पाठक्रमादर्थक्रमो बलीयानिति न्यायात्। अनङ्कुरं निर्वासनम्।
अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च।
स एव केवलीभावः शान्ततैव च तत्सदा।।[5-7-17]
अवासनमिति।। शान्ततैव च तत्सदा तदेव स्थिरं मनः शान्तता चेत्यर्थः। `उद्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ती'ति न्यायेन स एव केवलीभाव इत्यत्र विधेयलिङ्गोपादानं, तदेव शान्ततेत्यत्रोद्देश्यलिङ्गोपादानमिति द्रष्टव्यम्।।
तनुवासनमत्युच्चैःपदायोद्यतमुच्यते।
अवासनं मनः कर्तुं पदं तस्मादवाप्यते।।[5-7-18]
घनवासनमेतत्तु चेतःकर्तृत्वभावनम्।
सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत्।।[5-7-19]
तनुवासनमिति श्लोकद्वयेन। वासनातानवं चित्तकर्तृत्वभावं कर्तृत्वं भावयत्।।[5-7-18,19]
चेतसा संपरित्यज्य सर्वभावात्मभावनाम्।
यथा तिष्ठसि तिष्ठ त्वं तथा शैलें गृहेऽथवा।।[5-7-20]
गृहमेव गृहस्थानां सुसमाहितचेतसाम्।
शान्ताहंकृतिदोषाणां विजना वनभूमयः।।[5-7-21]
चेतसेति।। सर्वभावात्मभावनां सर्वभावात्मिकां वासनाम्।।[5-7-20,21]
यथा विपणिगा लोका विहरन्तोऽप्यसत्समाः।
असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः।।[5-7-22]
यथेति।। विपणिगाः पण्यवीथिगताः लोका जनाः विहरन्तोऽपि देशान्तरादागतस्य पान्थस्य यथा असत्समाः असन्त इव नोपकुर्वन्ति। कुतः। असंबन्धात् तैः सह संबन्धाभावात्। तथा ज्ञस्य ज्ञानिनो ग्रामोऽपि विपिनोपमः। अरण्यमिव न विक्षेपहेतुरित्यर्थः।।
अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन्नटन्।
पुरं जनपदं ग्राममरण्यमिव पश्यति।
सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः।।[5-7-23]
अन्तरिति सार्धश्लोको वाक्यम्। यस्मादन्तर्मुखस्थितेः सर्वमाकाशतामेति तस्मादसौ पुरादिकं सर्वमरण्यमिव पश्यतीत्यन्वयः।।
अन्तःशीतलतायां तु लब्धायां शीतलं जगत्।
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत्।।[5-7-24]
अन्तरिति।। चित्ते शीतले जगच्छीतलत्वं तप्तेऽनुतप्तत्वमित्यर्थः।।
भवत्यखिलजन्तूनां यदन्तस्तद्बहिःस्थितम्।
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः।
अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः।।[5-7-25]
तदेवोपपादयितुमाह-भवतीत्यर्धत्रयमेकं वाक्यम्। यस्मादखिलजन्तूनां अन्तर्यद्वर्तते तदेव बहिः स्थितं भवति। द्यौरित्यादयोऽपि अन्तःकरणतत्त्वस्य भागा एव बहिरिव स्थिताः। तस्मादन्तःकरणवृत्तिरेव प्रधानमित्यर्थः। द्यौः स्वर्लोकः। आकाशमन्तरिक्षम्।।
यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः।
न वशो हर्षशोकाभ्यां स समाहित उच्यते।।[5-7-26]
आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत्।
स्वभावादेव न भयाद्यः पश्यति स पश्यति।।[5-7-27]
अद्यैव मृतिरायातु कल्पान्तो निश्चयेन वा।
नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा।।[5-7-28]
यस्त्विति।। यस्तु इन्द्रियैः कर्म कुर्वन्नपि आत्मरतिरात्मनिष्ठ एव हर्षशोकाभ्यां हेतुभ्यां न वशस्तत्साधनाधीनो न भवति स समाहित इत्यन्वयः।।[5-7-26,27,28]
सर्वं प्रशान्तमजमेकमनादिमध्यमाभास्वरं स्वदनमात्रचिन्तचित्तम्।
सर्वं प्रशान्तमिति शब्दमयी तु दृष्टिर्बोधार्थमेव हि मुधैव तदोमितीदम्।।[5-7-29]
वसिष्ठ उवाच।।
अत्रैवोदाहरन्तीममितिहासं पुरातनम्।
किरातेशस्य सुरघोर्वृत्तान्तं विस्मयास्पदम्।।[5-7-30]
हिमाद्रेः शृङ्गमस्तीह कैलासो नाम पर्वतः।
तस्य हेमजटा नाम किराताः संस्थितास्तले।।[5-7-31]
आसीत्तेषामुदारात्मा राजा परपुरंजयः।
सुरघुर्नाम बलवान्सुरयोधादिदर्पहा।।[5-7-32]
स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः।
तज्जाभ्यां सुखदुःखाभ्यां मतिस्तस्याभ्यभूयत।।[5-7-33]
सर्वमिति।। आभास्वरं सर्वत्र प्रकाशमानं स्वदनमात्रं सर्वरसास्वादहेतुः। पूर्वर्धविशेषणैर्बहुभिरभिसंबन्धात् अद्वैतभङ्गमाशङ्क्याह। सर्वं प्रशान्तमित्यादिभिर्विशेषणैर्या भेदोल्लेखिनी शब्दमयी दृष्टिः सा बोधार्थमेव कल्पिता हि। ततो हेतोर्मुधैव। तत्तस्मादिदं सर्वमोमित्येव वक्तव्यम्। ओंकारस्यैव परब्रह्मत्वप्रतिपादकत्वात्।।[5-7-29,30,31,32,33]
किमत्र पीडयाम्येवं तिलान्यन्त्रमिवौजसा।
सर्वेषामेव भूतानां ममैषार्तिः प्रजायते।।[5-7-34]
किमर्थमिति।। एवं लोके यन्त्रमिव तैलाकर्षणाय कल्पितं तिलयन्त्रमिव।।
अथ वा निग्रहं प्राप्तं करोम्येतेन वै विना।
वर्तते न प्रजा चेयं विना वारि सरिद्यथा।।[5-7-35]
इति दोलायितं चेतो न विशश्राम भूपतेः।
अथैकदा गृहं तस्य माण्डव्यो मुनिराययौ।।[5-7-36]
तमसौ पूजयामास पप्रच्छ च महामुनिम्।
भवदागमनेनास्मि मुने निर्वृतिमागतः।।[5-7-37]
अद्य तिष्ठाम्यहं नाथ धन्यानां धुरि धर्मतः।
भगवन्सर्वधर्मज्ञ चिरं विश्रान्तवानसि।।[5-7-38]
तदमुं संशयं छिन्धि ममार्कस्तिमिरं यथा।
महतां संगमेनार्तिः कस्य नाम न नश्यति।।[5-7-39]
संदेहं तु परामार्तिमाहुरार्तिविदो जनाः।
सन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः।।[5-7-40]
कर्षन्ति मामलं चिन्ता गजं हरिनखा इव।
तद्यथा समतोदेति सूर्यांशुरिव सर्वगः।।[5-7-41]
त्वत्तो मम मुने मान्यो नान्योऽस्ति करुणां कुरु।।[5-7-42]
माण्डव्य उवाच।।
स्वयत्नेन स्वसंस्थेन स्वेनोपायेन भूपते।
एषा मनःपेलवता हिमवत्प्रविलीयते।।[5-7-43]
स्वविचारणयैवाशु शाम्यत्यन्तर्मनोमलम्।
कोऽहं कथमिदं किं वा कथं मरणजन्मनी।।[5-7-44]
विचारयान्तरेव त्वं महतामलमेष्यसि।
विचारेण परिज्ञातस्वभावस्य सतस्तव।।[5-7-45]
मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम्।
तिष्ठदेव मनोरूपं परित्यक्ष्यति तेऽनघ।।[5-7-46]
कृपणं हि मनो राजन्पेलवेऽपि निमज्जति।
कार्ये गोष्पदतोयेऽपि जीर्णाङ्गो मशको यथा।।[5-7-47]
अथेति।। अथवा प्राप्तं निग्रहं करोमि। यस्य यो दण्डो धर्मः शास्त्रे योग्यतया निरूपितः तस्य तं दण्डं करोमीत्यर्थः। यस्माद्धेतोरनेन निग्रहेण विना सरिद्वा कर्त्री वारि विनेव प्रजा स्वमार्गे न वर्तते। कामक्रोधादिभिः परस्परबाधार्थं प्रवृत्तत्वात्। यदाह कामन्दकः-`जगदेतन्निरानन्दं कामलोभादिभिर्बलात्। निमज्यमानं निरये राज्ञा दण्डेन धार्यते'इति।।[5-7-35,36,37,38,39,40,41,42,43,44,45,46,47]
यावद्यावत्परालोकः परमात्मैव शिष्यते।
तावत्तावन्महाबाहो स्वयं संत्यज्यतेऽखिलम्।।[5-7-48]
यावदिति।। अखिलं दृश्यं यावद्यावदल्पमनल्पं वा स्वयं संत्यज्यते अन्यबुद्ध्या स्वयमेवोपेक्ष्यते तावत्तावत्परित्यक्तदृश्यानुरूपं यथातथा परालोकः प्रकृष्टप्रकाशः परमात्मैव शिष्यते।।
यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते।
सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते।।[5-7-49]
दृश्यपरित्यागे दृगेव परिशिष्यत इति भावः।।
यावदन्यन्न संत्यक्तं तावत्सामान्यमेव हि।
वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा।।[5-7-50]
आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत्।
सर्वं ह्येतत्परित्यज्य यावच्छिष्टं परं पदम्।।[5-7-51]
यावदिति।। अन्यद्वस्तु यावन्न संत्यक्तं तावत्सामान्यमेव साधारणमपि रत्नं सुवर्णरजतादिकमपि वस्तु न आसाद्यते। हि यस्माद्धेतोः स्वात्मलाभे तु का कथा। अन्यद्वस्तु संत्यक्तव्यमिति किमुच्यत इत्यर्थः। नह्यन्यपरत्वे सिसाधयिषितं वस्तु किंचिदपि सिध्यतीतिन भावः।।[5-7-50,51]
सकलकारणकार्यपरम्परामपि जगद्गतवस्तुविजृम्भितम्।
अलमपास्य मनः स्ववपुस्ततः परिविधूय च यच्छुभमस्तु तत्।।[5-7-52]
वसिष्ठ उवाच।।
इत्युक्त्वा भगवानेनं सुरघुं रघुनन्दन।
ययौ स्वमेव रुचिरं माण्डव्यो मौनमण्डलम्।।[5-7-53]
गते वरमुनौ राजा गत्वैकान्तमनिन्दितम्।
धिया संचिन्तयामास को नामाहमिति स्वयम्।।[5-7-54]
देहमात्रमहं मन्ये हस्तपादादिसंयुतम्।
न मे तत्तावदाश्वन्तरलमालोकयाम्यहम्।।[5-7-55]
तदत्र तावन्मांसास्थि नाहमेतदचेतनम्।
कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे।।[5-7-56]
जडान्यतत्स्वरूपाणि न च बुद्धीन्द्रियाण्यहम्।
नाहमेवं शरीरादि शिष्टमालोकयाम्यहम्।।[5-7-57]
शेषो विकल्परहितो विशुद्धश्चिदहं ततः।
ब्रह्मण्डे च यथा वायुः सर्वभूतगणे तथा।।[5-7-58]
स एव भगवानात्मा तन्तुर्मुक्तास्विव स्थितः।
चिच्छक्तिरमला सैषा चेत्यामयविवर्जिता।
भरिताशेषदिक्कुम्भा भैरवाकारधारिणी।।[5-7-59]
सर्वभावगता सूक्ष्मा भावाभावविवर्जिता।
आब्रह्मभुवनान्तःस्था सर्वशक्तिसमुद्गिका।।[5-7-60]
सकलेति।। कार्यकारणात्मजगद्वस्तुवासितं मनः अपास्य अनात्मत्वेन निरस्य ततः स्ववपुः परिधूय अनात्मतया परिच्छिद्य यच्छुभं वस्त्ववस्थाप्यते तदेवास्तु।।[5-7-52,53,54,55,56,57,58,59,60]
सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम्।
चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम्।।[5-7-61]
सर्वमिति।। जगति दृश्यमानं सर्वमपि चिन्निष्पन्दांशमात्रम्। चितोनिष्पन्दः स्फूर्तिः तदंश एव। अन्यच्छाश्वतं किंचन वस्तु नास्ति।।
विगतरञ्जननिर्विषयस्थितिर्गतभवभ्रम ईहितवर्जितः।
स्थिरसुषुप्तकलाभिगतस्ततः शमसमं निवासाम्यहमात्मनि।।[5-7-62]
विगतेति।। विगतरञ्जननिर्विषयस्थितिः रज्यते येन तद्रञ्जनं वासनाजालं विगतं रञ्जनं यस्मात्सः। अतएव निर्विषया विषयेभ्यो निर्गता स्थितिर्यस्य विगतरञ्जनश्चासौ निर्विषयस्थितिश्चेति तथा। स्थिरसुषुप्तकलाभिगतो गाढसुषुप्तदशां प्राप्तः। शमेन सममात्मनि स्वरूपे निवसामि।।
वसिष्ठ उवाच।।
इति हमजटाधीशो लेभे पदमनुत्तमम्।
विवेकाध्यवसायेन ब्राह्मण्यमिव गाधिजः।।[5-7-63]
सुषुप्तपदधर्मिण्या चित्तवृत्त्या व्यराजत।।[5-7-64]
इतीति।। गाधिजो विश्वामित्रः। स हि वसिष्ठेन स्वर्धमानः तपोभिर्ब्रह्मर्षित्वमेव लब्धवानिति रामायणादौ प्रपञ्चितम्।।[5-7-63,64]
न निर्घृणो दयावान्नो न द्वन्द्वी नाप्यमत्सरी।
न सुधीर्नासुधीर्नार्थी नानर्थी स बभूव ह।।[5-7-65]
शृणु तस्याथ सुरघोः प्रबुद्धस्य सतस्तदा।
पर्णादस्य च राजर्षेः संवादमिममद्भुतम्।।[5-7-66]
सुषुप्तदशावन्निर्विकारया चित्तवृत्त्या व्यराजतेत्युक्तं। तदेव निर्विकारत्वमाह-नेति।। सः सुरघुः निर्घृणः क्रूरो नच बभूव दयावांश्च न। दयायाः परदुःखप्रहाणेच्छारूपत्वात् तस्य च रागादिरहितत्वात्। अतएवामत्सरः द्वेषरहितःसुधीरसुधीश्च न शुभाशुभसर्वबुद्धिरहितत्वात्। अर्थी न अनर्थी च न रागद्वेषयोरसत्त्वात्। अतो द्वन्द्वहीनो बभूवेति योज्यम्।।[5-7-65,66]
बभूव पारसीकानां पार्थिवः परवीरहा।
परिघो नाम विख्यातः परिघः स्यन्दने यथा।।[5-7-67]
स बभूव परं मित्रं सुरघो रघुनन्दन।
कदाचित्परिघस्यासीदकाण्डं मण्डलं महत्।।[5-7-68]
विनेशुर्जनतास्तत्र बह्व्यः क्षुत्क्षतजीविताः।
तद्दुःखं परिघो दृष्ट्वा प्रतीकारेष्वशक्तिमान्।।[5-7-69]
स तत्याजाखिलं राज्यं जगाम तपसे वनम्।
तपश्चरञ्शान्तमतिः शुष्कपर्णान्यभक्षयत्।।[5-7-70]
ततः प्रभृति पर्णाद इति ख्यातिमसौ ययौ।
ततो वर्षसहस्रेण तपसा दारुणात्मना।।[5-7-71]
प्रापदभ्यासवशतो ज्ञानमात्मप्रसादजम्।
बभूव विगतद्वन्द्वो नीरुजः समदर्शनः।।[5-7-72]
विजहार यथाकामं त्रिलोकीमठिकामिमाम्।
एकदा तस्य सदनं हेमचूडापतिर्ययौ।।[5-7-73]
ते तत्र प्राक्तने मित्रे अन्योन्यमिदमूचतुः।
परमानन्दमायातं चेतस्त्वद्दर्शनेन मे।
अहो तु बत कल्याणैः फलितं मम पावनैः।।[5-7-74]
परिघ उवाच।।
ज्ञानमेतन्मया प्राप्तं त्वया ज्ञानं यथानघ।
कच्चित्करोषि सुधिया सुप्रसन्नगभीरया।।[5-7-75]
दृष्ट्वा सुभग कार्याणि कर्माण्येव नराधिप।
आधिव्याधिविहिनेयं कच्चित्कायलता तव।।[5-7-76]
आपातरमणीये तु कच्चिद्भोगे न मज्जसि।
कच्चित्संकल्परहितं परविश्रमणास्पदम्।।[5-7-77]
परमोपशमं श्रेयः समाधिमनुतिष्ठसि।।[5-7-78]
बभूवेति।। परिघः स्यन्दने यथा। परिघो नामायुधविशेषः परितो हन्यतेऽनेनेति व्युत्पत्त्या यथा स्यन्दने रथे परान्वीरान्हन्तीति विख्यातस्तद्वदसावपीत्यर्थः।।[5-7-67,68,69,70,71,72,73,74,75,76,77,78]
सुरघुरुवाच।।
योऽज्ञो महात्मन्सततं तूष्णीं व्यवहरंश्च वा।
असमाहितचित्तोऽसौ कदा भवति मे वद।।[5-7-79]
य इति।। यः पुमानज्ञः आत्मज्ञो न भवति सोऽसौ तूष्णीं तिष्ठन् व्यवहरंश्च वा कदा समाहितचित्तो भवति। न कदापीत्यर्थः। अज्ञस्य समाधिरेव न संभवतीति भावः। असमाहितचित्त इति पाठे योऽज्ञ इत्यत्र ज्ञ इति पदच्छेदः। ज्ञः कदा असमाहितचित्तो भवति। न कदापीत्यर्थः। ज्ञानिनः सर्वदा समाधिरेवेति भावः।।
नित्यप्रबुद्धचित्तत्वात्कुर्वन्तोऽपि जगत्क्रियाः।
आत्मैकतत्त्वतन्निष्ठाः सदैव सुसमाधयः।।[5-7-80]
एतदेवान्वयव्यतिरेकाभ्यामुपपादयति-नित्येत्यादिना। आत्मैकतत्त्वतन्निष्ठाः आत्मना स्वात्मना एकमैक्यापन्नं तत्त्वं यस्य तादृशे तच्छब्दप्रतिपाद्ये ब्रह्मणि निष्ठा येषां ते। `ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति गीतोक्तः।।
बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेरपि।
अविश्रान्तस्वभावस्य कः समाधिः कथं च वा।।[5-7-81]
तत्त्वावबोधो भगवन्सर्वाशातृणपावकः।
प्रोक्तः समाधिशब्देन न च तूष्णीमवस्थितिः।।[5-7-82]
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी।
साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः।।[5-7-83]
बद्धेति।। बद्धपद्मासनस्यापि बद्धं पद्मासनं येन तस्यापि। बद्धपद्मासनस्थस्येति पाठे कृतब्रह्माञ्जलेरपीति न संगच्छेत्। बद्धपद्मासनस्य हस्तयोरङ्गुष्ठग्रहणे विनियोगात्। यथाह याज्ञवल्क्यः-`ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे। अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमेण तु। पद्मासनं भवेदेतत्सर्वेषामपि पूजितम्' इति। केवलपद्मासनस्य ब्रह्माञ्जलेश्च लक्षणमुक्तं पुरस्तात्।।[5-7-81,82,83]
अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी।
प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः।।[5-7-84]
अक्षुब्धेति।। मेरोरिति पञ्चम्यन्तम्। तत्रापि स्थिरतरा या चेतनस्य स्थितिः सैव समाधिरिति प्रोक्ता।।
निश्चिन्ता विगताभीष्टा हेयोपादेयवर्जिता।
प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः।।[5-7-85]
निश्चिन्तेति।। मनोगतिः हेयोपादेयवर्जिता इदं हेयं इदमुपादेयमिति भेदभावनारहिता। अतएव विगताभीष्टा अतश्च निश्चिन्ता सैव परिपूर्णा मनोगतिः समाधिः।।
न विस्मरत्यविरतं यथा कालः कलागतिम्।
न विस्मरत्यविरतं स्वात्मानं प्राज्ञधीस्तथा।।[5-7-86]
नेति।। कालो यथा कलागतिं कलाकाष्ठदिरूपां स्वगतिं न विस्मरति तथा प्राज्ञधीरपि स्वात्मानं स्वस्वरूपं न विस्मरति।।
न विस्मरति सर्वत्र यथा सततगो गतिम्।
न विस्मरति निश्चित्य चिन्मात्रं प्राज्ञधीस्तथा।।[5-7-87]
नेति।। सततगो वायुः।।
नित्यं समाहितधियः सुसमा महान्तस्तिष्ठन्ति कार्यपरिमामविभागमुक्ताः।
तेनासमाहितसमाहितभेदभङ्ग्या मिथ्योदितः क्व नु स उत्तम वाक्प्रपञ्चः।।[5-7-88]
परिघ उवाच।।
राजन्नूनं प्रबुद्धोऽसि प्राप्तवानसि तत्पदम्।
संशीतलान्तःकरणो गम्भीरप्रकटाशयः।।[5-7-89]
निर्मलो विततः पूर्णो गताहंकारविक्लवः।
सर्वत्र लक्ष्यसे स्वस्थो राजन्सर्वत्र राजसे।।[5-7-90]
नित्यमिति।। महान्तः परिपूर्णज्ञानरूपाः। कार्यपरिणामविभागमुक्ताः कार्याणां परिणामः सुखदुःखादिरूपो विकारः तेन यो विभागो भेदभावना तेन मुक्ताः अतः सुसमाः सर्वत्र समदृशः अतो नित्यं समाहितधियस्तिष्ठन्ति। तेन हेतुना असमाहितसमाहितभेदभङ्ग्या असमाहिताः समाहिता इति या भेदभङ्गिः भेदकलना तया मिथ्यैवोदितः स वाक्प्रपञ्चः क्व नु न क्वापीत्यर्थः। उत्तमेति परिघसंबोधनम्।।[5-7-88,89,90]
अलमतिविततैर्वचःप्रपञ्चैरियमुदितेह सुखाय दृष्टिरेका।
उपशमितरसं समं मनोऽन्तर्यदि मुदितं तदनुत्तमा प्रतिष्ठ।।[5-7-91]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरणे सुरघूपाख्यानं नाम सप्तमः सर्गः।। 7 ।।
अलमिति।। इयमित्यन्त्यपद्ये निरूप्यमाणा। मनः कर्तृ उपशमितरसं निवृत्तविषयौत्सुक्यं अतएव समं समरसं सदन्तः स्वात्मसुखे यदि मुदितं तृप्तं तत्तर्हीयमन्तर्मुखी दृष्टिरेका सुखायोदितोक्ता। इयमेव च दृष्टिरनुत्तमा सर्वोत्तमा प्रतिष्ठा जीवन्मुक्तिरपीत्यर्थः।।
इति श्रीवासिष्ठविवरण उपशमप्रकरणे सुरघूपाख्यानं नाम सप्तमः सर्गः।। 7 ।।