लघुयोगवासिष्ठः/प्रकरणम् ५ (उपशमप्रकरणम्)/सर्गः ५

विकिस्रोतः तः
← सर्गः ४ लघुयोगवासिष्ठः
सर्गः ५
[[लेखकः :|]]
सर्गः ६ →

गाधिवृत्तान्तकथनम्।।
पञ्चमः सर्गः।।
वसिष्ठ उवाच।।
रामापर्यवसानेयं माया संसृतिनामिका।
आत्मचित्तजयेनैव वश्यमायाति नान्यथा।।[5-5-1]
जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये।
इतिहासमहं वक्ष्ये शृणुष्वावहितोऽनघ।।[5-5-2]
अस्त्यस्मिन्वसुधापीठे कोसलो नाम मण्डलम्।
तत्राभूद्ब्राह्मणः कश्चिद्गुणी गाधिरिति श्रुतः।।[5-5-3]
किमप्यधिगतं कार्यं विनिधाय स चेतसि।
बन्धुवृन्दाद्विनिष्क्रम्य तपस्तप्तुं वनं ययौ।।[5-5-4]
उत्फुल्लकमलं प्राप सरस्तत्र स विप्रराट्।
आकण्ठमम्बुनिर्मग्नस्तपस्तत्र चकार सः।।[5-5-5]
ययौ मासाष्टकं तस्य मग्नस्य सरसोऽम्भसि।
अथैनं तपसा तप्तमाजगामैकदा हरिः।।[5-5-6]
श्रीभगवानुवाच।।
विप्रोत्तिष्ठ पयोमध्याद्गृहाणाभिमतं वरम्।
अभीप्सितफलोपेतो जातस्ते नियमक्रमः।।[5-5-7]
पूर्वमीश्वरानुग्रहादेवात्मतत्त्वावबोधेन संसाराख्योपशान्तिरुक्ता। इदानीं चित्तजयमन्तरेण जगन्माया नोपशाम्यतीति दर्शयितुं मायावैचित्र्यप्रतिपादनाय लवणवृत्तान्तवद्गाधिवृत्तान्तो निरूप्यते।। रामेत्यादिना।।[5-5-1,2,3,4,5,6,7]
गाधिरुवाच।।
असंख्येयजगद्भूतहृत्पद्मकुहरालिने।
जगत्रयैकनलिनीसरसे विष्णवे नमः।।[5-5-8]
असंख्येयेति।। सर्वभूतान्तर्यामिणे सर्वजगदधिष्ठानाय चेत्यर्थः।।
मायामिमां त्वद्रचितां भगवन्पारमात्मिकीम्।
द्रष्टुमिच्छामि संसारनाम्नीमाश्चर्यकारिणीम्।।[5-5-9]
वसिष्ठ उवाच।।
इमां द्रक्ष्यसि मायां त्वं ततस्त्यजसि चेत्त्यज।
इत्युक्त्वान्तर्दधे विष्णुर्गान्धर्वमिव पत्तनम्।।[5-5-10]
गते विष्णौ समुत्तस्थौ जलात्स ब्राह्मणेश्वरः।
बभूव परितुष्टात्मा दर्शनेन जगत्पतेः।।[5-5-11]
अथास्य कतिचित्तस्मिन्दिवसानि ययुर्वने।
हरिसंदर्शनानन्दवतो ब्राह्मणकर्मणा।।[5-5-12]
मायामिति।। पारमात्मिकीं परमात्मसंबन्धिनीम्।।[5-5-9,10,11,12]
एकदारब्धवान्स्नानं सरस्युदितपङ्कजे।
चिन्तयन्वैष्णवं वाक्यं महर्षिरिव मानसे।।[5-5-13]
एकदेति।। मानसे मानसाख्ये सरसि सहर्षिरिव।।
जलस्यान्ते विधावन्तर्जलमेष चचार ह।
अन्तर्जलविधौ तस्मिन्विस्मृतध्यानमन्त्रधीः।।[5-5-14]
मृतमात्मानमात्मीये सदनेऽपश्यदातुरः।
प्राणापानप्रवाहेण मुक्तमन्तर्धिमागतम्।।[5-5-15]
जलस्येति।। तस्मिन्विधौ स्नानविधौ।।[5-5-14,15]
आवृतं बन्धुभिः खिन्नैर्भार्यया पादयोः श्रितम्।
मात्रा गृहीतं चिबुके नवव्यजनलाञ्छिते।।[5-5-16]
आवृतमिति।। नवव्यञ्जनलाञ्छिते नवयौवनेन प्रत्यग्रश्मश्रुचिह्निते चिबुके वक्त्रस्याधोभागे वात्सल्यान्मात्रागृहीतमित्यन्वयः।।
अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः।
नीतं श्मशानमास्थानं वसापङ्ककलङ्कितम्।
तत्र ते ज्वलने दीप्ते चक्रुस्तं भस्मसाच्छवम्।।[5-5-17]
अथेति।। अष्टभिः श्लोकैः गर्भप्रवेशमारभ्य गाधेरुत्तरोत्तरावस्थानदर्शनम्।।
अथापश्यदसौ गाधिः स्वाधिपीवरया धिया।
हूणमण्डलपर्यन्तग्रामोपान्तनिवासिनाम्।।[5-5-18]
श्वपचानां स्त्रियो गर्भे स्थितमात्मानमाकुलम्।
शनैः पुक्कसया काले प्रसूतं मेचकच्छविम्।।[5-5-19]
संपन्नं श्वपचागारे शिशुं श्वपचवल्लभम्।
द्वादशाब्दिकतां त्यक्त्वा संस्थितं षोडशाब्दिकम्।।[5-5-20]
पीवराङ्गमुदारांसं पयोदमिव मेदुरम्।
तमाललतयेवाथ वृतं श्वपचकान्तया।।[5-5-21]
स्तनस्तबकशालिन्या नवपल्लवहस्तया।
विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च।।[5-5-22]
निलीनं पत्रकुञ्जेषु गुल्मकेषु कृतालयम्।
प्रसूतमथ शैलेषु पुत्रान्निजकुलाङ्कुरान्।।[5-5-23]
कलत्रवन्तं संपन्नं स्थितं प्रक्षीणयौवनम्।
संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत्।।[5-5-24]
जराजरठतां यान्तं स्वदेहमनु पुत्रकम्।
अथापश्यदसौ गाधिर्यावत्तस्य कलत्रिणः।।[5-5-25]
तत्कलत्रमशेषेण नीतमाहृत्य मृत्युना।
ततः शोकपरीतात्मा प्रलापविकलाननः।।[5-5-26]
तं विहाय निजं देशं विगतः साश्रुलोचनः।
विजहार बहून्देशान्दुःखितश्चिन्तयान्वितः।।[5-5-27]
एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम्।
सामन्तैर्ललानाभिश्च नागरैश्च निरन्तरम्।।[5-5-28]
स्वर्गमार्गोपमं राजमार्गमस्यामवाप सः।
मणिरत्नकृतद्वारं तत्र मङ्गलहस्तिनम्।।[5-5-29]
ददर्शामलशैलेन्द्रमिव संसारचञ्चलम्।
मृते राजनि राजार्थं विहरन्तमितस्ततः।।[5-5-30]
आलोकयन्तमादाय तं करेण सुचारुणा।
स्वकण्ठे योजयन्मेरुतटेऽर्कमिव सादरम्।।[5-5-31]
तस्मिन्कण्ठगते नेदुर्जदुन्दुभयोऽभितः।
पूरिताशोऽवनौ राजा जयतीति जनस्वनः।
उद्ययौ संप्रबुद्धानां विहगानामिवारवः।।[5-5-32]
तं तत्र वरयामासुर्मण्डनार्थं वराङ्गनाः।
तादृशं तमुपाजग्मुः सर्वाः प्रकृतयस्ततः।।[5-5-33]
एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे।
कीरिकरतलाम्भोजप्रमृष्टचरणाम्बुजः।।[5-5-34]
अथेति।। स्वाधिपीवरया स्वमनोदुःखस्थूलया।।[5-5-18,19,20,21,22,23,24,25,26,27,28,29,30,31,32,33,34]
परिविसृतनृपौजाः सर्वदिक्संस्थिताज्ञः कतिपयदिवसेहासिद्धदेशव्यवस्थः।
प्रकृतिभिरलमूढाशेषराजत्वभारः स गवल इति नाम्ना तत्र राजा बभूव।।[5-5-35]
वसिष्ठ उवाच।।
विलासिनीभिर्वलितो मन्त्रिमण्डलपूजितः।
वन्दितः सर्वसामन्तैश्छत्रचामरशोभितः।।[5-5-36]
कीरेषु श्वपचो राज्यं वर्षाण्यष्टौ चकार।
यदृच्छयैकदा योऽसावतिष्ठित्त्यक्तभूषणः।।[5-5-37]
परीति।। परिविसृतनृपौजाः सर्वतः प्रसृतराजतेजाः। कतिपयदिवसेहासिद्धदेशव्यवस्थः कतिपयैरल्पैरेव दिवसैरीहासिद्धा स्वेच्छामात्रेणैव सिद्धा देशव्यवस्था देशमर्यादा यस्य सः। प्रकृतिभिरमात्यादिभिः ऊढोऽसेषो राज्यत्वस्य राज्यस्य भारो यस्य।।[5-5-35,36,37]
एक एवाजिरं बाह्यं तादृग्वेषः स निर्ययौ।
तत्रापश्यद्धनश्यासं पीनं श्वपचपेटकम्।।[5-5-38]
धुनानं वल्लरीं तन्त्रीं करपल्लवलीलया।
एकस्तस्मात्समुत्तस्थौ जरावान्रक्तलोचनः।।[5-5-39]
भो कटञ्जेति सहसा वदन्कीरमहीपतिम्।
उवाचेदं स कीरेशं हे बन्धो भो कटञ्जक।।[5-5-40]
क्व नु स्थितोऽसि दिष्ट्याद्य दृष्टोऽसि चिरबान्धव।
क्वासि विश्रान्तवान्कालमेतावन्तं वनान्तरे।।[5-5-41]
श्वपचोऽग्रे वदत्येवं राजा यावत्तया तया।
चकार तत्कालतया चेष्टयैवावधीरणम्।।[5-5-42]
तावद्वातायनगताः कान्ताः प्रकृतयस्तथा।
श्वपचोऽयमिति ज्ञात्वा म्लानतामलमाययुः।।[5-5-43]
सत्वरं प्रविवेशान्तःपुरमाम्लानमानवम्।
मन्त्रिणो नागरा नार्यस्ततस्त्वेनं महीपतिम्।।[5-5-44]
नास्प्राक्षुरपि तिष्ठन्तं गृह एव शवं यथा।
एक एव बभूवासौ जनमध्यगतोऽपि सन्।।[5-5-45]
सार्थादिगणनिर्मुक्तः परदेश इवाध्वगः।
अथ सर्वे वयं दीर्घकालं श्वपचदूषिताः।।[5-5-46]
प्रायश्चित्तैर्न शुद्ध्यामः प्रविशामो हुताशनम्।
इति निर्णीय नगरे नागरा मन्त्रिणस्तथा।।[5-5-47]
अभितो ज्वालयित्वाग्निं विविशुः सह बन्धुभिः।
राजा सज्जनसंपर्कपवित्रीकृतधीरधीः।।[5-5-48]
एकलश्चिन्तयामास शोकव्याकुलचेतनः।
मदर्थमित्यनर्थोऽयं देशेऽस्मिंस्थितिमागतः।।[5-5-49]
किंच जीवितदुःखेन मरणं मे महोत्सवः।
इति निश्चित्य गवलो ज्वलिते ज्वलने पुरः।।[5-5-50]
पतङ्गवदनुद्वेगमकरोदाहुतिं वपुः।
अत्रान्तरेऽनलक्षुब्धो गाधिर्मोहादबुध्यत।।[5-5-51]
वसिष्ठ उवाच।।
मुहूर्तद्वितयेनासौ गाधिरासीद्गतभ्रमः।
कोऽहं किमिव पश्यामि किमकार्षमहं किल।।[5-5-52]
एवं विचारयंश्चित्रमुदस्थादुदकान्तरात्।
नित्यमेवमनन्तासु भ्रमदृष्टिषु देहिनाम्।।[5-5-53]
चेतो भ्रमति शार्दूलो वनराजिष्विवोन्मदः।
अवधार्येति तं चित्तमोहं गाधिर्निनाय सः।।[5-5-54]
दिनानि कतिचित्तस्मिन्स्वक एवाश्रमे तदा।
एकदा गाधिमागच्छत्कश्चित्प्रियतरोऽतिथिः।।[5-5-55]
परमां तृप्तिमानीतः फलपुष्परसाशनैः।
अथ वन्दितसंध्यौ तौ कृतजप्यावुभावपि।।[5-5-56]
क्रमाच्छयनमासाद्य चक्रतुः पावनीः कथाः।
तं पप्रच्छातिथिं गाधिः प्रसङ्गापतितं वचः।।[5-5-57]
किं ब्रह्मन्संकृशाङ्गस्त्वं किमिति श्रमवानसि।।[5-5-58]
अतिथिरुवाच।।
अस्त्यस्मिन्वसुधापीठे उत्तराशानिकुञ्जके।
कीरो नामेति विख्यातः श्रीमाञ्जनपदो महान्।।[5-5-59]
तत्राहमवसं मासं पूज्यमानः पुरे जनैः।
एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित्।।[5-5-60]
इहाभूच्छ्वपचो राजा वर्षाण्यष्टौ द्विजेति मे।
स एवान्ते परिज्ञातः प्रविष्टो ज्वलनं जवात्।।[5-5-61]
ततो द्विजशतानीह प्रविष्टानि हुताशनम्।
इति तस्य मुखाच्छ्रुत्वा तस्मान्निर्गत्य मण्डलात्।।[5-5-62]
प्रयागे स्नानजप्यादि प्रायश्चित्तमहं द्विज।
कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम्।।[5-5-63]
इहाहमागतस्तेन श्रान्तोऽस्म्यतिकृशोऽस्मि च।।[5-5-64]
वसिष्ठ उवाच।।
इति विप्रमुखाच्छ्रुत्वा विस्मयोद्धुरया धिया।
गाधिः संचिन्तयामास मद्वृत्तान्तोऽयमीदृशः।।[5-5-65]
तदात्मश्वपचोदन्तं द्रष्टुं गच्छम्यखिन्नधीः।
निर्गत्याथ महाबुद्धिर्देशानुल्लङ्घ्य भूरिशः।।[5-5-66]
तत्तादृशसमाचारं हूणमण्डलमासदत्।
तेनैव संनिवेशेन निजं श्वपचमन्दिरम्।।[5-5-67]
तथाऽपश्यदथान्यांश्च संनिवेशानितस्ततः।
एवं जाताः स्मरन् गाधिः प्राक्तनीः श्वपचक्रियाः।।[5-5-68]
विस्मयोत्कम्पितशिरा धातुश्चेष्टां परामृशत्।
हूणमण्डलमुत्सृज्य कीरमण्डलमाययौ।।[5-5-69]
अथात्मनानुभूतानि दृष्टान्यासेवितानि च।
स्थानानि नगरेऽपश्यज्जनेभ्यः श्रुतवांस्तथा।।[5-5-70]
एषा हि माया महती तेन मे चक्रधारिणा।
दर्शितेत्यधुना साधु मया स्मृतमखण्डितम्।।[5-5-71]
इति संचिन्त्य निर्गत्य तस्माद्गाधिर्जनास्पदात्।
कन्दरां प्राप्य शैलस्य तस्थौ तत्र च सिंहवत्।।[5-5-72]
तत्र संवत्सरं सार्धमपश्रुकभोजनः।
तपश्चक्रे महातेजास्तुष्टये शार्ङ्गधन्वनः।।[5-5-73]
अथाजगाम शैलेन्द्रकन्दरे द्विजमन्दिरे।
पयोधरवदच्छात्मच्छविश्चक्रगदाधरः।।[5-5-74]
श्रीभगवानुवाच।।
विप्रवर्य त्वया दृष्टा माया मम गरीयसी।
तपो गिरितटे कुर्वन्किमन्यदभिवाञ्छसि।।[5-5-75]
दत्तार्घं कीर्णकुसुमं प्रणम्याङ्गप्रदक्षिणैः।
विष्णुमाह द्विजो वाक्यमम्भोदमिव चातकः।।[5-5-76]
गाधिरुवाच।।
देव एषा त्वया माया दर्शितातितमोमयी।
तस्या मर्म न जानामि भ्रमः सत्योऽभवत्कथम्।।[5-5-77]
तत्रेति।। श्वपचपेटकः श्वपचसमूहः।।[5-5-38 TO 5-5-77]
श्रीभगवानुवाच।।
विप्र पृथ्व्यादि चित्तस्थं न बहिःस्थं कदाचन।
स्वप्नभ्रमपदार्थेषु सर्वैरेवानुभूयते।।[5-5-78]
विप्रेति।। पृथ्व्यादि पृथिव्यादिरूपं जगच्चित्तस्थं चित्तस्यैव जगन्निदानत्वात्तत्रैव तिष्ठति न बहिःस्थं बहिस्तु वस्तुतो नास्तीत्यर्थः। अयं चार्थः स्वप्नाद्यवस्थासु सर्वैरनुभूयत एव स्वप्नादिषु चित्तगतस्यैव प्रपञ्चस्य परिस्फुरणात्।।
यत्रानन्तजगज्जालं संस्थितं तेन चेतसा।
स्वपचत्वं प्रकटितं यदि तद्विस्मयोऽत्र किम्।।[5-5-79]
यत्रेति।। यत्र चेतसि अनन्तजगज्जालं संस्थितं तेन सर्वप्रपञ्चपरिधारिणा चेतसा श्वपचत्वमेकं चेत्प्रकटितं को नामात्र विस्मयः।।
अवबुद्धा श्वपचता प्रतिभासवाशाद्यथा।
तथैवातिथिरायातो दृष्टवानसि संभ्रमे।।[5-5-80]
तथैवोत्थाय गच्छामि प्राप्तोऽहं हूणमण्डलम्।
तथैवेदं कटञ्जस्य प्राक्तनं संचितं गृहम्।।[5-5-81]
तथैव कीरनगरं प्राप्तोऽसि कथितं च मे।
कीरे श्वपचराजत्वं दृष्टवान्विगतभ्रमम्।।[5-5-82]
अवबुद्धेति।। प्रतिभासवशाद्भ्रान्तिवशाच्छ्वपचता यथावबुद्धा तथैवातिथिरायात इति अहमखिलं भ्रमं दृष्टवानिति च प्रतिभासवशादेवावबुद्धमित्यर्थः।।[5-5-80-81-82]
काकतालीययोगेन चेतसि श्वपचस्थितिः।
सर्वेषां हूणकीराणां तथैव प्रतिबिम्बिता।।[5-5-83]
कदाचित्प्रतिभैकैव बहूनामपि जायते।
काकतालीयस्थितिवद्विचित्रा हि मनोगतिः।।[5-5-84]
योऽसौ कटञ्जको नाम श्वपचो हूणमण्डले।
तेनैव सन्निवेशेन स तथैवाभवत्पुरा।।[5-5-85]
तथैव विधिवैधुर्यं प्राप्य देशान्तरं गतः।
बभूव कीरनृपतिः प्रविवेशानलं ततः।।[5-5-86]
तवाभूत्केवलं चित्ते स्वसंबन्धितया तदा।
प्रतिभाया तथाभूता कटञ्जाचारसंस्थितिः।।[5-5-87]
काकेति।। यथा त्वच्चेतसि श्वपचस्थितिस्तथा यदृच्छया सर्वेषां हूणकीराणां चेतस्यपि श्वपचस्थितिः प्रतिबिम्बिता। भ्रान्तेर्विचित्रत्वादिति भावः।।[5-5-83,84,85,86,87]
अयं सोऽहमिदं तन्म इति मञ्जत्यनात्मवान्।
सर्वमेवाहमेवेति तत्त्वज्ञो नावसीदति।।[5-5-88]
विप्रापर्यवसानेयं माया संसृतिनामिका।
आत्मचिन्तनयैवेयं क्षयमायाति नान्यथा।।[5-5-89]
अयमिति।। अयमहं सोऽहं इदमेतन्म इति भेदं भावयन् अनात्मवाननात्मज्ञो मज्जति संसारसागरे मग्नो भवति। तत्त्वज्ञस्तु सर्वमेवाहं अहमेव सर्वमिति अद्वैतं भावयन्संसारे नावसीदति।।[5-5-88,89]
न गृह्णाति पदार्थेषु विभागानर्थभावनाम्।
तेनासौ भ्रममोहेषु तत्त्वज्ञो नावसीदति।।[5-5-90]
नेति।। यस्मात्तत्त्वज्ञः पदार्थेषु विभागानर्थभावनां विभागविषयामनर्थहेतुं भावनां न गृह्णाति तेन हेतुना असौ तत्त्वज्ञो भ्रमहेतुषु मोहेष्वज्ञानेषु नावसीदति।।
ज्ञानस्यापरिपूर्णत्वान्न शक्नोषि मनोभ्रमम्।।
विनिवारयितुं तेन तेनैवाक्रम्यसे क्षणात्।।[5-5-91]
ज्ञानस्येति।। ज्ञानस्यात्मतत्त्वज्ञानस्यापरिपूर्णत्वात् परिच्छिन्नविषयत्वात् मनोभ्रमं विनिवारयितुं न शक्नोषि तेनैव हेतुना तेनैव मनोभ्रमेणाक्रम्यसे परिभूयसे।।
चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः।
स्थीयते चेत्तदाक्रम्य तन्न किंचित्प्रबाधते।।[5-5-92]
त्वमुत्तिष्ठ गिरेः कुञ्जे दश वर्षाणि खिन्नधीः।
तपः कुरु ततो ज्ञानमनन्तं समवाप्स्यसि।।[5-5-93]
इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत।
गाधिर्विवेकवशजं वैराग्यं परमं गतः।।[5-5-94]
जगाम करुणार्द्रात्मा नियमायावनीधरम्।
निरस्ताशेषसंकल्पस्तीव्रं तत्राकरोत्तपः।।[5-5-95]
दश वर्षाणि तेनासावात्मज्ञानमवाप ह।।[5-5-96]
चित्तमिति।। अस्य जगद्रूपस्य मायाचक्रस्य चक्रमिव भ्रमणहेतोर्मायाप्रपञ्चस्य चित्तमेव नाभिर्मध्यगतविवरं किलं प्रसिद्धं चक्रप्रवृत्तिहेतुत्वात् तत्तादृशं मायाचक्रनाभिभूतं चित्तं कर्म सर्वतः सर्वत्राक्रम्य निरुध्य स्थीयते चेन्निर्विकारमवस्थीयते चेत्तर्हि तन्मायाचक्रं कर्तृ किंचिदपीषदपि नावबाधते।।[5-5-92,93,94,95,96]
अरमत तदनु स्वां प्राप्य सत्तां महात्मा व्यपगतभयशोको भोगभूमावनिच्छः।
सततविततजीवन्मुक्तरूपः प्रशान्तः सकल इव शशाङ्कोऽघूर्णितापूर्णचेताः।।[5-5-97]
इति श्रीवाल्मीकीये मोक्षोपाय उपशमप्रकरणे गाधिवृत्तान्तकथनं नाम पञ्चमः सर्गः।। 5 ।।
अरमतेति।। स्वां परिपूर्णां सत्तां महासत्तां प्राप्य अरमत। आत्मन्येवेति शेषः। अघूर्णितापूर्णचेताः अघूर्णितमभ्रान्तम्।।
इति श्रीसंसारतरणिनाम्नि वासिष्ठविवरण उपशमप्रकरणे गाध्युपाख्यानं नाम पञ्चमः सर्गः।। 5 ।।