सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः २

विकिस्रोतः तः
← सर्गः १ लघुयोगवासिष्ठः
सर्गः २
[[लेखकः :|]]
सर्गः ३ →

दामाद्युपाख्यानम्।।
द्वितीयः सर्गः।।
वसिष्ठ उवाच।।
जन्तोः कृतविचारस्य विगलद्वृत्तिचेतसः।
मननं त्यजतो नित्यं किंचित्परिमतात्मनः।।[4-2-1]
पूर्वं भार्गवाख्याने चित्तमयः संसार इति दर्शितम्। अत्र तु दामाद्युपाख्याने स चित्तमयः संसारो विवेकेन चित्तशान्तौ शाम्यति विवेकाभावे तु वर्धते इति प्रतिपाद्यते। तत्र चित्तप्रसादे सामग्रीमुपदर्शयितुमाह-जन्तोरिति सार्धेन श्लोकपञ्चकेन।। विगलद्वृत्तिचेतसः विगलन्त्यो मलिना वृत्तयो यस्माच्चेतसस्तादृशं चेतो यस्य तस्य। मननं संकल्पम्।।
दृश्यं संत्यजतो हेयमुपादेयमुपेयुषः।
द्रष्टारं पश्यतो नित्यमद्रष्टारमपश्यतः।।[4-2-2]
उपादेयं दृङ्मात्रम्। द्रष्टारमात्मानम्।।
निज्ञातव्ये परे तत्त्वे जागरूकस्य जीवतः।
सुप्तस्य घनसंमोहमये संसारवर्त्मनि।।[4-2-3]
सुप्तस्य अनुसन्धानरहितस्य।।
अत्यन्तपक्ववैराग्यादरसेषु रसेष्वपि।
संसारवासनाजाले खगजाल इवाखुना।
त्रोटिते हृदयग्रन्थौ श्लथे वैराग्यरंहसा।।[4-2-4]
सुप्तत्वे हेतुः-अत्यन्तपक्ववैराग्यादिति।। अरसेषु अल्पसुखास्वादेषु ऐहिकविषयेषु रसेषु सुखास्वादभूयिष्ठेषु पारलौकिकविषयेषु आखुना मूषिकेण खगानां जाले वागुरायामिव वैराग्यरंहसा संसारवासनाजाले त्रोटिते छेदिते सति हृदयग्रन्थौ अहंकाररूपेण पर्वणि च श्लथे सति।।
कातकं फलमासाद्य यथा वारि प्रसीदति।
तथा विज्ञानवशतः स्वभाः संप्रसीदति।।[4-2-5]
कातकं फलमासाद्य वारीव विज्ञानवशतः स्वभावः स्वरूपं संप्रसीदतीत्यन्वयः। यद्रजःसंपर्कत्कलुषं जलं प्रसन्नं भवति तत्कातकं फलम्।।
नीरागं निरुपासङ्गं निर्द्वन्द्वं निरुपाश्रयम्।
विनिर्याति मनो मोहाद्विहगः पञ्जरादिव।।[4-2-6]
नीरागमिति।। राग इच्छाविशेषस्तद्रहितं नीरागम्। अतएव निरुपासङ्गं विषयासङ्गरहितम्। अतश्च निर्द्वन्द्वं सुखदुःखभेदानुसंधानविरतम्। ततश्च निरुपाश्रयं निरालम्बनं सन्मनो मोहादज्ञानबन्धान्निर्याति। विहगः पञ्जरादिवेति।।
शान्तसंदेहदौरात्म्यं गतकौतुकविभ्रमम्।
परिपूर्णान्तरं चेतः पूर्णेन्दुरिव राजते।।[4-2-7]
शान्तेति।। शान्तं संदेहानां दौरात्म्यं दुष्टता यस्य। गतः कौतुकानां संकल्पानां विभ्रमो विलासो यस्मात्।।
विचारेण परिज्ञातस्वभावस्योदितात्मनः।
अनुकम्प्या भवन्तीह ब्रह्मविष्ण्विन्द्रशंकराः।।[4-2-8]
विचारेणेति।। परिज्ञातस्वभावस्य साक्षात्कृतात्मतत्त्वस्य अतएवोदितात्मनः परिपूर्णस्वरूपस्य ब्रह्मादयोऽप्यनुकम्प्या भवन्ति। हन्त संततमेते दुःखिन इति शोचनीया भवन्तीत्यर्थः।।
कोऽहं कथमिदं चेति यावन्नान्तर्विचारितम्।
संसाराडम्बरं तावदन्धकारोपमं स्थितम्।।[4-2-9]
अविचारे दोषमाह-कोऽहमिति।। कोऽहमित्यात्मविषयो विचारः। कथमिदमिति जगद्विषयः। अन्तः अन्तःकरणे।।
आत्मानमितरं चैव दृशा नित्याविभिन्नया।
सर्वं चिज्ज्योतिरेवेति यः पश्यति स पश्यति।।[4-2-10]
विचारस्वरूपं दर्शयति श्लोकत्रयेण-आत्मानमिति।। यः स्वात्मानमितरं पुरुषं नित्याविभिन्नया सर्वदा भेदशून्यया दृशा ज्ञानेन पश्यति विचारयति सर्वं जगच्चिज्ज्योतिरेवेति चैतन्यमात्रमेवेति पश्यति स विचारपरः पुमान् पश्यति।। तत्त्वं साक्षात्करोतीत्यर्थः।।
सर्वशक्तिरनन्तात्मा सर्वभावान्तरस्थितः।
अद्वितीयश्चिदित्यन्तर्यः पश्यति स पश्यति।।[4-2-11]
सर्वेति।। सर्वभावान्तरस्थितः सर्वपदार्थान्तर्यामी पुरुषः सर्वशक्तिः। अनन्तात्माऽपरिच्छिन्नस्वरूपः। सर्वपदार्थान्तर्यामी पुरुषः सर्वशक्तिः। अनन्तात्माऽपरिच्छिन्नस्वरूपः। अतएवाद्वितीयः स्वव्यतिरिक्तवस्त्वभावात् चिच्चिन्मात्ररूप इति च यः पश्यति।।
नाहं न चान्यदस्तीति ब्रह्मैवास्ति निरामयम्।
इत्थं सदसतोर्मध्यं यः पश्यति स पश्यति।।[4-2-12]
नेति।। अहं अहन्तापरिच्छिन्नं उपहितं वस्तु नास्ति अन्यत्स्वव्यतिरिक्तं दृश्यं च नास्ति किंतु निरामयं निर्विकारं ब्रह्मैवास्ति इत्थमनेन प्रकारेण सदसतोः आत्मानात्मनोर्मध्यं द्रष्टृत्वदृश्यत्वोपाधिरहितं चिन्मात्रत्वम्।।
अयत्नोपनतेष्वक्षि दिग्द्रव्येषु यथा पुनः।
अरागमेव पतति तद्वात्कार्येषु धीरधीः।।[4-2-13]
अयत्नेति।। दिग्द्रव्येषु दिक्षु स्थितेषु द्रव्येषु अक्षिचक्षुरिन्द्रियं अयत्नेनैवोपनतेषु प्राप्तेषु सत्सु तद्विषयो मनोरथोऽनुरागस्तं विनैव पतति तद्वद्वीराणां ब्रह्मविदामपि धीर्बुद्धिः कार्येषु अवश्यकर्तव्येषु रागरहितमेव प्रवर्तते।।
परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये।
विज्ञाय सेवितश्चौरो मैत्रीमेति न चौरताम्।।[4-2-14]
परिज्ञायेति।। अयमिह ज्ञानिनो भोगविशेषः यत्परिज्ञायोपभुक्तो भोगः तुष्टये भवति न पुनः क्लेशायेति। यथाहि। चौरः संसेव्यमानोऽपि विज्ञातारं नैव बाधते प्रत्युत मित्रभावेनोपकरोति तद्वदिति।।
अशङ्कितोपसंप्राप्ता ग्रामयात्रा यताध्वगैः।
प्रेक्ष्यते तद्वदेव ज्ञैर्भोगश्रीरवलोक्यते।।[4-2-15]
अशङ्कितेति।। अध्वगैः पुरुषैः अशङ्कितमतर्कितमेवोपसंप्राप्ता ग्रामयात्रा ग्रामस्य विवाहादिमहोत्सवपरिकल्पिता यात्रा गच्छज्जनसंघो यथा प्रेक्ष्यते तद्वदेव ज्ञैर्ज्ञानिभिर्भोगश्रीर्निरासङ्गमेवावलोक्यते।।
मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपियः।
तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते।।[4-2-16]
मनस इति।। निगृहीतस्य प्रत्याहारादिभिर्योगाङ्गैर्निरुद्धस्य मनसोऽल्पकोऽपि यो लीलाभोगः अनादरेणोपभोगः तमेव भोगं क्लिष्टत्वान्निरुद्धत्वादलब्धविस्तारं मनो बहु मन्यते।।
बन्धयुक्तो महीपालो ग्रासमात्रेण तुष्यति।
परैरबद्धोऽनाक्रान्तो न राज्यं बहु मन्यते।।[4-1-17]
अत्र दृष्टान्तमाह-बन्धेति।। ग्रासमात्रेण अन्नपानप्रदानमात्रेण।।
हस्तं हस्तेन संपीड्य दन्तैर्दन्तान्विचूर्ण्य च।
अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः।
मनसो विजयान्नान्या गतिरस्ति भवार्मवे।।[4-1-18]
एतावति धरणितले सुभगास्ते साधुचेतसः पुरुषाः।
पुरुषकथासु च गण्या न जिता ये चेतसा स्वेन।।[4-1-19]
हृदयबिले कृतकुण्डल उल्बणकलनाविषो मनोभुजगः।
यस्योपशान्तिमागतमुदितं (चित्तं) तमव्ययं वन्दे।।[4-2-20]
मनोनिग्रहोपायमाह-हस्तमिति।। हठयोगेन पवनजयद्वारा स्वकं मनो जयेदिति तात्पर्यम्।।[4-1-18,19,20]
वसिष्ठ उवाच।।
महानरकसाम्राज्ये मत्ता दुष्कृतवारणाः।
आशाशरशलकाढ्या दुर्जया हीन्द्रियारयः।।[4-2-21]
महानरकेति।। महान्तो नरका एव साम्राज्यं इन्द्रियादीनां भोगस्थानत्वात्। दुष्कृतान्येव मत्ता वारणाः इन्द्रियाणां प्रवृत्तिहेतुत्वात्। आशामनोरथा एव शरशलाकाः शलाकारूपाः शरास्तैः प्रवर्त्यमानत्वात्।।
प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः।
पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः।।[4-2-22]
चित्तोपशमस्येन्द्रियजयस्य च फलमाह-प्रक्षीणेति।। भोगवासनाः पुनःपुनर्भोगाशाः।।
तावन्निशीथवेताला वल्गन्ति हृदि वासनाः।
एकतत्त्वदृढाभ्यासाद्यावन्न विजतं मनः।।[4-2-23]
तावदिति।। एकतत्त्वदृढाभ्यासा एकस्मिन्नात्मत्त्वे दृढो रूढमूलो यो ध्यानाभ्यासस्तस्मात्।।
भृत्योऽभिमतकर्तृत्वान्मन्त्री सत्कार्यकारणात्।
सामन्तश्चेन्द्रियक्रान्त्या गुरुर्विद्याप्रदानतः।।[4-2-24]
लालनात्स्निग्धललना पालनात्पावनः पिता।
सुहृदुक्तं च विश्वासान्मनो मन्ये मनीषिणाम्।।[4-2-25]
वशीकृत मनो बहुप्राणिनामुपकरोतीत्याह श्लोकद्वयेनभृत्य इति।। मनो भृत्यादिकार्यकरणात, भृत्यादिरूपतामापद्यत इत्यर्थः। सतां हितानां कार्याणां स्वत एव करणान्मन्त्री इन्द्रियाणां ज्ञानकर्मकरणानामाक्रान्तेर्नियोज्यकत्वाद्बहुविधाधिकारिपुरुषप्रवर्तकः सामन्त इव।।[4-2-24,25]
स्वालोकितः शास्त्रदृशा स्वबुद्ध्या स्वानुभावितः।
प्रयच्छति परां सिद्धिं त्यक्त्वात्मानं मनःपिता।।[4-2-26]
स्वालोकित इति।। शास्त्रदृशा विचारसिद्धेन शास्त्रीयज्ञानेन स्वालोकितः सुष्ठु पर्यालोकितः स्वबुद्ध्या स्वानुभवेन स्वानुभावितः सुष्ठु निश्चयं प्रापितः मनः पिता `पालनात् पावनः पिते'त्युक्तत्वात् मन एव पिता आत्मानं त्यक्त्वा स्वयं विलीय परां सिद्धिं कैवल्यं प्रयच्छति। क इत्थमुपकरिष्यतीति भावः।।
सुदृष्टः सुदृढः स्वच्छः सुकान्तः सुप्रबोधितः।
स्वगुमेनोर्जितो भाति हृदि दृद्यो मनोमणिः।।[4-2-27]
सुदृष्ट इति।। सम्यग्दृष्टः अत एव सुदृढः संशयविपर्ययरहितत्वादप्रकम्प्यः अतश्च स्वच्छो निष्कलङ्कः सुकान्तः शुभेच्छायुक्तः सुप्रबोधितः समीचीनं प्रबोधं प्रापितः स्वगुणेन शमादिना ऊर्जित उत्कृष्टः सन्मनोमणिर्हृद्यो भातीति।।
एवं मनोमणिं राम बहुपङ्ककलङ्कितम्।
विवेकवारिणा सिद्ध्‌यै प्रक्षाल्यालोकवान्भव।।[4-2-28]
विवेकं परमाश्रित्य बुद्ध्या सत्यमवेक्ष्य च।
इन्द्रियारीनलं तीर्त्वा तीर्णो भव भवार्मवात्।।[4-2-29]
एवमिति।। बहुपङ्कलङ्कितं बहुभिर्मलिनवासनाभिः संजातकलङ्कं एनं मनोमणिं विवेकवारिणा विचारजन्यं विज्ञानं विवेकस्तेनैव वारिणा प्रक्षाल्य सिद्ध्यै कैवल्यायालोकवान् तत्त्वज्ञो भव।।[4-2-28,29]
अयमहमिति निश्चयो वृथा यस्तमलमपास्य महामते स्वबुद्ध्या।
यदितरदवलम्बय तत्पदं त्वं व्रज पिब भुङ्क्ष्व न बध्यसेऽमनस्कः।।[4-2-30]
अयमिति।। अयमहमिति यः परिच्छिन्नाकारविषयो वृथानिश्चयो विपरीतपरिच्छेदः तं स्वबुद्ध्या अलमपास्य इतपद्यत्पदं अहंतानवच्छिन्नं यच्चैतन्यं तदवलम्ब्य अमनस्कः सन् यथेच्छं व्यवहर। तथासति न बध्यस इत्यर्थः।।
वसिष्ठ उवाच।।
दामव्यालकटन्यायो मा ते भवतु राघव।
भीमभासदृढस्थित्या तवास्त्वतिविशोकता।।[4-2-31]
दामेति।। दामो व्यालः कटश्चेति दैत्या वक्ष्यन्ते। तेषां न्यायो विवेकशून्यो व्यवहारस्ते मा भवतु। भीमो भासो दृढ इति च दैत्याः तेषां स्थित्या तव विशोकतास्तु।।
श्रीराम उवाच।।
दामव्यालकटन्यायो भीमभासदृढस्थितिः।
ब्रह्मन्किमुक्तं भवता भवतापापहारिणा।।[4-2-32]
श्रीवसिष्ठ उवाच।।
दामव्यालकटन्यायं मीमभासदृढस्थितिम्।
शृणु राघव तच्छ्रुत्वा यथेच्छसि तथा कुरु।।[4-2-33]
आसीत्पातालकुहरे सर्वैश्वर्यमनोहरे।
शम्बरो नाम दैत्येन्द्रो मायामणिमहार्णवः।।[4-2-34]
दामेति।। भवतापाः संसारदुःखानि तानपहर्तुं शीलमस्येति।।[4-2-32,33,34]
तस्यादिदेवदेवस्य कठिनोड्डामराकृतेः।
बभूव विपुलं सैन्यमासुरं सुरनाशनम्।।[4-2-35]
तस्मिन्मायाबले सुप्ते देशान्तरगते तथा।
तत्सैन्यं तरसा जघ्नुश्छिद्रं प्राप्य किलामराः।।[4-2-36]
तस्येति।। आदिदेवाः पूर्वदेवा दैत्याः तेषां देवो जातस्तस्य कठिनोड्डामरा भयंकरा च आकृतिर्यस्य।।[4-2-35,36]
अथ शम्बरदैत्येन मुण्डिकाङ्कद्रुमादयः।
रक्षार्थं मन्त्रिसामन्ताः स्वेसनासु नियोजिताः।।[4-2-37]
तानप्यन्तरमासाद्य जघ्नुर्देवा भयानकान्।
स्वयं कोपादथायासीच्छम्बरः सुरपत्तनम्।।[4-2-38]
तस्य मायाबलाद्भीताः सुरास्तेऽन्तर्धिमाययुः।
मेरुकाननकुञ्जेषु भयभारावयन्त्रिताः।।[4-2-39]
क्रन्दत्क्षुद्रामरगणं बाष्पक्लिन्नाङ्गनामुखम्।
शून्यं ददर्श स स्वर्गं कल्पक्षीणजगत्समम्।।[4-2-40]
विहृत्य कुपितस्तत्र दोर्दण्डमदघूर्णितः।
लोकपालपुरीं दग्ध्वा जगामात्मीयमालयम्।।[4-2-41]
एवं दृढतरीभूते द्वेषे दानवदेवयोः।
देवाः स्वर्गं परित्यज्य दिक्षु जग्मुरदर्शनम्।।[4-2-42]
अथ शम्बरदैत्येन ये ये सेनाधिनायकाः।
क्रियन्ते यत्नतस्तांस्ताञ्जघ्नुर्यत्नपराः सुराः।।[4-2-43]
यावदुद्वेगमापन्नः शम्बरः कोपवान्भृशम्।
ससर्ज मायया घोरानसुरांस्त्रीन्महाबलान्।।[4-2-44]
निर्मिता मायया भीमाः पक्षक्षुब्धा इवाद्रयः।
उदगुस्ते महामाया दामो व्यालः कटस्तथा।।[4-2-45]
अथेति।। मुण्डिकाङ्कद्रुमादयः मुण्डिकाङ्को द्रुमश्च आदिर्येषां ते।।[4-2-37,38,39,40,41,42,43,44,45]
वासनात्माभिमानाभ्यां हीनास्ते प्रथमोद्गताः।
नाभिपातं न वापातं न विदुस्ते पलायनम्।।[4-2-46]
न जीवितं न मरणं समरे न जयाजयौ।
केवलं सैनिकानग्रे दृष्ट्वा ते हननोद्यताः।।[4-2-47]
शम्बरश्चिन्तयामास परितुष्टमनास्तदा।
इष्टानिष्टाभिरेते हि वासनाभिर्यदुज्झिताः।।[4-2-48]
तदेते न पलायन्ते देवैरभिहता अपि।
इति निर्णीय दैत्येन्द्रो दामव्यालकटान्विताम्।।[4-2-49]
सेनां संप्रेषयामास देवेन्द्रबलघातिनीम्।
दैत्याः सागरकुञ्जेभ्यः कन्दरेभ्यश्च सायुधाः।।[4-2-50]
उदगुर्भीमनिर्ह्रादाः सपक्षगिरिलीलया।
अथोत्तस्थुर्निकुञ्जेभ्यः कन्दरेभ्यः सुरा बलात्।।,4-2-51]
प्रयान्त इव शैलेन्द्रा भीमाः स्वर्वासिनां गणाः।
देवासुरपताकिन्योस्तद्युद्धमभवत्तयोः।।,4-2-52]
अकालोल्बणकल्पान्तभीषणं भुवनान्तरे।
तस्मिंस्तदा वर्तमाने घोरे समरसंभ्रमे।।[4-2-53]
पतिताङ्गायुधानीह प्रस्रवद्रुधिराणि च।
पयांसीव विशीर्णानि देवसैन्यानि दुद्रुवुः।।,4-2-54]
दामव्यालकटास्तानि चिरमन्तर्हितान्यपि।
अनुजग्मुर्लसन्नादमिन्धनानीव पावकाः।।[4-2-55]
अन्विष्यन्तोऽपि यत्नेन नालभन्तासुराः सुरान्।
अलब्धेष्वमरौघेषु दामव्यालकटास्तथा।।[4-2-56]
जग्मुः पातालकोशस्थं प्रभुं प्रमुदिताशयाः।
अथ देवा विषण्णास्ते क्षणमाश्वास्य वै ययुः।।[4-2-57]
दामादिभिश्च विजिता ब्रह्माणममितौजसम्।
तेषामाविरभूद्ब्रह्मा रक्तो रक्तासनच्छविः।।[4-2-58]
प्रणेमुस्ते सुरास्तस्मै तत्सर्वं शम्बरेहितम्।
सम्यक्प्रकथयामासुर्दामव्यालकटक्रमम्।।[4-2-59]
समाकर्ण्याखिलं ब्रह्मा विचार्य स विचारवान्।
उवाचेदं सुरानीकमाश्वासनपरं वच।।[4-2-60]
ब्रह्मोवाच।।
हन्त वर्षसहस्रान्ते शम्बरस्य रणे सुराः।
जेतव्या समरे सेना तावत्कालं प्रतीक्ष्यताम्।।[4-2-61]
दामव्यालकटानेतान्युध्यध्वममरेश्वराः।
योधयन्तः पलायध्वं युद्धार्थं पुनरेव च।।[4-2-62]
वासनेति।। वासनात्माभिमानाभ्यां लोकवासनया देहाभिमानेन च हीनाः। यतः प्रथमोद्गताः मायावसात्परस्मादात्मन एवोद्गताः। अतएव अभिपातं शत्रून्प्रत्यभियानं आपातं शत्रूणामागमनं च न विदुः न जानन्ति।।[4-2-46,47,48,49,50,51,52,53,54,55,56,57,58,59,60,61,62]
युद्धाभ्यासबलादेषा मुकुराणामिवाशये।
अहङ्कारचमत्कारः प्रतिबिम्बमुपैष्यति।।[4-2-63]
गृहीतवासना ह्येते दामव्यालकटासुराः।
सुजेया वो भविष्यन्ति लग्नजालाः खगा इव।।[4-2-64]
आस्थामात्रमनन्तनां दुःखानामाकरं विदुः।
अनास्थामात्रमनन्तनां दुःखानामाकरं विदुः।।[4-2-65]
वासनातन्तुबद्धोऽयं लोको हि परिवर्तते।
सा प्रवृद्धातिदुःखाय सुखायोच्छेदमागता।।[4-2-66]
धीरोऽप्यतिबहुज्ञोऽपि प्रवृद्धोऽपि महानपि।
तृष्णया बध्यते जन्तुः सिंहः श्रृङ्खलया यथा।।[4-2-67]
इत्युक्त्वा भगवान्देवस्तत्रैवान्तर्धिमाययौ।
सुरास्त्वाकर्ण्य तद्वाक्यं जग्मुश्चाभिमतां दिशम्।।[4-2-68]
चक्रुर्दुन्दुभिनिर्घोषं प्रलयाभ्ररवोपमम्।
अथ दैत्यैर्महाव्योम्नि तैः पातालतलोत्थितैः।।[4-2-69]
कालक्षेपकरं घोरं पुनर्युद्धमवर्तत।
पुनः पलायनं चक्रुरयुध्यन्त पुनः सुराः।।[4-2-70]
एवं ते कालहरणं युद्धेन सुरपुङ्गवाः।
चक्रुर्नानाविधोपायैर्दैत्यव्यामोहकारणात्।।[4-2-71]
एतावता च कालेन दृढाभ्यासादहंकृतेः।
दामादयोऽहमित्यास्थां जगृहुर्युक्तचेतसः।।[4-2-72]
भववासनया ग्रस्ता मोहवासनया युताः।
आशापाशनिबद्धास्ते ततः कृपणतां गताः।।[4-2-73]
स्थिरो भवतु मे देहः सुखायास्तु धनं मम।
इति बृद्धधियां तेषां धैर्यमन्तर्धिमाययौ।।[4-2-74]
अतस्तस्मिन् रणे दैत्याः सापेक्षत्वमुपाययुः।
मरिष्यामो मरिष्याम इति चिन्ताहताशयाः।।[4-2-75]
अथ प्रम्लानसत्त्वास्ते हन्तुमग्रगनं भटम्।
न शेकुरिन्धने क्षीणे हविर्दग्धमिवाग्नयः।।[4-2-76]
बहुनात्र किमुक्तेन मरणाद्भीतचेतसः।
पलायनैकशरणा नष्टास्ते त्रिदशारयः।।[4-2-77]
अहमेतत्प्रबोधाय वच्मि राम महामते।
दामव्यालकटन्यायो मा भवत्विति लीलया।।[4-2-78]
अविवेकानुसंधानाच्चित्तमापदमीदृशीम्।
अनन्तभवदुःखाय परिगृह्णाति हेलया।।[4-2-79]
राम उवाच।।
कथं दामकटव्यालाः समुत्पन्नाः परात्पदात्।
इति मे संशयं ब्रह्मन्यथावच्छेत्तुमर्हसि।।[4-2-80]
युद्धेति।। युद्धाभ्यासबलात्पुनःपुनर्युद्धप्रवर्तनात्। मुकुराणां दर्पणानां आशये अभ्यन्तरे इव अहंकाररूपश्चमत्कारः प्रत्ययविशेषः प्रतिबिम्बमुपैष्यतीत्यन्वयः।।[4-2-63,64,65,66,67,68,69,70,71,72,73,74,75,76,77,78,79,80]
वसिष्ठ उवाच।।
यथा दामादयो राम प्रतिभामात्ररूपिणः।
तथैवेमे वयमिति न बहिः क्वापि संस्थिताः।।[4-2-81]
अलीकमेव त्वद्भावो मद्भावोऽलीकमेव च।
दामव्यालकटादीनां सद्भावोऽलीकमेव च।।[4-2-82]
यथेति।। दामादयो यथा प्रतिभामात्ररूपिणः मायापरिकल्पितत्वात्प्रातिभासिकदेहाः।
इमे वयमपि तथैव प्रतिभामात्ररूपिणः बहिश्चिदाकाशाद्बहिः क्वापि न संस्थिताः।।[4-2-81,82]
प्रतिभासमयी काचिञ्जीवशक्तिः परात्मनः।
शम्बरध्यानविक्षुब्धा त्रिधोल्लासमावाप सा।।[4-2-83]
प्रतीति।। परात्मनः सकाशात्प्रतिबासमयी सा काचिज्जीवशक्तिः शम्बरध्यानेन विक्षुब्धा सती त्रिधा दामादिरूपेण उल्लासमवाप।।
तस्मान्नेमे वयं सत्या न च दामादयः क्वचित्।
सत्यं संवेदनं शुद्धं बोधाकाशं निरञ्जनम्।।[4-2-84]
तस्मादिति।। भेदः प्रपञ्चः सर्वोऽप्यसत्यः। चिदाकाशमात्रं शुद्धं संवेदनमेव सत्यम्।।
सत्यं सर्वगतं शान्तमस्त्यनस्तमनोदयम्।
तस्य शक्तिसमुल्लासमात्रं जगदिति स्थितिः।।[4-2-85]
तस्य चिन्मात्रस्य शक्तिसमुल्लासमिदं जगस्थितमिति श्लोकद्वयाभिप्रायः।।
सर्वत्र सर्वमिदमस्ति यथानुभूतं नो किंचन क्वचिदिहास्ति न चानुभूतम्।
शान्तं सदेकमिदमाननमित्थमास्ते संत्यक्तशङ्कमपभेदमतस्त्वमास्स्व।।[4-2-86]
इति श्रीवाल्मीकीये मोक्षोपाये स्थितिप्रकरणे दामाद्युपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।
सर्वत्रेति।। यथानुभूतं अनुभवानुसारेण सर्वं सर्वत्रास्ति न चानुभूतम्। चशब्दश्चेदर्थे। न चेदनुभूतं तर्हि किंचन क्वचिन्नास्ति। शान्तं सद्रूपमेकं वस्तु इत्थमाततं व्याप्तं सदिदं विश्वमास्ते जगद्रूपेण भाति अतः कारणात्त्वं संत्यक्तशङ्कं अभेदं वा स्वशङ्कां भेदं च विहाय सुखं तिष्ठेत्यर्थः।।
इति श्रीमदल्लालसूरिसूनुना पदवाक्यप्रमाणपारावारदृश्वाना श्रीमुम्मडिदेवविद्वदाचार्यविरचिते संसारतरणिनाम्नि वासिष्ठविवरणे दामाद्युपाख्यानं नाम द्वितीयः सर्गः।। 2 ।।