सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः १

विकिस्रोतः तः
लघुयोगवासिष्ठः
सर्गः १
[[लेखकः :|]]
सर्गः २ →

स्थितिप्रकरणम्।।
भार्गवोपाख्यानम्।।
वसिष्ठ उवाच।।
अकर्तृकमरङ्गं च गगने चित्रमित्थितम्।
अद्रष्टृकं स्वानुभवमनिद्रं स्वप्नदर्शनम्।।[4-1-1-]
पूर्वस्मिन्प्रकरणे जगन्मनोविलासादुत्पन्नं योगेन च मनोविलासशान्तौ शाम्यतीत्युक्तम्।। अस्मिंस्तु प्रकरणे मनस उत्पन्नं जगन्मनस्येव तिष्ठति। तच्च मनः स्वकारणे आत्मनि तिष्ठतीति प्रतिपाद्यते।। अत्र पञ्चाख्यानानि-शुक्रो दामादयो भीमादयो दाशूर उपदेशश्चेति। तत्र तावन्मनोमयस्य दृश्यस्य मनसा सहात्मन्यवस्थितत्वादाधारत्वेनात्मानं निरूपयितुमाधेयं दृश्यमाह-अकर्तृकमिति।। चित्रं हि केनचित्कर्त्रा कैश्चिद्रङ्गैरञ्जनद्रव्यैः कस्मिंश्चिद्भित्त्यादौ मूर्ते वस्तुनि क्रियते। इदं तु जगद्रूपं चित्रमकर्तृकं आत्मनो निष्क्रियत्वेनाकर्तृत्वात्। अरङ्गं चात्मनोऽद्वितीयत्वेन रञ्जकस्य द्रव्यान्तरस्याभावात्। गगने चिदाकाशे उत्थितं मूर्तस्य कस्यचिदधिकरणस्याभावात्। किंच अद्रष्टृकं स्वानुभवं यत्खल्वनुभूयते तत्सत्ये स्वव्यतिरिक्ते द्रष्टरि। इदं तु न तथा द्रष्टृदृश्ययोर्भेदाभावात्। किंच अनिद्रं स्वप्नदर्शनम्। स्वप्नदर्शनं हि सत्यां निद्रायां भवति। इदं तु न तथा जाग्रत्येव प्रतीयमानत्वात्।।
साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि।
निरर्थं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा।।[4-1-2]
साक्षीति।। साक्षादिक्षत इति साक्षी। दृग्रूपत्वात्साक्षिभूते समे परिपूर्णे स्वच्छे निर्मले निर्विकल्पे भेदशून्ये चिदात्मनि जगन्ति मुकुरे यथा दर्पणवन्निरर्थं प्रयोजनमन्तरेणैव प्रतिबिम्बन्ति प्रतिफलन्ति। निरिच्छमिति पाठे इच्छामन्तरेणेत्यर्थः। तत्र जगतां जडत्वादात्मनश्चासङ्गोदासीनत्वान्निरिच्छत्वं वेदितव्यम्।।
एतत्ते राम वक्ष्यामि कार्यकारणतां विना।
स्थिता ब्रह्मणि विश्वश्रीः प्रतिभामात्ररूपिणी।।[4-1-3]
एतदिति।। विश्वश्रीः कार्यकारणभावमन्तरेणैव प्रतिभामात्ररूपेम ब्रह्मणि तिष्ठतीत्येतद्रहस्यमिति भावः।।
एकं ब्रह्मचिदाकाशं सर्वात्मकमखण्डितम्।
इति भावय यत्नेन चेतश्चाञ्चल्यशान्तये।।[4-1-4]
एकं ब्रह्म भावयेत्युक्तम्।।
रेखोपरेखावलिता यथैका पीरवरी शिला।
तथा त्रैलोक्यवलितं ब्रह्मैकमिति दृश्यताम्।।[4-1-5]
भेदे प्रतीयमाने कथमैक्यमित्यत्राह-रेखेति।। तथाहि काचित्पीवरी गरीयसी गिरिशिला रेखोपरेखाभिर्वलिता व्याप्ता करितुरङ्गनरादिचित्रविचित्रदेवालयादिरूपेण प्रतीयमानतया सत्यपि भेदस्फुरणे वस्तुत एकैव तथा त्रैलोक्यवलितं त्रैलोक्यात्मना विवृतमपि ब्रह्म एकमेवेति दृश्यतां निश्चीयताम्।।
द्वितीयकारणाभावादनुत्पन्नमिदं जगत्।
तिष्ठति ब्रह्मणि स्फारे प्रतिभामात्ररूपधृक्।।[4-1-6]
द्वितीया।। इदं जगद्द्वितीयकारणाभावाद्ब्रह्मव्यतिरिक्तस्य द्वितीयस्य कारणस्याभावात् भावरूपकार्यारम्भकाणां समवाय्यसमवायिनिमित्तानामसंभवाद्धेतोरनुत्पन्नमेव। कथं तर्हि प्रतीयत इत्याह-स्फारे ब्रह्मणि प्रतिभामात्ररूपधृक्तिष्ठति। ब्रह्मण्यध्यस्ततया मरुमरीचिकायां तरङ्गिणीव प्रातिभासिकतया तिष्ठतीत्यर्थः।।
अत्र भार्गववृत्तान्तं कथयामि तवानघ।
अनुत्पन्नमिदं विश्वं येन चेतसि पश्यसि।।[4-1-7]
पुरा मन्दरशैलस्य सानौ कुसुमसंकुले।
अतप्यत तपो घोरं कस्मिंश्चिद्भगवान्भृगुः।।[4-1-8]
तमुपास्ते स्म तेजस्वी बालः पुत्रो महामतिः।
शुक्रः सकलच्द्राभः प्रकाशेनेव भास्करः।।[4-1-9]
विश्वस्य प्रतिभामात्ररूपत्वे भार्गववृत्तान्तं निदर्शयन्नाह-अत्रेत्यादिना।।[4-1-7,8,9]
विद्याविद्यादृशोर्मध्ये शुक्रोऽप्राप्तमहापदः।
त्रिशङ्कुरिव रोदस्योरवर्तत तदा किल।।[4-1-10]
निर्विकल्पसमाधिस्थे स कदाचित्पितर्यथ।
अव्यग्रोऽभवदेकान्ते जितारिरिव भूमिपः।।[4-1-11]
ददर्शप्सरसं तत्र गच्छन्तीं नभसः पथा।
मन्दारमालावलितां मन्दानिलचलालकाम्।।[4-1-12]
विद्येति।। तथाहि त्रिशङ्कुर्नाम राजा विश्वामित्रमहिम्नाचण्डालदेहेनैव स्वर्गं गच्छ्देवैर्निराकृतो रोदस्योर्द्यावापृथिव्योरन्तर्मध्य एव वर्तते। तथा शुक्रोऽप्यप्राप्तमहापदत्वादनधिगतब्रह्मभावत्वाद्विद्यादृष्टेरविद्यादृष्टेश्चान्तरालेऽवर्तत।।[4-1-10,11,12]
कान्तामालोक्य तस्याभूदुल्लासतरलं मनः।
अथ तां मनसा ध्यायंस्तत्रैवामीलितेक्षमः।।[4-1-13]
अथेति।। तामप्सरसम्।।
आरब्धवान्मनोराज्यमिदमेव किलोशनाः।
एषा हि ललना व्योम्नि सहस्रनयनालये।।[4-1-14]
संप्राप्तोऽयमहं स्वर्गमालोलसुरसुन्दरम्।
मन्दमन्मथमातङ्ग्य इमास्ताः सुरयोषितः।।[4-1-15]
देवेश्वरं निषेवन्ते वनं वनलता यथा।
इह तावदिमं शक्रमहमास्थानसुस्थितम्।।[4-1-16]
द्वितीयमिव त्रैलोक्यस्रष्टारमभिवादये।
इति संचिन्त्य शुक्रेण मनसैव शचीपतिः।।[4-1-17]
तेनाभिवादितस्तत्र द्वितीय इव खे भृगुः।
अथ सादरमुत्थाय शुक्रः शक्रेण पूजितः।।[4-1-18]
स्वर्गे विहर्तुमारेभे स्वर्वासिपरिमोदितः।
तत्र तां मृगशावाक्षीं कान्तामध्यगतामसौ।।[4-1-19]
ददर्श सापि तं राम दृष्ट्वा परवशाभवत्।
रसाद्विकसतोर्नूनमन्योन्यमनुरक्तयोः।
प्रातरर्कनलिन्योर्या शोभा सैव तयोरभूत्।।[4-1-20]
आरब्धवान्मनोराज्यमिति।। इतः परं वक्ष्यमाणः शुक्रवृत्तान्तो मानस एवेत्यर्थः।।[4-1-14,15,16,17,18,19,20]
अथ तां तादृशीं दृष्ट्वा शुक्रः संकल्पितार्थभाक्।
तमः संकल्पयामास संहारमिव भूतभुक्।।[4-1-21]
अथ सर्वेषु भूतेषु गतेष्वभिमतां दिशम्।
आजगाम भृगोः पुत्रं सा मयूरीव वारिदम्।।[4-1-22]
ततः कल्पलताकुञ्जे तौ विशश्रमतुः क्वचित्।
अथ चित्तविलासेन चिरसुप्रेक्षितैः श्रुतैः।।[4-1-23]
प्रणयैर्भार्गवस्यासीत्तुष्टये स समागमः।
अथावसदसौ शुक्रः पुरन्दरपुरे तया।।[4-1-24]
सुखं चतुर्युगान्यष्टौ हरिणेक्षणया सह।
पुण्ययानुसंधानात्पपातावनिमण्डले।।[4-1-25]
पतितस्यावनौ तस्य स्वपुरी स्मृतिमागता।
जीवश्चन्द्रमसं ज्योतिर्भृगुसूतो विवेशह।।[4-1-26]
प्रालेयतामुपेत्याशु शालितामगमत्ततः।
शालींस्तान्भुक्तवान्पक्वान्दशार्णेषु द्विजोत्तमः।।[4-1-27]
श शुक्रः शुक्रतामेत्य तद्भार्यातनयोऽभवत्।
ततो मुनीनां संसर्गात्तपस्युग्रे व्यवस्थितः।।[4-1-28]
अवसन्मेरुगहने मन्वन्तरमनिन्दितः।
तत्र तस्य समुत्पन्नो मृग्यां पुत्रो नराकृतिः।।[4-1-29]
तत्स्नेहेन परं मोहं पुनरप्याययौ क्षणात्।
पुत्रस्यास्य धनं मेऽस्तु गुणाश्चायुश्च शाश्वतम्।।[4-1-30]
इत्यनारतचिन्ताभिर्जहौ सत्यामवस्थितिम्।
धर्मचिन्तापरिभ्रंशात्पुत्रार्थं भोगचिन्तया।।[4-1-31]
क्षीणायुषं तमहरन्मृत्युः सर्प इवानिलम्।
भोगैकचिन्तया सार्धं स समुत्क्रान्तचेतनः।।[4-1-32]
प्राप्य मद्रेशपुत्रत्वमासीन्मद्रमहीपतिः।
अथान्यान्यपि जन्मानि समुपेत्य बहून्यपि।।[4-1-33]
जातः स गङ्गातीरस्थतपस्वितनयो मुनिः।
अथ कालेन महता पवनातपजर्जरः।।[4-1-34]
कायस्तस्य पपातोर्व्यां भृगुशुक्रसमुद्भवः।
रागद्वेषविहीनत्वात्तस्य पुण्याश्रमस्य तु।।[4-1-35]
महातपस्त्वाच्च भृगोर्न भुक्तो मृगपक्षिभिः।
अथ वर्षसहस्रेण दिव्येन परमेश्वरः।।[4-1-36]
भृगुः परमसंबोधाद्विरराम समाधितः।
नापश्यदग्रे तनयं विनयावनताननम्।।[4-1-37]
सीमान्ते गुणसीमायाः पुण्यं मूर्तमिव स्थितम्।
अपश्यत्केवलं कायकङ्कालं पुरतो महत्।।[4-1-38]
अथेति।। तामप्सरसं तादृशीमात्मानुरक्तां ज्ञात्वा संकल्पितार्थभाक्तया सह संभोगः संकल्पितोऽर्थः तं प्राप्तुमुद्यतः संस्तद्भोग्यकालकल्पनाया तमःसंकल्पयामास। भूतभूक् रुद्रः संहारमिव।।[4-1-21,22,23,24,25,26,27,28,29,30,31,32,33,34,35,36,37,38]
देहयुक्तमिवाभाग्यं दारिद्र्यमिव मूर्तिमत्।।[4-1-39]
अपश्यदिति श्लोकद्बयवाक्यम्। कायकङ्कालं शरीरास्थिपञ्जरम्।।
तापशुष्कवपुः कृत्तिरन्ध्रस्फुरिततित्तिरिम्।
संशुष्कान्तोदरगुहाच्छायाविश्रान्तदर्दुरम्।।[4-1-40]
तापेति।। तापेनातपेन शुष्का या वपुःकृत्तिर्देहस्य कृत्तिस्तस्या रन्ध्रेषु स्फुरितास्तित्तिरयः पक्षिविशेषा यस्मिन्। संशुष्का अन्ताः पर्यन्ता यस्यास्तस्या उदरगुहायाश्छायायां विश्रान्ता दर्दुरा मण्डूका यस्मिन्।।
प्रेक्ष्य तच्छुष्ककङ्कालमालानं दुःखदन्तिनः।
पूर्वापरपरामर्शमकुर्वन्भृगुरुत्थितः।।[4-1-41]
आलोक्य समकालं हि ज्ञात्वा पुत्रं मृतं भृगुः।
कालं प्रति चकाराशु कोपं परमदारुणम्।।[4-1-42]
अकाल एव मत्पुत्रो नीतः किमिति कोपतः।
कालाय शापमुत्स्रष्टुं भगवानुपचक्रमे।।[4-1-43]
अथाकलितरूपोऽसौ कालः कवलितप्रजः।
आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ।।[4-1-44]
खड्गपाशधरः श्रीमान्कुण्डली कवचान्वितः।
षड्‌भुजः षण्मुखो बाह्या वृतः किंकरसेनया।।[4-1-45]
स उपेत्य महाबाहो कुपितं तं महामुनिम्।
कल्पक्षुब्धाब्धिगम्भीरं सान्त्वपूर्वमुवाच ह।।[4-1-46]
त्वमनन्ततपा विप्रो वयं नियतिपालकाः।
तेन संपूज्यसे पूज्य साधो नेतरयेक्षया।।[4-1-47]
मा तपः क्षपयाबुद्धे कल्पकालमहानलैः।
यो न दग्धोऽस्मि मे तस्य किं त्वं शापेन धक्ष्यसि।।[4-1-48]
ब्रह्माण्डावलयो ग्रस्ता निगीर्णा रुद्रकोटयः।
भुक्तानि निष्णुवृन्दानि क्व न शक्ता वयं मुने।।[4-1-49]
भोक्तारो हि वयं ब्रह्मन्भोजनं युष्मदादयः।
स्वयं नियतिरेषा हि नावयोरेतदीहितम्।।[4-1-50]
प्रेक्ष्येति।। आलानं बन्धनस्तम्भम्।।[4-1-41,42,43,44,45,46,47,48,49,50]
नेह कर्ता न भोक्तास्ति दृष्ट्या नष्टकलङ्कया।
बहवश्चेह कर्तारो दृष्ट्या दृष्टकलङ्कया।।[4-1-51]
नेहेति।। नष्टकलङ्कया दृष्ट्या विशुद्धेन ज्ञानेन इह जगति कर्ता भोक्ता च नास्ति। आत्मनो निर्विकारतया कर्तृभोक्तृत्वासंभवाद्दृष्टकलङ्कया दृष्टया भ्रान्तिदर्शनेन तु जगति बहवः कर्तारो भोक्तारश्च कर्त्रादिभेदस्याविद्यापरिकल्पितत्वेन भ्रान्तत्वात्।।
पुष्पाणि तरुखण्डेषु भूतानि भुवनेषु च।
कर्मणायान्ति यान्तीह कल्पान्ते हेतुना विधेः।।[4-1-52]
क्वासौ ज्ञानमयी दृष्टिः क्व महत्त्वं क्व धीरता।
मार्गे सर्वप्रसिद्धेऽपि किमन्ध इव मुह्यसि।।[4-1-53]
स्वकर्मपरिपाकोत्थामविचार्य दशां मुने।
किं मूर्ख इव सर्वज्ञ मुधा मां शप्तुमिच्छसि।।[4-1-54]
पुष्पाणीति।। तरुखण्डेषु पुष्पाणीव भुवनेषु भूतानि प्राणिनः स्वकर्मणा आयान्ति यान्ति च। कल्पान्ते तु विधेर्ब्रह्मणोऽपि यो हेतुः प्रवृत्तिनिवृत्तिहेतुः काल ईश्वरेच्छा च तेन यान्त्यान्ति चेत्यर्थः।।[4-1-52,53,54]
मनो हि जीवनाज्जीवो निश्चायकतया तु धीः।
अहंकारोऽभिमन्तृत्वान्नानातां स्वयमेति हि।।[4-1-55]
तन्मनस्तव पुत्रस्य समाधौ त्वयि संस्थिते।
प्रयातं वैबुधं सद्म संत्यज्यौशनसं वपुः।।[4-1-56]
भृगोः पुत्रस्य चित्तमयं संसारं निरूपयितुं कालश्चित्तस्य महिमानं तावदाह सार्धेन श्लोकेन-चित्तमेवेति।। पुरुषो जीवः। कथं जीव इत्यत्राह-मनो हीति।। मन एव जीवनात्प्राणधारणाज्जीव इत्युच्यते। निश्चायकतया निश्चयहेतुत्वात् धीर्बुद्धिः। निश्चयात्मिका बुद्धिरिति लक्षणात्। अभिमन्तृत्वादहंसममाभिमानहेतुत्वादहंकारोऽपि।।[4-1-55,56]
असेवत मुने तत्र विश्वाचीं देवसुन्दरीम्।
अथ विप्रो दशार्मेषु कोसलेषु महीपतिः।।[4-1-57]
अथेत्यादिना सार्धश्लोकपञ्चकेन स्वर्गभोगानन्तरभाविनो जन्मभेदानाह-तत्र प्रथमान्तानि पदानि जन्मभेदपराणि सप्तम्यन्तानि तु देशभेदपराणीति द्रष्टव्यम्।।
धीवरोऽथ महाटव्यां हंसस्त्रिपथगातटे।
सूर्यवंशे नृपः पौण्ड्रः शौरः शाल्वेषु देशिकः।।[4-1-58]
धीवरो मत्स्यादिघातकः। देशिक आचार्यः।।
कल्पं विद्याधरः श्रीमान्धीमानथ मुनेः सुतः।
सौवीरेषु च सामन्तस्त्रिगर्ते शैवदेशिकः।।[4-1-59]
सामन्तो मण्डलेश्वरः।।
वंशगुल्मः किरातेषु हरिणश्रीश्च जाङ्गले।
सरीसृपस्तालतले तमाले वनकुक्कुटः।।[4-1-60]
अन्यास्वेव विचित्रासु वासनावशतः स्वतः।
विषमास्वेव पुत्रस्ते चचारान्तरयोनिषु।।[4-1-61]
वासुदेवाभिधानोऽसौ मुने विप्रकुमारकः।
तपश्चरति ते पुत्रः समङ्गासरितस्तटे।।[4-1-62]
जटावानक्षवलयी जितसर्वेन्द्रियभ्रमः।
तत्र वर्षशतान्यष्टौ संस्थितस्तपसि स्थिरे।।[4-1-63]
यदीच्छसि मुने द्रष्टुं तं स्वप्नाभं मनोभ्रमम्।
तत्समुन्मीलय ज्ञाननेत्रमाशु विलोकय।।[4-1-64]
इत्युक्ते जगदीशेन कालेन समदृष्टिना।
मुनिः स चिन्तयामास ज्ञानात्तत्तनयेहितम्।।[4-1-65]
ददर्श च मुहूर्तेन प्रतिभानवशादसौ।
पुत्रोदन्तमशेषेण बुद्धिदर्पणबिम्बितम्।।[4-1-66]
वंशगुल्मो वेणुस्तम्ब-। हरिमश्रीः हरिणरूपः। सरीसृपः सर्पः।।[4-1-60,61,62,63,64,65,66]
पुनर्मन्दसानुस्थां कालाकाराग्रसंस्थिताम्।
समङ्गायास्तटादेत्य विवेश स्वतनुं भॉगुः।।[4-1-67]
विस्मयस्मेरया दृष्ट्या कालमालेक्य कान्तया।
वीतरागमुवाचेदं वीतरागो मुनिर्वचः।।[4-1-68]
भगवन्भूतभव्येश बाला वयमनुज्ज्वलाः।
त्वादृशामेव धीर्देव त्रिकालामलदर्शिनी।।[4-1-69]
इत्युक्तो भगवान्कालो हसन्निव जगद्गतिः।
हस्तं हस्तेन जग्राह भृगुमिन्दुमिवांशुमान्।।[4-1-70]
अथ कालभृगू देवौ मन्दराचलकन्दरात्।
गन्तुं प्रवृत्ताववनौ समङ्गासरितस्तटे।।[4-1-71]
क्षणादेवापतुस्तत्र तौ तॉसमङ्गां तरङ्गिणीम्।
ददर्शाथ तटे तस्याः कस्मिंश्चित्तनयं भृगुः।।[4-1-72]
शान्तेन्द्रियं समाधिस्थमचञ्चलमनोमृगम्।
समालोक्य भृगोः पुत्रं कालः संकल्पवानभूत्।।[4-1-73]
विबुध्यतामयमिति समाधेर्विरराम सः।
उन्मील्य नेत्रे सोऽपश्यदग्रे कालभृगू प्रभू।।[4-1-74]
कदम्बलतिकापीठादथोत्थाय ननाम तौ।
मिथः कृतसमाचाराः शिलायां समुपाविशन्।।[4-1-75]
अथोवाच वचः शान्तं स समङ्गातटे द्विजः।
भवतोर्दर्शनेनाहमद्य निर्वृतिमागतः।।[4-1-76]
यो न शास्त्रेण तपसा न ज्ञानेन न विद्यया।
विनष्टो मे मनोमोहः क्षीणोऽसौ दर्शनेन वाम्।।[4-1-77]
न तथा सुखयन्त्यन्तर्निर्मलामृतदृष्टयः।
यथा प्रहर्षयन्त्येता महतामेव दृष्टयः।।[4-1-78]
चरणाभ्यामिमं देशं भवन्तौ भूरितेजसौ।
कौ पवित्रितवन्तौ नः शशाङ्कार्काविवाम्बरम्।।[4-1-79]
इत्युक्तवन्तं प्रोवाच भृगुर्जन्मान्तरात्मजम्।
स्मरात्मानं प्रबुद्धोऽसिनाज्ञोऽसीति रघूद्वह।।[4-1-80]
प्रबोधितोऽसौ भृगुमा जन्मान्तरदशां निजाम्।
मुहूर्तमात्रात्सस्मार ध्यानोन्मीलितलोचनः।।[4-1-81]
अथासौ विस्मयस्मेरमुखो मुदितमानसः।
वितर्कमन्थरां वाचमुवाच वदतांवरः।।[4-1-82]
अहो भ्रममयी दृष्टिर्जृम्भते कापि चेतसि।
यद्वशादिदमाभोगि जगज्जालं प्रवर्तते।।[4-1-83]
ज्ञातं ज्ञातव्यमधुना दृष्टं द्रष्टव्यमक्षतम्।
विश्रान्तोऽस्मि चिरं श्रान्तश्चिन्मात्रान्नास्ति किंचन।।[4-1-84]
पुनरिति।। कालाकाराग्रसंस्थितां कालशरीरपुरोभागवर्तिनीम्। भृगुर्ध्यानदृष्ट्या समङ्गातटं गत्वा पुनरेत्य स्वतनुं विवेशेत्यन्वयः।।[4-1-67,68,69,70,71,72,73,74,75,76,77,78,79,80,81,82,83,84]
उत्तिष्ठ तात गच्छामः पश्यामो मन्दरस्थिताम्।
तां तनुं नियतेर्द्रष्टुं कौतुकं विहराम्यहम्।
न समीहितमस्तीह नासमीहितमस्ति मे।।[4-1-85]
वसिष्ठ उवाच।।
विचारयन्तस्तत्त्वज्ञा इति ते जागतीर्गतीः।।[4-1-86]
समङ्गायास्त्रयः प्रापुः क्षणान्मन्दरकन्दरम्।
ददर्श भार्गवस्तत्र पूर्वजन्मोद्भवां तनुम्।।[4-1-87]
उवाच चेदं हे तात शुष्का तनुरियं हि सा।
या त्वया सुखसंभोगैः पुरा समभिलालिता।।[4-1-88]
पश्य विश्रान्तसंदेहं विगताशेषकौतुकम्।
निररतकल्पनाजालं कथं शेते सुखं वने।।[4-1-89]
उत्तिष्ठेति सार्धश्लोको वाक्यम्। नियतेर्दैवगतेः कौतुकं विलासं विहरामि गच्छामि। मे समीहितं इष्टं मेऽसमीहितमनिष्टं च नास्ति।।[4-1-85,86,87,88,89]
सर्वाशाज्वरसंमोहमिहिकाशरदागमे।
विचित्तत्वं विना नान्यच्छ्रेयः पश्यामि जन्तुषु।।[4-1-90]
त एव सुखसंभोगसीमानं समुपागताः।
महाधियः प्राप्तधियो ये याता विमनस्कताम्।।[4-1-91]
सर्वदुःखदशामुक्तां संस्थितां विगतज्वराम्।
दिष्ट्या पश्याम्यमननां वने तनुमिमामहम्।।[4-1-92]
अथाक्षिप्य वचस्तस्य कालः प्रोवाच भार्गवम्।
प्रविशेमां तनुं साधो नगरीमिव पार्थिवः।।[4-1-93]
गुरुत्वमसुरेन्द्राणां कर्तव्यमनया त्वया।
कल्याणमस्तु वां यामो वयं त्वभिमतां दिशम्।।[4-1-94]
इत्युक्त्वा मुञ्चतोर्बाष्पं तयोः सोऽन्तरधीयत।
गते तस्मिन्भगवति भार्गवो नियतेर्वशः।।[4-1-95]
विवेश तां तनुं हित्वा समङ्गाद्विजभावनाम्।
तस्यां प्रविष्टजीवायां पुत्रतन्वां महामुनिः।।[4-1-96]
चकाराप्यायनं मन्त्रैः स कमण्डलुवारिभिः।
सर्वा नाड्यस्ततस्तन्व्यस्तस्याः पूर्णा विरेजिरे।।[4-1-97]
अथ शुक्रः समुत्तस्थौ वहत्प्राणसमीरणः।
पुरोऽभिवादयामास पितरं पावनाकृतिम्।।[4-1-98]
ततस्तौ कानने तस्मिन्पावने भृगुभार्गवौ।
संस्थितौ मननोन्मुक्तौ निस्तरङ्गाविव ह्रदौ।।[4-1-99]
एवं ते भार्गवाख्यानं वर्णितं रघुनन्दन।
विचार्य सुदृढं चित्ते यथेच्छसि तथा कुरु।।[4-1-100]
इति श्रीयोगवासिष्ठसारे मोक्षोपाये स्थितिप्रकरणे भार्गवोपाख्यानं नाम प्रथमः सर्गः।। 1 ।।
सर्वेति।। सर्वेषामाशानिमित्तानां ज्वरसंमोहानां दुःखसंमोहानामेव मिहिकानां प्रालेयानां शरदागमं निवर्तकम्। विचित्तत्वं विमनस्कत्वम्।।[4-1-90,91,92,93,94,95,96,97,98,99,100]
इति संसारतरणीनाम्नि वासिष्ठविवरणस्थितिप्रकरणे शुक्रोपाख्यानं नाम प्रथमः सर्गः।। 1 ।।