सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ३

विकिस्रोतः तः
← सर्गः २ लघुयोगवासिष्ठः
सर्गः ३
[[लेखकः :|]]
सर्गः ४ →

भीमाद्युपाख्यानम्।।
तृतीयः सर्गः।।
वसिष्ठ उवाच।।
इदं मे स्यादिदं मे स्यादिति बुद्धिर्महामते।
स्वेन दौर्भाग्यदैन्येन न सत्यमुपतिष्ठति।।[4-3-1]
वेत्ति नित्यमुदारात्मा त्रैलोक्यमपि यस्तृणम्।
तं त्यजन्त्यापदः त्रैलोक्यमपि यस्तृणम्।
तं त्यजन्त्यापदः सर्वा मृगा इव जरत्तृणम्।।[4-3-2]
पूर्वं दामाद्युपाख्याने विवेकादहंममाभिमानाभ्यां संसारो वर्धत इत्युक्तम्, इदानीं भीमाद्युपाख्याने देहादावहंकारराहित्यं पुरुषार्थाय प्रकल्पत इति प्रतिपाद्यते। तत्रादौ हितमुपदिशति-इदमिति।। सर्वं जगदात्मन्येव वर्तते। सर्वात्मकश्चात्मा। एवं च सति स्वेनैव दौर्भाग्यदैत्येन दुर्भगोऽहमिति दीनभावेन इदं पुत्रादिकं मे स्यात् इदं क्षेत्रादिकं च मे स्यादिति या बुद्धिः तस्या हेतोः सत्यं ब्रह्म नोपतिष्ठति न संनिधत्ते। न प्रकाशत इत्यर्थः।।[4-3-1,2]
परिस्फुरति यस्यान्तर्नित्यं सत्यचमत्कृतिः।
ब्राह्ममण्डमिवाखण्डं लोकेशाः पालयन्ति तम्।।[4-3-3]
परीति।। यस्यान्तः सत्यचमत्कृतिः सत्यस्वरूपस्य ब्रह्मणोऽनुसंधानं नित्यं परिस्फुरति तं पुरुषं ब्रह्मगर्भत्वात्।। ब्रह्माण्डमिव लोकेशाः पालयन्ति। बहुमन्यन्त इत्यर्थः।।
येषां गुणेषु संतोषो रागो येषां श्रुतं प्रति।
सत्यव्यसनिनो ये च ते नराः पशवोऽपरे।।[4-3-4]
अथापदि दुरन्तायां नैव गन्तव्यमक्रमम्।
राहुरप्यक्रमेणैव पिबन्नप्यमृतं मृतः।।[4-3-5]
अवश्या वश्यतां यान्ति यान्ति सर्वापदः क्षयम्।
अक्षयं भवति श्रेयः क्रीतं येन गुणैर्यशः।।[4-3-6]
परमं पौरुषं यत्नमास्थायादाय सूद्यमम्।
यथाशास्त्रमनुद्वेगमाचरन्को न सिध्यति।।[4-3-7]
येषामिति।। ते उक्तगुणयुक्ता एव नराः पुरुषाः। अपरे पशव इत्यर्थः।।[4-3-4,5,6,7]
यथाशास्त्रं विहरता त्वरा कार्या न सिद्धिषु।
चिरकालं परा पक्वा सिद्धिः पुष्टफला भवेत्।।[4-3-8]
यथेति।। चिरकालं पक्वा सिद्धिः पुष्टफला सती परा उत्कृष्टा भवेदित्यन्वयः।।
वीतशोकभयायासमगर्धमपयन्त्रणम्।
व्यवहारो यथाशास्त्रं क्रियतां मा विनश्यताम्।।[4-3-9]
अनर्थायार्थसंपत्तिर्भोगौघो भवरोगदः।
आपदः संपदः सर्वाः सर्वत्रानादरो जयः।।[4-3-10]
आचारचारुचरितस्य विविक्तवृत्तेः संसारसौख्यफलदुःखदशास्वगृध्नोः।
आयुर्यशांसि च गुणाश्च सहैव लक्ष्म्या फुल्लन्ति माधवलता इव सत्फलाय।।[4-3-11]
वसिष्ठ उवाच।।
न तपांसि न तीर्थानि न शास्त्राणि जपन्ति हि।
संसारसागरोत्तारे सज्जनासेवनं विना।।[4-3-12]
लोभमोहरुषां यस्य तनुतानुदिनं भवेत्।
यथाशास्त्रं विहरति स्वकर्मसु स सज्जनः।।[4-3-13]
वीतेति।। अगर्धं अनाकाङ्क्षम्। गृधु अभिकाङ्क्षायामित्यस्माद्वातोः। अपयन्त्रणं अपगतकौटिल्यम्।।[4-3-9,10,11,12,13]
अहमर्थोऽपरिज्ञातः परमार्थाम्बरेऽमलः।
परिज्ञातोऽहमर्थस्तु परमार्थाम्बरं भवेत्।।[4-3-14]
चिज्ज्योत्स्ना यावदेवान्तरहंकारघनावृता।
विकासयति नो तावत्परमार्थकुमुद्वती।।[4-3-15]
चिज्ज्योत्स्नेति।। परमार्थकुमुद्वती परमार्थकैवल्यम्।।
अहंभावोऽङ्कुरो जन्मवृक्षाणामक्षयात्मनाम्।
ममेदमिति विस्तीर्णास्तेषां शाखास्त्वसत्फलाः।।[4-3-16]
राम उवाच।।
किमाकृतिरहंकारः कथं संत्यज्यते प्रभो।
सशरीरोऽशरीरश्च त्यक्ते तस्मिंश्च किं भवेत्।।[4-3-17]
वसिष्ठ उवाच।।
त्रिविधो राघवास्तीह सोऽहंकारो जगत्रये।
द्वौ श्रेष्ठावितरस्त्याज्यः शृणु ते कथयाम्यहम्।।[4-3-18]
अहं सर्वमिदं विश्वं परमात्माहमच्युतः।
नान्यदस्तीति संचिन्त्य परमा सा ह्यहंकृतिः।।[4-3-19]
एषा सा नैव बन्धाय जीवन्मुक्तस्य विद्यते।
सर्वस्माद्व्यतिरिक्तोऽहं वालाग्रशतकल्पितः।।[4-3-20]
इति या संविदेवासौ द्वितीयाहंकृतिः शुभा।
मोक्षायैषा न बन्धाय जीवन्मुक्तस्य विद्यते।।[4-3-21]
पाणिपादादिमात्रोऽयमहमित्येष निश्चयः।
अहंकारस्तृतीयोऽसौ लौकिकस्तुच्छ एव सः।।[4-3-22]
वर्ज्य एष दुरात्मासौ कन्दः संसारसंततेः।
अनेनाभिहतो जन्तुरधोऽधः परिधावति।।[4-3-23]
अहमिति।। जन्मनामेव वृक्षाणां अहंभाव एवाङ्कुरः ममेदमिति भावः। तेषां जन्मवृक्षाणां असत्फलाः दुःखफलाः शाखाः।।[4-3-16,17,18,19,20,21,22,23]
अनया दुरहंकृत्या भावात्संत्यक्तया चिरम्।
शिष्टाहंकारवाञ्जन्तुर्भवत्याशु विमुक्तये।।[4-3-24]
प्रथमौ द्वावहंकारावङ्गीकृत्यातिलौकिकौ।
तृतीयाहंकृतिस्त्याज्या लौकिकी दुःखदायिनी।।[4-3-25]
एषा तावत्परित्याज्या त्यक्त्वैनां दुःखदायिनीम्।
यथायथा पुमांस्तिष्ठेत्परमेति तथातथा।।[4-3-26]
अहंकृतिदृशावेते पूर्वोक्ते भावयन्यदि।
तिष्ठत्यभ्येति परमं तत्पदं पुरुषोऽनघ।।[4-3-27]
अथ ते अपि संत्यज्य सर्वाहंकृतिवर्जितः।
स तिष्ठति तथात्युच्चैः पदमेवाधिरोहति।।[4-3-28]
अनयेति।। अनया शरीरपरिमितात्मविषयतया दुरहंकृत्या भावादभिप्रायाच्चिरं संत्यक्तया सत्या शिष्टाहंकारवान् सर्वात्मकोऽहं सर्वातीतोऽहमिति च यौ द्वावहंकारौ शिष्टौ तद्वाञ्जन्तुर्मुक्ततां याति।।[4-3-24,25,26,27,28]
शरीरावस्था महापुण्या दुरहंकृतिवर्जनात्।
अत्यन्तं परमं श्रेय एतदेव परं पदम्।।[4-3-29]
वसिष्ठ उवाच।।
अथ ते शृणु वक्ष्यामि दामादिषु गतेष्वपि।
देवनिर्जितसैन्योऽसौ शम्बरो दृप्तमानसः।।[4-3-30]
पुनर्देववधोपायं चिन्तयामास दानवः।
दामादयो ये रचितास्ते मया मायया पुरा।।[4-3-31]
मोहात्तैर्भाविता बुद्धिर्मिथ्यैवान्तरहंकृतिः।
इदानीं संसृजाम्यन्यान्दानवान्माययोत्तमान्।।[4-3-32]
तानप्यध्यातमशास्त्रज्ञान्सविवेकान्करोम्यहम्।
ततस्तत्त्वपरिज्ञानान्मिथ्याभावनयोज्झिताः।।[4-3-33]
नाहंकारं प्रयास्यन्ति विजेष्यन्ते च ते सुरान्।
इति संचिन्त्य दैत्येन्द्रस्तादृशान्दानवान्धिया।।[4-3-34]
माययोत्पादयामास बुद्बुदानिव वारिधिः।
सर्वज्ञा वेद्यवेत्तारो वीतरागा गतैनसः।।[4-3-35]
याथाप्राप्तैककर्तारो भावितात्मान उत्तमाः।
भीमो भासो दृढ इति नामभिः परिलाञ्छिताः।।[4-3-36]
जगत्तृणमिवाशेषं पश्यन्तः पावनाशयाः।
ते दैत्येन्द्रवचः प्राप्य छादयामासुरम्बरम्।
अयुध्यन्त समं देवैरपि वर्षगणान्बहून्।।[4-3-37]
शारीरेति।। दुरहंकृतिवर्जनाद्दुरहंकारं पुर्वोक्तं वर्जयित्या या शरीरावस्था सा महापुण्या महतः पुण्यस्य हेतुः योगसाधनत्वात् परमं श्रेयः। परं पदमित्यपि एतदेव नान्यत् तत्साधनत्वात्।।[4-3-29,30,31,32,33,34,35,36,37]
तेषां यावदुदेत्यन्तर्ममेदमिति वासना।
तावत्कोऽयमहन्तेति विचाराद्यात्यसत्याताम्।।[4-3-38]
ततस्तैर्निरहंकारैर्जरामणनिर्भयैः।
प्राप्तार्थकारिभिर्विरैर्वर्तमानानुवर्तिभिः।।[4-3-39]
वीतरागैर्गतद्वेषैः सततं समदृष्टिभिः।।[4-3-40]
सा दैवी दानवैः सेना भीमभासदृढादिभिः।
हता भुक्ता क्षता प्लुष्टा स्वान्नश्रीरिव भोक्तृभिः।।[4-3-41]
भीमभासदृढक्षुण्णा ततो गीर्वाणवाहिनी।
परिदुद्राव वेगेन गङ्गेव हिमवच्च्युता।।[4-3-42]
सा सुरानीकिनी देवं क्षीरोदार्णवशायिनम्।
जगाम शरणं शैलं वातार्तेवाभ्रमालिका।।[4-3-43]
अथ देवेन ते दैत्याः सङ्गरे भृशदारुणे।
चक्राग्निज्वालनिर्दग्धाः प्रापिता वैष्णवीं पुरीम्।।[4-3-44]
तस्माद्वासनया बद्धं मुक्तं निर्वासनं मनः।
राम निर्वासनीभावमाहराशु विवेकतः।।[4-3-45]
सम्यगालोकनात्सत्याद्वासना प्रविलीयते।
वासनाविलये चेतः शाम्यत्यस्नेहदीपवत्।।[4-3-46]
इति श्रीयोगवासिष्ठसारे स्थितिप्रकरणे भीमाद्युपाख्यानं नाम तृतीयः सर्गः।। 3 ।।
तेषामिति।। तेषां भीमादीनां यावन्ममेदं अयमहमिति च वासनान्तरुदेति तावत्कालं सा वासना विचारात् स्वस्वरूपविचाराद्वेतोः असत्यता याति तेषां ब्रह्मवित्त्वादिदमहन्ते न स्थिरे इत्यर्थः।।[4-3-38,39,40,41,42,43,44,45,46]
इति श्रीमदल्लालसूरिसूनुना पदवाक्यप्रमाणपारावारपरादृश्वना श्रीमुम्मडिदेवविद्वदाचार्यविरचिते संसारतरणिनाम्नि वासिष्ठविवरणे स्थितिप्रकरणे भीमाद्युपाख्यानं नाम तृतीयः सर्गः।। 3 ।।