सामग्री पर जाएँ

लघुयोगवासिष्ठः/प्रकरणम् ४ (स्थितिप्रकरणम्)/सर्गः ४

विकिस्रोतः तः
← सर्गः ३ लघुयोगवासिष्ठः
सर्गः ४
[[लेखकः :|]]
सर्गः ५ →

दाशूराख्यानम्।।
चतुर्थः सर्गः।।
वसिष्ठ उवाच।।
अस्य संसारदुःखस्य सर्वोपद्रवकारिणः।
उपाय एक एवास्ति मनसः स्वस्य निग्रहः।।[4-4-1]
श्रूयतां ज्ञानसर्वस्वं श्रुत्वा चैवावधार्यताम्।
भोगेच्छामात्रको बन्धस्तत्त्यागो मोक्ष उच्यते।।[4-4-2]
पूर्वं भीमाद्युपाख्याने अहंकारपरित्यागः पुरुषार्थाय कल्पत इत्युक्तम्। इदानीं तदुपपादनाय जगत्स्थितेर्मायिकत्वं विशदं प्रतिपाद्यते। तत्र तावदुपायमुपदिशति-अस्येति।। संसारदुःखस्य दुःखयतीतिदुःखम्। दुःखहेतुरित्यर्थः। संसाररूपस्य दुःखहेतोरिति यावत्। दुःखत्वे हेतुः सर्वोपद्रवदायिन इति। उपायः निवृत्त्युपाय इत्यर्थः।।[4-4-1,2]
किमन्यैः शास्त्रसन्दर्भैः क्रियतामेतदेव तु।
यद्यत्स्वाद्विह तत्सर्वं दृश्यतां विषवह्निवत्।।[4-4-3]
विषया विषमाभोगाः प्रविचार्य पुनः पुनः।
मनसा संपरित्यज्य सेव्यमानाः सुखावहाः।।[4-4-4]
किमिति।। इदं जगति यद्वस्तु स्वादु मनसः प्रियं प्रतीयते तत्सर्वं विषवद्वह्निवच्च दृश्यतां संतापहेतुत्वादहितमिति विचार्यताम्।।[4-4-3,4]
मनसोऽभ्युदयो नाशो मनोनाशो महोदयः।
ज्ञमनो नाशमभ्येति मनोऽज्ञस्य हि श्रृङ्खला।।[4-4-5]
मनसः अभ्युदयः अभित उदयः। विस्तार इत्यर्थः। स मनोऽभ्युदयो नाशः स्वरूपादर्शनहेतुत्वात्। मनोनाशस्तु आत्मनो महोदयः निःश्रेयसहेतुत्वात्। ज्ञस्य ज्ञानिनो मनोनाशमभ्येति अज्ञस्य तु मन एव श्रृङ्खला।।
नानन्दं न निरानन्दं न चलं नाचलं स्थिरम्।
न सन्नासन्न चैतेषां मध्यं ज्ञानिमनो विदुः।।[4-4-6]
श्रीराम उवाच।।
यथेदं संस्थितं विश्वं विश्वातीते चिदात्मनि।
तन्मे कथय हे ब्रह्मन्पुनर्बोधविवृद्धये।।[4-4-7]
नेति।। ज्ञानिनो मनो निर्वासनत्वाद्व्यवहारहेतुत्वाच्च किमित्यपि निरूपयितुं न शक्यते। तथाहि। न तावदानन्दात्मकं जडत्वात्। न च निरानन्दं आनन्दानुभवहेतुत्वात्। न चलं आत्मैकनिष्ठत्वात्। नाचलं स्थिरं नियतं यथा भवति तथा बहिरपि स्फुरणात्। न सत् संकल्पादेस्तत्कार्यस्याभावात्। नासत् इन्द्रियाणां विषयेषु प्रवर्तनात्। न चैतेषामानन्दनिरानन्दादीनां मध्यं परस्परविरोधे पक्षान्तरानुदयात्। तस्मादनिर्वचनीयं ज्ञानिमनो विदुरित्यर्थः।।[4-4-6,7]
वसिष्ठ उवाच।।
यथा सर्वगतः सौक्ष्म्यादाकाशो नोपलक्ष्यते।
तथा निरंशश्चिद्भावः सर्वगोऽपि न लक्ष्यते।।[4-4-8]
विश्वस्य विवर्तभावेन चिदात्मनावस्थानेन हि दर्शयितुं चित्स्वरूपनिरूपणाय दुर्लक्ष्यत्वं तावदाह-यथेति।। चिदाभासश्चित्प्रकाश्यो भूताकाशः सौक्ष्यान्निरवयवत्वाद्यथा नोपलक्ष्यते तथा चिद्भावश्चिद्रूपः पदार्थः सर्वगोऽपि निरंशत्वान्नोपलक्ष्यते।।
सर्वसंकल्परहिता सर्वसंज्ञाविवर्जिता।
सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा।।[4-4-9]
सर्वेति श्लोकद्वयं वाक्यम्। वस्तुतः सर्वसंज्ञाविवर्जितापि सैषा चित् स्वात्मेत्यादिकृताभिधा। स्वमित्यात्मेति चेतन इत्येवमादिभिः शब्दैः कल्पितसंज्ञेत्यर्थः।।
आकाशशतभागाच्छा ज्ञेषु निष्कलरूपिणी।
सकलामलसंसाकस्वरूपैकात्मदर्शिनी।।[4-4-10]
आकाशात् शतेन बागैरच्छा शतगुणाच्छेत्यर्थः। ज्ञेषु ज्ञानिषु निष्कलरूपिणी निष्कलङ्कस्वरूपा। सकलाज्ञनिष्ठायाः पूर्वमभिधानादज्ञेषु सकलङ्का अतएव मलसंसारस्वरूपैकात्मदर्शिनी मलमज्ञानं संसारस्तथा कार्यं तयोः स्वरूपेण सह एकः ऐक्यापन्नो य आत्मा तथाभूतं आत्मानं दर्शयन्ती अज्ञानतत्कार्याभ्यामभिन्नमात्मानं दर्शयन्तीत्यर्थः। मलसंसारस्वरूपेणात्मदर्शिनीति पाठेऽपि स एवार्थः। मलसंसारयोः स्वरूपेण अभिन्नं आत्मानं दर्शयतीति।।
तरङ्गादिमयी स्फारा नानाता सलिलार्णवे।
तस्मान्न व्यतिरेकेण यथा भाति विसारिणी।।[4-4-11]
तरङ्गेतिश्लोकद्वयं वाक्यम्। अर्णवे तरङ्गफेनबुद्बुदादिस्वरूपा गतिवशाद्विसारिणी नानारूपता यथा तस्मादर्णवादव्यतिरेकेण प्रकाशते।।
त्वत्तामत्तामयी स्फारा नाना सेयं चिदर्णवे।
चिन्मात्रा व्यतिरेकेण तथैवेत्थं प्रकाशते।।[4-4-12]
तथा त्वत्तामत्तामयी स्फारेयं नाना मता अपि चिदर्णवे चिन्मात्राव्यतिरेकेणैव प्रकाशत इत्यन्वयः।।
अज्ञेष्वसत्स्वभावोग्रसंसारगणगर्भिणी।
ज्ञेषु प्रकाशरूपैव सकलैकात्मिका सती।।[4-4-13]
अज्ञेष्विति श्लोकत्रयं वाक्यम्। अज्ञेषु असत्स्वभावा रागद्वेषादिकालुष्याद्दुःखभावा अतएवोग्रसंसारगणगर्भिणी घोरेण संसृतिसमूहेन गर्भवति। संसारपरम्पराहेतुरित्यर्थः। ज्ञेषु तु प्रकाशरूपा विशुद्धज्ञानरूपैव सकलैकात्मिका सर्वत्राभिन्नस्वभावा सती।।
अनुभूतिवशान्नित्यं कर्मादिनां प्रकाशिनी।
स्वादिनी सर्वभावानां भावनी भवभोगिनाम्।।[4-4-14]
अनुभूतीति।। अनुभूतिवशात्तत्तद्विषयानुभववशात् स्तूनां स्वादनी रसज्ञानहेतुः। भवभोगिनां संसारिणां भावनी प्रवृत्तिहेतुः एवंभूता चित्।।
नास्तमेतिन न चोदेति नोत्तिष्ठति न तिष्ठति।
न च याति न चायाति न चेह न च नेह चित्।।[4-4-15]
नास्तमेति न चोदेति नित्यत्वात्। नोत्तिष्ठति न तिष्ठति निर्विकारत्वात्। न च याति न चायाति निष्क्रियत्वात्। न चेह वर्तते निराधारत्वात्। न च नेह वर्तते परिपूर्णत्वात्।।
सैषा चिदामलाकारा स्वयमात्मनि संस्थिता।
राघवेयं प्रपञ्चेन जगन्नाम्ना विजृम्भते।।[4-4-16]
सेति।। सैषा पूर्वोक्ता चिन्निर्मलाकारा स्वात्मन्येव संस्थिता इत्थं जगन्नाम्ना प्रपञ्चेन विजृम्भते।।
तत्स्वभावेन चिन्नाम्ना सर्वगेनोदितात्मना।
प्रकाशेनाप्रकाशेन निरंशेनांशधारिणा।।[4-4-17]
स्वयं स्वकल्पनायोगादनन्तं पदमुज्झता।
अयमस्मीति भावेन गच्छता ज्ञपदं शनैः।।[4-4-18]
तदिति सार्धश्लोकत्रयं वाक्यम्। तत्पूर्वोक्तं चिद्रूपं परं वस्तु सर्वगेन परिपूर्णेन उदितात्मना अनस्तमितरूपेम प्रकाशेनाप्रकाशेन ज्ञानज्ञानरूपेण निरंशेनांशधारिणा निरवयवसावयवरूपेण स्वकल्पनायोगात् स्वसंकल्पवाशात् स्वयमेव अनन्तपदं स्वस्वरूपावस्थानमुज्झता अयमस्मीति भावेन उपहिताकाराभिमानेन अज्ञपदं जीवभावं गच्छता चिन्नाम्ना स्वभावेन संसृतिपूर्वकम्।।[4-4-17,18]
नानातायां प्रवृद्धायामस्यां संसृतिपूर्वकम्।
भावाभावग्रहोत्सर्गपदे स्थितिमुपागते।
पुर्यष्टकं स्पन्दशतैः करोति न करोति च।।[4-4-19]
इत्थं स्थिरबलाकाराः संसारावलयोऽभितः।
स्वभावाद्ब्रह्मणः सर्वाः पुनरायान्ति यान्ति च।।[4-4-20]
नानातायां प्रवृद्धायां सत्यां भावाभावग्रहोत्सर्गपदे इदं भावरूपमिदमभावरूपमिदं गृहीतमिदमुत्सृष्टमित्येवंरूपे भेदपदे स्थितिमुपागते सति स्पन्दशतैर्विकल्पगतैः पुर्यष्टकं वक्ष्यमाणलक्षणं सूक्ष्मशरीरं करोति न करोति च। वस्तुतः कारणाभावात्।।[4-4-19,20]
व्योमन्येव चिदाभासे निधाघात्सरितो यथा।
लक्ष्यन्ते तद्वदेवेमाश्चित्तत्वे सृष्टिदृष्टयः।।[4-4-21]
व्योमनीति।। यथा निदाघानन्तरं व्योम्नि सरितो वृष्टयो लक्ष्यन्ते तद्वन्निराभासे निष्कलङ्के चित्तत्वे सृष्टिरूपा दृष्टय इत्यर्थः।।
यथा मदवशादात्मा अन्यवत्प्रतिभासते।
तथैव चित्त्वाविद्यातः स एवाऽस इति स्थितः।।[4-4-22]
यथेति।। यता ह्यात्मा मदवशात्संमोहानन्दसंभेदो मदिराकृतो मदः तद्वशात्स्वस्मादन्यवत्प्रतिभासते तथैव चित्त्वस्याविद्यातः चित्स्वरूपाज्ञानाद्धेतोः स एवात्मा अस इव तस्मादन्य इव स्थितः।।
येन शब्दं रसं रूपं गन्धं जानासि राघव।
सोऽयमात्मा रसंपरंब्रह्म सर्वमापूर्य संस्थितः।।[4-4-23]
येनेति।। बाह्येन्द्रियप्रणालिकया बहिः प्रसृतेन येन चैतन्येन शब्दादीन्विषयाञ्जानासि सोऽयं तादृशचैतन्यरूपोऽयमात्मा परंब्रह्म स एवात्मा सर्वमापूर्य संस्थितः।।
ब्रह्मैवेदं स्थितं नाम्ना मलमस्तीह नेतरत्।
तरङ्गोग्रगणैरम्भः सिन्धोः स्फुरति नो रजः।।[4-4-24]
ब्रह्मेति।। ब्रह्मैव नाम्ना वियदादिनामभेदेन इदं जगत्स्थितम्। जगद्रूपेण स्थितमित्यर्थः। इह मलं अविद्यातत्कार्यरूपं इतरत् ब्रह्मणो व्यतिरिक्तं किंचिन्नास्ति। तथाहि।। सिन्धोस्तरङ्गोग्रगणैः अम्भ एव स्फुरति नो रजः। रज इत्युपलक्षणम्। न वस्त्वन्तरं स्फुरतीत्यर्थः।।
द्वितीया कल्पनैवेह न रघूद्वह विद्यते।
ब्रह्ममात्रादृते वह्नावौष्ण्यमात्रादृते यथा।।[4-4-25]
द्वितीयेति।। यथा वह्नावैष्ण्यादृते द्वितीया कल्पना न विद्यते एवमिह जगति सच्चिदानन्दात्मकं यद्ब्रह्मरूपं तन्मात्रादृते द्वितीया कल्पना नास्ति।।
आदौ शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत्।
पश्चात्सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत्।।[4-4-26]
इत्थं चेतनाचेतन प्रपञ्चस्य चिद्विवर्ततया तदभेदं निरूप्याधिकारिणस्तादृशस्यैवायमर्थः परिस्फुरतीति दर्शयितुमाह-आदाविति।। आदौ शमादिसाधनचतुष्टयसम्पत्तिं परीक्ष्य पश्चादधिकारिणं बोधयेदित्यर्थः।।
अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत्।
महानरकजालेषु स तेन विनियोजितः।।[4-4-27]
अनधिकारिबोधे तु महान्प्रत्यवाय इत्याह-अज्ञस्येति।। सः अज्ञः तेन। बोधकेन।।
प्रबुद्धबुद्धेः प्रक्षीणभोगेच्छस्य निराशिषः।
नास्त्यविद्यामलमिति त्वादृशस्यैव गोचरः।।[4-4-28]
प्रबुद्धेति।। निराशिषः निःसंकल्पस्य त्वादृशस्यैव अविद्यामलं नास्तीति बोधो गोचरः योग्य इत्यर्थः।।
सति दीप इवालोकः सत्यर्क इव वासरः।
सति पुष्प इवामोदश्चिति सत्यां जगत्तथा।
प्रतिभासत एवेदं न जगत्परमार्थतः।।[4-4-29]
सतीति।। दीपालोकादिवच्चिज्ज्गतोरपि कार्यकारणत्वात् न परस्परं वियोगोऽयुतभावः()।।
राम उवाच।।
क्षीरोदकुक्षितुल्याभिः शीतलामलदीप्तिभिः।
तवोक्तिभिर्विचित्राभिर्गम्भीराभिः प्रबोधितः।।[4-4-30]
क्षणमन्ध्यमिवाप्नोमि क्षणं यामि प्रकाशताम्।
शीतातपलवप्रावृड्लोलाभ्र इव वासरः।।[4-4-31]
क्षीरोदेति श्लोकद्वयं वाक्यम्। शीतलवैरातपलवैश्चोपलक्षितः प्रावृडूलोलाभ्रः पावृषि वर्षाकाले लोलान्यभ्राणि यस्मिन्स वासर इव क्षणमान्ध्यमवाप्नोमि क्षणं प्रकाशतां यामीत्यन्वयः।।[4-4-30,31]
अनन्तस्याप्रमेयस्य सर्वस्यैकस्य भास्वतः।
अनस्तमितसारस्य कलना कथमागता।।[4-4-32]
अनन्तस्येति।। सर्वस्य सर्वात्मकस्य एकस्याद्वितीयस्य भास्वतः नित्यं प्रकाशमानस्य अनस्तमितसारस्य अनष्टशक्तेः कलना बन्धहेतुरविद्या कथमागता तेजसस्तिमिरावरणासंभवादिति भावः।।
वसिष्ठ उवाच।।
यताभूतार्थवाक्यार्थाः सर्वा एव ममोक्तयः।
नासमर्था विरूपार्थाः पूर्वापरविरोधतः।।[4-4-33]
यथेति।। ममोक्तयः सर्वा एव यथाभूतार्थवाक्यार्थाः विसंवादिवाक्यार्था एव। असमर्था असंगतार्थस्तु न भवन्ति पूर्वापरविरोधतो विरूपार्था विपरीतार्थाश्च न भवन्ति।।
ज्ञानदृष्टौ प्रसन्नायां प्रबोधे विततोदये।
यथावञ्ज्ञास्यसि स्वस्थो मद्वाग्दृष्टिबलाबलम्।।[4-4-34]
यद्येवं तर्हि किमिति तथा न प्रतीयत इत्यत्राह-ज्ञानेति।। मद्वाग्दृष्टिलाबलं मम वाचां तन्मूलभूताया दृष्टेर्ज्ञानस्य च बलाबलं प्रामाण्याप्रामाण्यं च।।
अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्थया।
विद्या सा प्राप्यते राम सर्वदोषापहारिणी।।[4-4-35]
शाम्यति ह्यस्त्रमस्त्रेण मलेन क्षाल्यते मलः।
शमं विषं विषेणैति रिपुणा हन्यते रिपुः।।[4-4-36]
अविद्ययेति।। उत्तमया परिपक्वया स्वात्मनाशोद्यमोत्थया स्वस्वरूपनाशाय य उद्यमस्तेनोदितया चरमसाक्षात्काररूपया अप्यविद्यया विद्यापरिणामरूपत्वादविद्यायाः स्वात्मनाशोद्यमोत्थत्वं वेदितव्यम्।।[4-4-35,36]
ईदृशी भूतमायेयं या स्वनाशेन हर्षदा।
न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति।।[4-4-37]
ईदृशीति।। भूतमाया प्राणिनामविद्या। भवमायेतिपाठे भवः हर्षदा ब्रह्मानन्ददयिनी। अस्याः स्वरूपं पु लक्ष्यते द्रष्टुं न शक्यते। यतः प्रेक्ष्यमाणैव नश्यति असत्यत्वादिति भावः।।
नास्त्येषा परमार्थेनेत्येवं बावनयेद्धया।
ज्ञो भूत्वा ज्ञेयसंप्राप्त्या ज्ञास्यस्यस्यास्त्वमाशयम्।।[4-4-38]
यावत्तु न प्रबुद्धत्वं तावन्मद्वचसैव ते।
निश्चयो भवतूद्दामो नास्त्यविद्येति निश्चलः।।[4-4-39]
सर्वं ब्रह्मेति यस्यान्तर्भावना स हि मुक्तभाक्।
भेददृष्टिरविद्येयं सर्वथा तां विवर्जयेत्।।[4-4-40]
नास्तीति। ज्ञेयसंप्राप्त्या ज्ञेयस्य ब्रह्मात्मैक्यस्य संप्राप्त्या। अस्या अविद्यायाः। आशयं स्वभावम्।।[4-4-38,39,40]
अविद्यासरितः पारमात्मलाभादृते किल।
राम नासाद्यते तद्धि पदमक्षयमुच्यते।।[4-4-41]
अविद्येति।। आत्मलाभादृते स्वरूपसाक्षात्कारमन्तरेण अविद्यासरितः पारं नासाद्यते। अविद्यानिवृत्तिर्न सिध्यतीत्यर्थः। हि यस्मात्कारणात्तत् सत् अविद्यापारमेव अक्षयं पदं कैवल्यमुच्यते।।
कुतो जातेयमिति ते राम मास्तु विचारणा।
इमां कथमहं हन्मीत्येषा तेऽस्तु विचारणा।।[4-4-42]
कुत इति श्लोकत्रयं वाक्यम्। इयमविद्या कुतो जातेति विचारणा मास्तु निष्प्रयोजनत्वात्। एषा अविद्या भूयो जन्मदुःखेषु यथा त्वां न नियोक्ष्यति तथा इमामविद्यां कथं हन्मीत्येषैव विचारणा तेऽस्तु अस्या एव सप्रयोजनत्वात्।।
अस्तं गतायां क्षीणायामस्यां ज्ञास्यसि राघव।
यत एषा यथा चैषा यथा नष्टेत्यखण्डितम्।।[4-4-43]
सप्रयोजनत्वमेवाह-अस्तमिति।। अस्यामविद्यायां क्षीणायामस्तं गतायां सत्यां एषा अविद्या यत उद्भूता स्वरूपेण च यथा भूता यथा च नष्टेत्याद्यखण्डितं अखिलं ज्ञास्यसि।।
तदस्या रोगशालाया यत्नं कुरु चिकित्सने।
यथैषा जन्मदुःखेषु न भूयस्त्वां नियोक्ष्यति।।[4-4-44]
तत्तस्मात्कारणाद्रोगशालाया रोगादीनां आस्पदभूताया अस्या अविद्यायाश्चिकित्सने यत्नं कुर्वित्यन्वयः।।
आत्मन्येवात्मना व्योम्नि यथा सरति मारुतः।
तथात्मा स्वात्मशक्त्यैव स्वात्मन्येवैति लोलताम्।।[4-4-45]
आत्मनीति।। व्योम्नि मारुतो यथा आत्मन्येव नाश्रयान्तरेण आत्मनैव न हेत्वन्तरेण सरति गच्छति तथा आत्मापि स्वात्मशक्त्यैव स्वाभिन्नया चिच्छक्त्यैव स्वात्मन्येव लोलतां जगद्रूपतामेति।आत्मैव जगतोऽधिकरणमुपादानं निमित्तं चेत्यर्थः।।
स्वात्मनि स्वपरिस्पन्दैः स्फुरत्यच्छश्चिदर्णवः।
एकात्मकमखण्डं तदित्यन्तर्भाव्यतां दृढम्।।[4-4-46]
स्वात्मनीति।। चिदर्णवः स्वपरिस्पन्दैः स्वरूपविक्षेपैः आत्मन्येव स्फुरति अतः कारणात्तद्वस्तु एकात्मकमखण्डं चेत्यन्तर्दृढं भाव्यतां विचार्यताम्।।
किंचित्क्षुभितरूपा सा चिच्छक्तिश्चिन्महार्णवे।
तन्मय्येव स्फुरत्यच्छा तत्रैवोर्मिरिवार्णवे।।[4-4-47]
किंचिदिति।। चिन्महार्णवे सा अविद्यारूपा चिच्छक्तिः किंचित्क्षुभितरूपा सती तन्मय्येव चिद्रूपैव तत्रैव स्फुरति अर्णवे ऊर्मिरिवेति।।
क्षणं स्फुरन्ती सा देवी सर्वशक्तितया तथा।
देशकालक्रियाशक्तीर्वयस्याः संप्रकर्षति।।[4-4-48]
क्षममिति।। सा चिद्रूपा देवी सर्वशक्तितया अनन्तशक्तित्वात्क्षणं तथा स्फुरन्ती वयस्याः सखीरिव सहचारिणीर्देशकालक्रियाशक्तीः संप्रकर्षति प्रेरयति सृष्ट्यर्थं प्रवर्तयति।।
स्वस्वभावं विदित्वोच्चैरप्यनन्तपदे स्थिता।
रूपं परिमितेनासौ भावयत्यविभाविता।।[4-4-49]
स्वमिति।। असौ चिद्देवी स्वस्वभावं स्वस्वरूपं विदित्वा उच्चैरुन्नते अनन्तपदे कैल्यपदे स्थितापि अविभाविता प्रमत्ता विचाररहिता सती रूपं स्वरूपं परिमितेन परिच्छिन्नेनात्मना भावयति।।
यदैवं भावितं रूपं तया परमकान्तया।
तदैवैनामनुगता नामसंख्यादिका दृशः।।[4-4-50]
यदेति।। परमकान्तया देव्या यदा रूपमेवं परिमितत्वेन भावितं तदैवैनां देवीं नामसंख्यादिका दृशो दृष्टयोऽनुगता भवन्ति।।
विकल्पकल्पिताकारं देशकालक्रियास्पदम्।
चितो रूपं महाबाहो क्षेत्रज्ञ इति कथ्यते।।[4-4-51]
नामसंख्यादिभेदमेव प्रपञ्चयितुमाह सार्धेन श्लोकत्रयेण-विकल्पेति।। विकल्पकल्पिताकारं संकल्पविकल्पाद्युपहिताकारं देशकालक्रियास्पदं देशकालादिभिरवच्छिन्नं चितो रूपं क्षेत्रज्ञ इति कथ्यते। क्षेत्रज्ञो जीवः।।
वासनाः कलयन्सोऽपि यात्यहंकारतां पुनः।
अहंकारो विनिर्णेता कलङ्की बुद्धिरुच्यते।।[4-4-52]
स क्षेत्रज्ञोऽपि वासनाः कल्पयन्भावयन्नहंकारतां याति। अहंकारोऽपि वासनाभिः बुद्धि'रितिवचनात्।।
बुद्धिः संकल्पकलिता प्रयाति मननास्पदम्।
मनो घनविकल्पं तु गच्छतीन्द्रियतां शनैः।
पाणिपादादिमद्देहमिन्द्रियाणि विदुर्बुधाः।।[4-4-53]
बुद्धिरपि संकल्पादिभिः कलिता मननास्पदं स्पन्दनं प्रयाति। मनश्च घनविकल्पं निबिडविकल्पं सदिन्द्रियतां बाह्येन्द्रियत्वं गच्छति। इन्द्रियाणि च पाणिपादमयं देहं विदुः। इन्द्रियाण्येव देह इत्यर्थः।।
एवं जीवो हि संकल्पवासनारज्जुवेष्टितः।
दुःखजालपरितात्मा क्रमादायाति नीचताम्।।[4-4-54]
एवमिति।। एवमुक्तेन प्रकारेण संकल्पवासनारज्जवेष्टितः सन् जीव एव दुःखजालपरीतात्मा क्रमान्नीचतामायाति।।
इति शक्तिमयं चेतो घनाहंकारतां गतम्।
कोशकारकृमिरिव स्वेच्छया याति बन्धनम्।।[4-4-55]
इतीति।। इति पूर्वोक्तप्रकारेण संकल्पशक्तिमयं विचित्रशक्तिकं चेतः चिदेव घनाहंकारं सत् कोशकारकृमिवत्स्वेच्छयैव बन्धनं याति।।
स्वसंकल्पिततन्मात्रं जालाभ्यन्तरवर्ति च।
परां विवशतामेति श्रृङ्खलाबद्धसिंहवत्।।[4-4-56]
स्वेति।। तदेव चेतः स्वेन संकल्पितानां तन्मात्राणां शब्दादीनां जालस्याभ्यन्तरवर्ति च भूत्वा शृङ्खलाबद्धसिंहवत् परां विवशतामेति।।
क्वचिन्मनः क्वचिद्बुद्धिः क्वचिज्ज्ञानं क्वचित्क्रिया।
क्वचिदेवेत्यहंकारः क्वाचित्पुर्यष्टकं स्मृतम्।।[4-4-57]
क्वचित्प्रकृतिरित्युक्तं क्वचिन्मायेति कल्पितम्।
क्वचिन्मलमिति प्रोक्तं क्वचित्कर्मेति संस्थितम्।।[4-4-58]
क्वचिद्बन्ध इति प्रोक्तं क्वचिच्चित्तमिति स्फुटम्।
प्रोक्तं क्वचिदविद्येति क्वचिदिच्छेति संमतम्।।[4-4-59]
क्वचिदिति श्लोकत्रयं वाक्यम्। नानाशक्तिषूक्तमेतदेव चैतन्यं मनोबुद्ध्यादिरूपेण नानात्वं प्रतिपद्यत इत्यर्थः।।[4-4-57,58,59]
इमं संसारमखिलमाशापाशविधायकम्।
दधदन्तः फलैर्हीनं वटधाना वटं यथा।।[4-4-60]
इममिति सार्धश्लोकद्वयं वाक्यम्। वटधाना वटबीजं कर्तृ वटमिव आशापाशविधायकं फलैर्हीनं नश्वरफलं इमं संसारमन्तरभ्यन्तरे दधत्।।
चिन्तानलशिखादग्धं कोपाजगरचर्वितम्।
कामाब्धिकल्लोलहतं विस्मृतात्मपितामहम्।
समुद्धर मनो राम मातङ्गमिव कर्दमात्।।[4-4-61]
चिन्ताभिरेवानलशिखाभिर्दग्धं कोपेन चाजगरेण सर्पेण चर्वितं भक्षितं कामैरेवाब्धिकल्लोलैर्हतं विस्मृत आत्मा पितामहश्च येन तथाभूतं मनो मातङ्गमिव कर्दमात्सं साररूपात्सकाशात्समुद्धर।।
ज्वलज्जरामरणविषादमूर्च्छिते शुभाशुभप्रसरपराहताकृतौ।
दयेह न स्वमनसि यस्य जायते नराकृतिर्जगति स राम राक्षसः।।[4-4-62]
ज्वलदिति।। ज्वलद्भिर्जरामरणविषादैर्मूर्च्छिते शुभाशुभयोः पुण्यपापयोः प्रसरेण पराहता आकृतिर्यस्य तस्मिन् स्वमनसि यस्य दया उद्धर्तुमिच्छा न जायेत स नराकृती राक्षस एव।।
वसिष्ठ उवाच।।
एवं जीवाश्चितो भावा भवभावनयेहिताः।
ब्रह्मणः कल्पिताकारा लक्षशोऽप्यथ कोटिशः।।[4-4-63]
एवमिति नवभिः श्लोकैर्वाक्यम्।। निर्झरात्प्रवाहाज्जलौघा इव कल्पिताकारान्मायासहिताद्ब्रह्मणः सकाशाद्भवभावनया संसारवासनया सहिताः जीवरूपाश्चितो भावा विलासा लक्षशः कोटिशः।।
संख्यातीताः पुरा जाता जायन्तेऽद्यापि चाभितः।
उत्पत्स्यन्तेऽपि चैवान्ये जलौघा इव निर्झरात्।।[4-4-64]
केचित्प्रथमजन्मानः केचिज्जन्मशताधिकाः।
केचिच्चासंख्यजन्मानः केचिद्द्वित्रिभवान्तराः।।[4-4-65]
केचित्किन्नरगन्धर्वविद्याधरमहोरगाः।
केचिदर्केन्दुवरुणत्र्यक्षाधोक्षजपद्मजाः।।[4-4-66]
केचिद्ब्राह्मणभूपालवैश्यशूद्रगणाः स्थिताः।
केचित्पुण्यौषधीपत्रफलमूलपतङ्गकाः।।[4-4-67]
केचित्कदम्बजम्बीरशालतालतमालकाः।
केचिन्महेन्द्रमलयाः सह्यमन्दरमेरव।।[4-4-68]
केचित्क्षारदधिक्षीरघृतेक्षुजलराशयः।
केचिद्विशालाः ककुभः केचिन्नद्यो महारयाः।।[4-4-69]
विहरन्त्युच्चकैः केचिन्निपतन्त्युत्पतन्ति च।
कन्दुका इव हस्तेन मृत्युनाविरतं हताः।।[4-4-70]
संख्यातीताश्च पुरा जाताः अद्यापि जायन्ते उत्पत्स्यन्तेऽपि चज तेच जन्मकालपैर्वापर्यात्पुण्यपापतारतम्यात् ज्ञानवैचित्र्याच्च प्रथमचरमभावेन सुरनरतिर्यगादिभावेन जडभावेन च बहुधा भिद्यमानाः।।[4-4-64,65,66,67,68,69,70]
भुक्त्वा जन्मसहस्रामि भूयः संसारसंकटे।
पतन्ति केचिदबुधाः संप्राप्याप्यविवेकिताम्।।[4-4-71]
संसारसंकटे पतन्तीति समुदायार्थः।।
अविरतमियमातता स्थितैघैर्भवति विनश्यति वर्धत मुधैव।
त्रिभुवनरचनाविमोहमाया परमपदे लहरीव वारिराशौ।।[4-4-72]
राम उवाच।।
जीवो मनःपदे प्राप्य वेरञ्चं पदमागतः।
यथा ब्रह्मंस्तथा सर्वं विस्तरेम वदाशु मे।।[4-4-73]
वसिष्ठ उवाच।।
ब्राह्मं शृणु महाबाहो शरीरग्रहणक्रमम्।
निदर्शनेन तेनैव ज्ञास्यसे जागतीं स्थितिम्।।[4-4-74]
अविरतभिति।। वारिराशौ लहरीव परमपदे ब्रह्मणि त्रिभुवनरचनारूपा विमोहयन्ती माया मुधैव भवति वर्धते विनश्यति चेत्यन्वयः।।[4-4-72,73,74]
दिक्कालाद्यनवच्चिन्नमातामतत्त्वं स्वशक्तितः।
लीलयैव यदादत्ते दिक्तालकलितं वपुः।।[4-4-75]
दिक्कालेति श्लोकद्वयं वाक्यम्। दिक्कालादिभिरनवच्छिन्नमात्मतत्त्वं कर्तृ लीलयैव स्वशक्तितो हेतोः दिक्कालकलितं यद्वपुरादत्ते स्वीकरोति।।
तदेतज्जीवपर्यायं वासनावशतः परम्।
मनः संपद्यते लोलं कलनाकलनोन्मुखम्।।[4-4-76]
जीवपर्यायं जीवशब्दपर्यायवाच्यं तदेतद्रूपं वासनावशतः परं वासनावशादेव केवलं लोलं मनः संपद्यते।।
कलयन्ती मनःशक्तिरादौ भावयति क्षणात्।
आकाशभावनामच्छां शब्दबीजरसोन्मुखीम्।।[4-4-77]
कलयन्तीति।। मनोरूपा शक्तिः कलयन्ती विचारयन्ती सती आदावच्छां शब्दबीजरसोन्मुखीं शब्द एव बीजम् शब्दतन्मात्रमित्यर्थः। तद्विषयो रसस्तद्भावना तदुन्मुखीं तत्सापेक्षाम्। तत्पूर्विकामित्यर्थः। तादृशीमाकाशभावनां भावयति। पूर्वं शब्दतन्मात्रं भावयित्वा पश्चादाकाशभावनां भावयति स्मेत्यर्थः। शब्दतन्मात्रस्याकाशनिदानत्वात्।।
ततस्तद्धनतां यातं घनस्पन्दक्रमान्मनः।
भावयत्यनिलस्पन्दं स्पर्शबीजरसोन्मुखम्।।[4-4-78]
तत इति।। ततोऽनन्तरं तन्मनो घनतां यातं सत् घनस्पन्दक्रमात् स्पर्शबीजरसोन्मुखं स्पर्शतन्मात्रभावनापूर्वकं अनिलस्पन्दं वायोस्चलनं भावयति।।
ताभ्यामाकाशवाताभ्यां दृढाभ्यासवशाद्यतः।
शब्दस्पर्शस्वरूपाभ्यां संघर्षाज्जायतेऽनलः।।[4-4-79]
ताभ्यामिति।। शब्दस्पर्शस्वरूपाभ्यां आकाशवाताभ्यां सह दृढाभ्यासवशात् यः संघर्षः तस्माद्धेतोर्मन एवानलो जन्यते। अग्निं भावयित्वा तद्रूपं भवतीत्यर्थः। वशात्तत इति पाठे ततो मनसः अनलो जन्यत इत्यन्वयः।।
मनस्तादृग्गुणगतं रसतन्मात्रवेदनम्।
क्षणाच्चेतत्यपां शैत्यं जलसंवित्ततो भवेत्।।[4-4-80]
मन इति।। तादृग्गुणगतं शब्दस्पर्शरूपगुणयुक्तं मनो रसतन्मात्रवेदनं रसतन्मात्रं भावयत् क्रमादपां शैत्यं चेतति भावयति ततो भावनाज्जलसंविद्भवेत्।।
ततस्तादृग्गुणगतं मनो भावयति क्षणात्।
गन्धतन्मात्रमेतस्माद्भूमिसंवित्ततो भवेत्।।[4-4-81]
तत इति।। तादृग्गुणगतं शब्दस्पर्शरूपरसयुक्तं मनो गन्धतन्मात्रं भावयति। ततोऽनन्तरमेतस्माद्भावनाद्भूमिसंविद्भवेत्।।
अथेत्थंभूततन्मात्रैर्वेष्टितं तनुतां जहत्।
वपुर्वह्निकणाकारं स्फुरतं व्योम्नि पश्यति।।[4-4-82]
अथेति।। अथ महाभूतसृष्ट्यनन्तरं इत्थमनेन प्रकारेण भूतैस्तन्मात्रैश्च वेष्टितं अतएव तनुतां सूक्ष्मतां जहत्त्यजन्मनः कर्तृ क्रमाद्व्योम्नि स्पुरितं वह्निकणाकारं वपुः पश्यति भावयति।।
अहंकारकलायुक्तं बुद्धिबीजसमन्वितम्।
तत्पुर्यष्टकमित्युक्तं भूतहृत्पद्मषट्वदम्।।[4-4-83]
अहमिति।। अहंकारकलायुक्तं अहंकारांशैरेकादशभिरिन्द्रियैर्युक्तं बुद्धिबीजसमन्वितं बुद्ध्या तन्मात्रैश्च समन्वितं तद्व्योम्नि स्फुरितं वपुर्भूतम् हृत्पद्मषट्पदं भूतानां हृत्पुण्रीके वर्तमानं पुर्यष्टकमित्युक्तम्।।
तस्मिंस्तत्तीव्रसंवेगाद्भावयन्भासुरं वपुः।
स्थूलतामेति पाकेन मनो बिल्वफलं यथा।।[4-4-84]
तस्मिन्निति।। तस्मिन्पुर्यष्टके स्थित्वा मनस्तीव्रसंवेगात्तीव्रवासनायोगाद्धेतोर्भासुरं वपुर्भावयत् पाकवशाद्बिल्वफलवत्स्थूलतामेति।।
मूषास्थद्रुतहेमाभं स्फुरितं विमलाम्बरे।
संनिवेशमथादत्ते तत्तेजः स्वस्वभावतः।।[4-4-85]
मूषेति श्लोकद्वयं वाक्यम्। अथ अनन्तरं मूषास्थद्रुतहेमाभम् मूषा नाम प्रतिमादिनिर्माणार्थं विरचिता अन्तः सान्तराला मृन्मयी आकृतिः तत्स्थं द्रवीभूतं यद्धेम तत्सदृशं विमलाम्बरे स्फुरितं तत्पुर्यष्टकरूपं तेजः स्वस्वभावत एव।।
ऊर्ध्वं शिरःपिण्डमयमधः पादमयं तथा।
पार्श्वयोर्हस्तसंस्थानं मध्ये चोदरधर्मिणम्।।[4-4-86]
ऊर्ध्वमुपरि शिरःपिडमयं अधः पादमयं पार्श्वयोर्हस्तसंस्थानं मध्ये उदरधर्मिणं च संनिवेशमादत्ते।।
कालेन स्फुटतामेत्य भवत्यमलविग्रहः।
बुद्धिसत्त्वबलोत्साहविज्ञानैश्वर्यसंस्थितः।।[4-4-87]
स एव भगवान्ब्रह्मा सर्वलोकपितामहः।
अवलोक्य वपुर्ब्रह्मा कान्तमात्मीयमुत्तमम्।।[4-4-88]
चिन्तामभ्येति भगवांस्त्रिकालामलदर्शनः।
एतस्मिन्परमाकाशो चिन्मयैकात्मरूपिणि।।[4-4-89]
अदृष्टापारपर्यन्ते प्रथमं किमभूदिति।
इति चिन्तिततवान्ब्रह्मा सद्योजातोऽमलात्मदृक्।।[4-4-90]
संपश्यन्सर्ववृन्दानि समतीतान्यनेकशः।
स्मरत्यथो स सकलान्सर्वधर्मगुणक्रमान्।।[4-4-91]
लीलया कल्पयत्येष चित्राः संकल्पजाः प्रजाः।
नानाचारसमारम्भा गन्धर्वनगरं यथा।।[4-4-92]
तासां स्वर्गापवर्गार्थं धर्मकामार्थसिद्धये।
अनन्तानि विचित्राणि शास्त्राणि समकल्पयत्।।[4-4-93]
कालेनेति सार्धश्लोकं वाक्यम्। स पूर्वोक्तः संनिवेश एव कालेन स्फुटतामेत्य अमलविग्रहः बुद्ध्यादियुक्तः सर्वलोकपितामहो भगवान्ब्रह्मा भवतीत्यन्वयः। तद्बुद्धिस्तात्कालिकी कार्याकपितामहो भगवान्ब्रह्मा भवतीत्यन्वयः। तद्बुद्धिस्तात्कालिकी कार्याकार्यहेतुर्मनीषा सत्त्वं व्यवसायः। बलं शरीरसामर्थ्यम्। उत्साहो लोकोत्तरकार्येषु स्वेच्छया यत्नः। विज्ञानं विशिष्टमीश्वरसाक्षात्कारूपं ज्ञानं। ऐश्वर्यमणिमादि तेषु संस्थितः प्रतिष्ठितः।।[4-4-87,88,89,90,91,92,93]
सृष्टिरेवमियं राम सर्गेऽस्मिन्स्थितिमागता।
विरञ्चिरूपान्मनसः पुष्पलक्ष्मीर्मधोरिव।।[4-4-94]
वसिष्ठ उवाच।।
स्वसंकल्पकृताः सर्वे देवासुरनरामराः।
स्वसंकल्पोपशमने शाम्यन्त्यस्नेहदीपवत्।।[4-4-95]
आकाशसदृशं सर्वं कल्पनामात्रजृम्भितम्।
जगत्पश्य महाबुद्धे सुदीर्घस्वप्नमुत्थितम्।।[4-4-96]
न जायते न म्रियते इति किंचित्कदाचन।
परमार्थेन सुमते मिथ्या सर्वं तु विद्यते।।[4-4-97]
सृष्टिरिति।। सर्गे जगति। सृष्टिः सृज्यमानः प्रपञ्चः।।[4-4-94,95,96,97]
कोशमाशाभुजङ्गानां संसाराडम्बरं त्यज।
असदेतदिति ज्ञात्वा माऽत्र भावं निवेशय।।[4-4-98]
कोशमिति।। माऽत्र भावं निवेशय अत्र संसाराडम्बरे भावं तात्पर्यं मा निवेशय।।
गन्धर्वनगरस्यार्थे भूषिते दूषितेऽथ वा।
अविद्यांशसुताद्यैर्वा कः क्रमः सुखदुःखयोः।।[4-4-99]
धनदारेषु वृद्धेषु दुःखं युक्तं न चेष्टतः।
वृद्धायां मोहमायायां कः समायासवानिह।।[4-4-100]
यैरेव जायते रागो मूर्खस्याधिकतां गतैः।
तैरेव भोगैः प्राज्ञस्य विराग उपजायते।।[4-4-101]
अतो राघव तत्त्वज्ञो व्यवहारेषु संस्थितः।
नष्टं नष्टमुपेक्षस्व प्राप्तं प्राप्तमुपाहर।।[4-4-102]
अनागतानां भोगानामवाञ्छनमकृत्रिमम्।
आगतानां च संभोग इति पण्डितलक्षणम्।।[4-4-103]
गनधर्वेति।। गन्धर्वनगरशब्दस्यार्थे भूषिते दूषिते वा यथा न सुखं न दुःखं वा तद्वदविद्याकल्पिते सुतादावपि सुखदुःखयोरक्रमः।।[4-4-99,100,101,102,103]
यस्य स्यादिदमित्यास्था निवृत्तां सर्वस्तुषु।
क्रोडीकरोति सर्वज्ञं नाविद्या तमवास्तवी।।[4-4-104]
यस्येति।। यस्य सर्ववस्तुषु इदं स्यादित्यास्था निवृत्ता तं सर्वज्ञमवास्तवी अविद्या न क्रोडीकरोति नावृणोति।।
शुद्धं सदसतोर्मध्यं पदं बुद्ध्यावलम्ब्य च।
सबाह्याभ्यन्तरं दृश्यं मा गृहाण विमुञ्ज मा।।[4-4-105]
शुद्धमिति।। शुद्धं निष्कलङ्कं सदसतोः कार्यकारणभूतयोश्चिच्चेत्ययोः मध्यं कार्यकारणात्मकं चिन्मात्ररूपं पदं वस्तु बुद्ध्यावलम्ब्य सबाह्याभ्यन्तरं दृश्यं मा गृहाण मा विमुञ्च। उपेक्षस्वेत्यर्थः।।
यस्य नेच्छा न वानिच्छा ज्ञस्य कर्मणि तिष्ठतः।
न तस्य लिप्यते प्रज्ञा पद्मपत्रमिवाम्बुभिः।।[4-4-106]
यस्येति।। कर्मणि अवश्यकर्तव्ये तिष्ठतः प्रवर्तमानस्य ज्ञस्य ज्ञाननिष्ठस्य विषयेषु इच्छा न प्रवर्तते इष्टसाधनात्। अनिच्छा च न। अनिष्टसाधनबुद्ध्यभावात् तस्य प्रज्ञा पद्मपत्रमम्बुभिरिव हर्षविषादादिभिर्न लिप्यते न संश्लिष्यते।।
यदि ते नेन्द्रियार्थश्रीः स्वदते हृदि राघव।
तदसि ज्ञातविज्ञानः समुत्तीर्णो भवार्णवात्।।[4-4-107]
यदिति।। स्वदते स्वादनं करोति।।
उच्चैःपदाय परया प्रज्ञया वासनागणात्।
पुष्पाद्गन्धमिवोदारं चेतो राम पृथक्कुरु।।[4-4-108]
उच्चैरिति।। उच्चैःपदाय कैवल्याय प्रज्ञया प्रज्ञाप्रकर्षेण हेतुना वासनाजालाच्चेतः समुद्धरेत्यर्थः।।
संसाराम्बुनिधावस्मिन्वासनाम्बुपरिप्लुते।
ये प्रज्ञानावमारूढास्ते तीर्णा दुःखिताः परे।।[4-4-109]
संसारेति।। प्रज्ञायामनारूढायां कदाचिदपि संसारान्नोत्तरणमिति भावः।।
न त्यजन्ति न वाञ्छन्ति व्यवहारं जगद्भवम्।
सर्वमेवानुर्तन्ते पारावारविदो जनाः।।[4-4-110]
ते शून्येऽपि न खिद्यन्ते ते देवोद्यानसङ्गिनः।
नियतिं च न मुञ्चन्ति महान्तो भास्करा इव।।[4-4-111]
वाल्मीकिरुवाच।।
इत्थंगिरा विमलया विमलाशयस्य रामो मुनेः सपरिपुष्ट इवाबभासे।
ज्ञानामृतेन मधुरेण विचारितातः पूर्णं शशाङ्क इव शीतलतां जगाम।।[4-4-112]
राम उवाच।।
सृष्टिरेकविधा किं स्यात्किं वा बहुविधा वद।
तद्विज्ञानेन मायाया रूपं स्फुटतरं भवेत्।।[4-4-113]
नेति।। पारावारविदः संसारसागरस्य पारं उत्तरणे हेतुर्विद्या अवारं संसारहेतुरविद्या तद्विद इत्यर्थः।।[4-4-110,111,112,113]
वसिष्ठ उवाच।।
कदाचित्सृष्टयः शार्व्यः कदाचित्पद्मजोद्भवाः।
कदाचिदपि वैष्णव्यः कदाचिन्मुनिनिर्मिताः।।[4-4-114]
कदाचिदित्यादिना सार्धेन श्लोकषट्केन सृष्टिक्रमस्यानियमं दर्शयति। तत्र कर्तुरनियममाह-कदाचिदित्यनेन।। शार्व्यः शिवसंबन्धिन्यः। पद्मजोद्भवाः ब्राह्मण्यः। वैष्णव्यो विष्णूद्भूताः। मुनिनिर्मिताश्च कदाचित्।।
कदाचिद्ब्जजो ब्रह्म कदाचित्सलिलोद्भवः।
अण्डोद्भवः कदाचित्तु कदाचिज्जायतेऽम्बरात्।।[4-4-115]
प्रादुर्भावस्थानमपि न नियतमित्याह पञ्चदशेन।।
कदाचिद्भूरभूत्सृष्टौ नीरन्द्रतरुसंकटा।
कस्यांचिन्नरनीरन्ध्रा कस्यांचिद्भूधरावृता।।[4-4-116]
कदाचिन्मृन्मयी भूमिः कदाप्यासीद्दृषन्मयी।
कदाचित्काञ्चनमयी कदाचिन्मांसमय्यभूत्।।[4-4-117]
पृथिवीस्वरूपमप्यनियतमित्याह षोडशसप्तदशभ्याम्।।[4-4-116,117]
कदाचित्प्रथमं व्योम प्रतिष्ठामधिगच्छति।
कदाचित्प्रथमं पृथ्वी कदाचित्प्रथमं पयः।
कदाचित्प्रथमं तेजः कदाचित्प्रथमं मरुत्।।[4-4-118]
वियदादेः पौर्वापर्यमप्यनियतमित्याह सार्धेनाष्टदशेन।।
निदर्शनार्थं सृष्टेस्तु मयैकस्य प्रजापतेः।
भवते कथितोत्पत्तिर्न त्वयं नियमः क्वचित्।।[4-4-119]
उक्तस्यानियमस्योपसंहार एकोनविंशेनेति विवेकः।।
पुनः कृतं पुनस्त्रेता पुनश्च द्वापरः कलिः।
पुनःपुनरिदं सर्वं तत्रास्ति न पुनस्तु यत्।।[4-4-120]
जगन्मायास्वरूपस्य वर्णनाव्यपदेशतः।
दाशूराव्यायिकां राम वर्ण्यमानां मया शृणु।।[4-4-121]
अस्त्यस्मिन्वसुधापीठे विचित्रकुसुमद्रुमः।
मागधो नाम विख्यातः श्रीमाञ्जनपदो महान्।।[4-4-122]
कदम्बवनविस्तारितालावलितजङ्गलः।
विचित्रविहगव्यूहसर्वाश्चर्यमनोहरः।।[4-4-123]
तत्रैकस्मिन्गिरितटे कर्णिकारसमाकुले।
कदलीखण्डनीरन्ध्रनीपगुल्मविराजिते।।[4-4-124]
कश्चित्परमधर्मात्मा मुनिरासीन्महातपाः।
दाशूरनामा महता तपोयोगेन संयुतः।।[4-4-125]
शरलोमेति विख्यातः पिता तस्य बभूव ह।
रामापर इव ब्रह्मा तस्मिन्नेवावसद्गिरौ।।[4-4-126]
तस्यासावेकपुत्रोऽभूत्कचो देवगुरोरिव।
तन सार्धं स पुत्रेण नीतवाढ्जीवितं वने।।[4-4-127]
अथासौ शरलोमात्र भुक्त्वा युगगणान्ययौ।
त्यक्त्वा देहं सुरागारं त्यक्तनीडः खगो यथा।।[4-4-128]
पुनरिति।। चत्वार्यपि युगानि पुनः पुनरावर्तन्त इत्यर्थः। इत्थं सर्वमिदं पुनःपुनरावर्तत एव। यत्तु पुनरस्ति कालान्तरेऽपि तथैवावतिष्ठते तादृशं कूटस्थं नित्यं वस्तु नास्ति।।[4-4-120,121,122,123,124,125,126,127,128]
एक एव वने तस्मिन्दशूरः प्ररुरोदह।
दशापनीतपितृकः करुणं कुररो यथा।
मातापितृवियोगेन शोकसंतापिताशयः।।[4-4-129]
म्लानिमभ्याययौ नूनं हेमन्त इव पङ्कजम्।
बालोऽसावथ दीनात्मा वनदेवतया वने।।[4-4-130]
इत्थमाश्वासितो राम तदादृश्यशरीरया।
ऋषिपुत्र महाप्राज्ञ किमज्ञ इव रोदिषि।।[4-4-131]
संसारस्य न कस्मात्त्वं स्वरूपं वेत्सि चञ्चलम्।
सर्वदैवेदृशी साधो संसारस्य स्थितिश्चला।।[4-4-132]
जायते जीव्यते पश्चादवश्यं च विनश्यति।
तदर्थं मा कृथा व्यर्थं विषादं मरणे पितुः।।[4-4-133]
अवश्यभाव्योऽस्तमयो जातस्याहर्पतेरिव।
अशरीरामिति श्रुत्वा गिरमारक्तलोचनः।।[4-4-134]
देशेति।। दशापनीतपितृकः दशा जीवितकालस्य चरमावस्था तया अपनीतः पिता यस्य। कुरर उत्क्रोशनामा पक्षिविशेषः।।[4-4-129,130,131,132,133,134]
धैर्यमासादयामास शिखण्डी स्तनितादिव।
उत्थायावश्यकं कृत्वा पाश्चात्त्यं पुतुरादृतः।
चकार तपसे बुद्धिं दृढामुत्तमसिद्धये।।[4-4-135]
उत्थायेति।। पाश्चात्त्यमौर्ध्वदैहिकं कर्म।।
ब्राह्मणे कर्मणा तस्य विपिने चरतस्तपः।
अनन्तसंकल्पमयं श्रोत्रियत्वं बभूव ह।।[4-4-136]
अज्ञातज्ञेयबुद्धेस्तु सुश्रोत्रियतया तया।
न विशश्राम चेतोऽस्य पवित्रेऽपि धरातले।।[4-4-137]
केवलं सर्वमेवेदं सुविशुद्धं धरातलम्।
अशुद्धमेव पश्यन्स नारमत्क्वचिदेव हि।।[4-4-138]
अथ संकल्पनेनैव संकल्पमनसैव सः।
वृक्षाग्रमेव संशुद्धं स्थितिरत्रोचिता मम।।[4-4-139]
अथेदानीं तपस्तप्यं तपसोग्रेण शाखिषु।
खगवत्स्थितिमाप्नोति शाखासु च दलेषु च।।[4-4-140]
इति संचिन्त्य संज्वाल्य हुताशमतिभास्वरम्।
जुहाव तस्मिन्प्रोत्कृत्य मांसं स्वस्कन्धभित्तितः।।[4-4-141]
अथ गीर्वाणवृन्दस्य समग्रा गलभित्तयः।
मन्मुखस्थेन मा यान्तु विप्रमांसेन भस्मताम्।।[4-4-142]
इति संचिन्त्य भगवान्सप्तार्चिस्तस्य देवता।
पुरो बभूव दीप्तांशुर्दीप्तांशुर्वाक्पतेरिव।।[4-4-143]
उवाच वचनं विप्रकुमाराऽभिमतं वरम्।
गृहाण स्तापितं साधो कोशस्थं सन्मणिं यथा।।[4-4-144]
इत्युक्तवन्तं तं देवमर्घपुष्पोपसोभितम्।
संपूज्य स्तुतिवादेन प्राह विप्रकुमारकः।।[4-4-145]
भगवन्भूतपूर्णाया भुवः पावनमण्डलम्।
नाप्नोमि तेन वृक्षाणामुपरि स्थितिरस्तु मे।।[4-4-146]
इत्युक्ते मुनिपुत्रेण सर्वदेवमुखं शिखी।
एवमस्तु तवेत्युक्त्वा जगामान्तर्धिमीश्वरः।।[4-4-147]
तस्मिन्नन्तर्हिते देवे क्षणात्सान्ध्य इवाम्बुदे।
अथ काननमध्यस्थं चुम्बिताम्बुदमण्जलम्।।[4-4-148]
कदम्बं रोदसीस्तम्भमारुरोह द्विजोत्तमः।
तत्रासौ व्योमलग्नायाः शाखायाः प्रान्तपल्लवे।।[4-4-149]
विवेश विगताशङ्कमेकाग्रतपसि स्थितः।
अथोपविश्य मृदुनि तत्र पल्लवविष्टरे।।[4-4-150]
क्षणमालोकितास्तेन दिशः कौतुकलीलया।
सरिदेकावलीरम्याः शैलेन्द्रस्तनकुङ्मलाः।।[4-4-151]
निर्मलाकाशकबरा लोलनीलाम्बुदालकाः।
तस्मिंल्लतागृहे स्थित्वा विलोक्य ककुभः क्षणम्।।[4-4-152]
दृढं पद्मासनं बद्ध्वा दिग्भ्यः प्रत्याहृतात्मना।
अज्ञातपरमार्थेन क्रियामात्रे च तिष्ठता।।[4-4-153]
फलकार्पण्ययुक्तेन चेतसा सोऽकरोन्मखम्।
तत्रासौ दश वर्षाणि मनसैवायजत्सुरान्।।[4-4-154]
गवाश्वनरमेधाद्यैर्यज्ञैर्विपुलदक्षिणैः।
कालेनामलतां याते वितते तस्य चेतसि।।[4-4-155]
बलादवततारान्तर्ज्ञानमात्मप्रसादजम्।
ततो विशीर्णावरणो विगलद्वासनामलः।
संददर्शैकदा तस्यां लतायामग्रतः स्थिताम्।।[4-4-156]
वनदेवीं विशालाक्षीमालोलकुसुमाम्बराम्।
तामुवाचानवद्याङ्गीं स मुनिर्विनताननाम्।।[4-4-157]
का त्वमुत्पलपत्राक्षि कान्तिविक्षोभितस्मरे।
इत्युक्ते मृगशावाक्षी गौरी पीनपयोधरा।।[4-4-158]
मुनिमाह मनोहरि मुग्धाक्षरमिदं वचः।
यानि यानि दुरापाणि वाञ्छितानि महीतले।।[4-4-159]
प्राप्यन्ते तानि तान्याशु महतामेव याच्ञया।
अहमत्र द्रुमाकीर्णे त्वत्कदम्बाभ्यलंकृते।।[4-4-160]
लतालीलालये ब्रह्मन्विपिने वनदेवता।
यश्चैत्रसितपक्षस्य त्रयोदश्यां स्मरोत्सवे।।[4-4-161]
बभूव वनदेवीनां समाजो नन्दने वने।
तत्राहमगमं नाथ त्रैलोक्यललनासदः।।[4-4-162]
तत्र दृष्टा मया सर्वा वयस्या मदनोत्सवे।
अपुत्रया पुत्रयुतास्तेनाहं दुःखिता भृशम्।।[4-4-163]
त्वयि सर्वार्थिसार्थस्य बृहत्कल्पतरौ स्थिते।
अनाथेन कथं नाथ किल शोचाम्यपुत्रिका।।[4-4-164]
देहि मे भगवन्पुत्रं नो चेद्देहमिहाग्नये।
प्रकरोम्याहुतिं पुत्रदुःखदाहोपशान्तये।।[4-4-165]
तामित्युक्तवतीं तन्वीं विहस्य मुनिपुङ्गवः।
प्रादाद्धस्तगतं पुष्पं तस्यै प्रेम्णा दयान्वितः।।[4-4-166]
गच्छ तन्वङ्गि मासेन पूजार्हमलिलोचने।
प्रसोष्यसे सुतं कान्तं प्रसूनामिव सल्लता।।[4-4-167]
किंत्वसौ मरणावेशोपायिन्या यस्त्वया सुतः।
याचितः कृच्छ्रसंप्राप्तज्ञानस्ते न भविष्यति।।[4-4-168]
ब्राह्मेणेति।। अनन्तसंकल्पमयम्। तपसे एतादृशेन विशुद्धेन स्थानेन भवितव्यम्। एवंविधैश्च पावनैः साधनैर्भवितव्यमित्यनन्तसंकल्पप्रचुरम्। श्रोत्रियत्वं छान्दसत्वम्।।[4-4-136,137,138,139,140,141,142,143,144,145,146,147,148,149,150,151,152,153,154,155,156,157,158,159,160,161,162,163,164,165,166,167,168]
इत्युक्त्वा स मुनिस्तन्वीं प्रसन्नमुखमण्डलाम्।
परिचर्यां करोमीति प्रार्थनोक्तां व्यसर्जयत्।।[4-4-169]
इतीति।। प्रार्थनोक्तां प्रार्थनारूपमुक्तं वचनं यस्यास्ताम्।।
सा जगामात्मसदनं मुनिः स्वार्थपरोऽभवत्।
अवहत्क्रमशः कालं ऋतुसंवत्सराङ्कितम्।।[4-4-170]
अथ दीर्घेण कालेन सैवोत्पलविलोचना।
द्वादशाब्दमुपादाय सुतं मुनिमुपाययौ।।[4-4-171]
सा प्रणम्योपविश्याग्रे मुनिमिन्दुसमानना।
उवाच कलया वाचा चूतद्रुममिवालिनी।।[4-4-172]
सा प्रणण्योपविश्याग्रे मुनिमिन्दुसमानना।
उवाच कलया वाचा चूतद्रुममिवालिनी।।[4-4-173]
प्रभो केवलमेतेन ज्ञानं नाधिगतं शुभम्।
तेन संसारयन्त्रेऽस्मिन्नवशः परिपीड्यते।।[4-4-174]
ज्ञानं त्वमेवास्य विभो कृपयोपदिशाधुना।
एवं वदन्तीं स मुनिर्मच्छिष्यमबले सुतम्।।[4-4-175]
इहैव स्थापयैनं त्वमित्युक्त्वा तां व्यसर्जयत्।
तस्यां गतायां स पितुरन्तेवासितयात्तया।।[4-4-176]
अतिष्ठत्संयतो धीमानर्कस्येवारुमः पुरः।
तदर्थप्राप्यविज्ञानं ततश्चित्राभिरुक्तिभिः।।[4-4-177]
इतीति।। प्रार्थनोक्तां प्रार्थनारूपमुक्तं वचनं यस्यास्तस्ताम्।।[4-4-169,170,171,172,173,174,175,176,177]
चिरकालमसौ तत्र मुनिः पुत्रमबोधयत्।
आख्यायिकाख्यानशतैर्दृष्टान्तैर्दृष्टिकल्पितैः।।[4-4-178]
तथेतिहासवृत्तान्तैर्वेदवेदान्तनिश्चयैः।
अनुद्वेगतया नित्यं विस्तरेण यथाक्रमम्।।[4-4-179]
वसिष्ठ उवाच।।
कदाचिदार्यमार्गेण तेन कैलासवाहिनीम्।
अहं स्नातुमदृश्यात्मा व्योमवीथीं गतः पुरा।।[4-4-180]
निर्गत्य नभसस्तत्र मुनिमण्डलकोदरात्।
रात्रौ प्राप्तोऽस्मि सुमते दाशूरतरुमुन्नतम्।।[4-4-181]
यावच्छृणोमि विटपकुहरात्कानने वचः।
कुड्मलाम्भोजसद्मस्थषट्पदस्येव निस्वनम्।।[4-4-182]
तदर्थेति सार्धश्लोकद्वयं वाक्यम्। आख्यायिकाऽऽख्यानशतैः। प्रत्यक्षत उपलब्धार्था आख्यायिका। परोक्षवृत्तान्तमाख्यानम्। दृष्टिकल्पितैः स्वज्ञानकल्पितैः।।[4-4-78,79,80,81,82]
दाशूर उवाच।।
श्रृणु पुत्र महाबुद्धे वस्तुनोऽस्य समामिमाम्।
वर्णयामि महाश्चर्यामेकामाख्यायिकां तव।।[4-4-183]
श्रृण्विति।। अस्य वस्तुनो वृत्तान्तस्य समां सदृशीमिमामाख्यायिकां वर्णयामीत्यन्वयः।।
अस्ति राजा महावीर्यो विख्यातो भुवनत्रये।
नाम्ना स्वोत्थ इति श्रीमाञ्जगदाक्रमणे क्षमः।।[4-4-184]
यस्यानुसासनं सर्वे भुवनेष्वपि नायकाः।
शिरोभिर्धारयन्त्युच्चैश्चूडामणिमिवोत्तमम्।।[4-4-185]
यः साहसैकरसिको नानाश्चर्यविहारवान्।
केनचित्रिषु लोकेषु न महात्मा वशीकृतः।।[4-4-186]
यस्यारभसहस्राणि सुखदुःखप्रदान्यलम्।
संख्यातुं केन शक्यन्ते कल्लोला जलधेरिव।।[4-4-187]
यस्य वीर्यं सुवीर्यस्य न शस्त्रैर्न च पावकैः।
केनचिद्भवने क्रान्तमाकाशमिव मुष्टिना।।[4-4-188]
यदीयां विततारम्भलीतां निर्माणभासुराम्।
न मनागनुकुर्वन्ति शक्रोपेन्द्रहरा अपि।।[4-4-189]
अस्तीति।। स्वोत्थ इत्यादिभिः नामान्तरैर्गोपितार्थामाख्यायिकां पुत्रप्रश्नानन्तरं दाशूरः स्वयमेव विवरिष्यति। तथापि तत्र किंचिदुच्यते।।[4-4-184,85,86,87,88,89]
त्रयस्तस्य महाबाहोर्देहदिग्भरणक्षमाः।
जगदाक्रम्य तिष्ठन्ति उत्तमाधममध्यमाः।।[4-4-190]
त्रय इति।। तस्यैव स्वोत्थस्य दिग्भरणक्षणाः दिशां पूरणे क्षमाः शक्तास्त्रयो देहाः सत्त्वादिगुणरूपाः।।
व्योमन्येवातिवितते जातोऽसौ त्रिशरीरकः।
तत्रैव च स्थितिं यातः शब्दपातश्च पक्षिवत्।।[4-4-191]
व्योमनीति।। असौ स्वोत्थः त्रिशरीरकः त्रीणि सत्त्वादिरूपाणि शरीराणि यस्य तादृशः। व्योमन्येव चिदाकाश एव जातः तत्रैव स्थितिं यातः। शब्दपातश्च पक्षिवत्। यथाहि पक्षी व्योमन्येवाविर्भवति तिष्ठति लीयते च तद्वदित्यर्थः।।
तत्रैवापारपर्यन्ते नगरं तेन निर्मितम्।
चतुर्दशमहारथ्यं विभागत्रयभूषितम्।।[4-4-192]
तत्रैवेति सार्धश्लोकद्वयं वाक्यम्। नगरमिति।। ब्रह्मण्डे। चतुर्दशभुवनान्येव महारथ्या यस्मिन्। विभागत्रयभूषितं ऊर्ध्वाधोमध्यलोकभेदेन त्रिधा विभक्तम्।।
वनोपवनमालाढ्यं क्रीडाशिखरिसुस्थितम्।
मुक्तालताधवलितं वापीसप्तकभूषितम्।
शीतलोष्णात्मकाक्षीणदीपद्वयविराजितम्।।[4-4-193]
क्रीडाशिखरिणो मेरुमन्दरादयस्तैः सुस्थितम्। मुक्तालताः सरितस्ताभिः धवलितम्। वाप्यः समुद्रास्तासां सप्तकेन भूषितम्। शीतलोष्णात्मकमक्षीणं च दीपद्वयं चन्द्रार्कौ तेन विराजितम्।।
तस्मिन्नेवातिविपुले पत्तने तेन भूभृता।
संचारिणा विरचिता मुग्धापवरका गणाः।।[4-4-194]
तस्मिन्निति सार्धश्लोकत्रयं वाक्यम्। अपवरका देहरूपाण्यभ्यन्तरगृहाणि।।
ऊर्ध्वं केचिदधः केचिन्मध्ये केचिन्नियोजिताः।
असिताच्छादनाच्छना नवद्वारविभूषिताः।।[4-4-195]
असितमाच्छादनं नाम केशरूपं तृणम्। नव द्वाराणि श्रोत्रादीनि।।
अनारतवहद्वातबहुवातायनान्विताः।
दीपपञ्चकसालोकास्त्रिस्थूणाः शुक्लदारवः।।[4-4-196]
वातायनानि नासिकाविवरादीनि। दीपपञ्चकं तिस्रः स्थूणास्तम्भाः वातपित्तकफरूपास्तेषां देहधारकत्वाच्छुक्लानि दारूण्यस्थीनि।।
मसृणालेपमृदवः प्रतोलीकुलसंकुलाः।
मायया रचितास्तेन राज्ञा तेषु महात्मना।।[4-4-197]
मसृण आलेपो मृच्च येषाम्। तत्र आलेपो बाह्यत्वक्। मृन्मांसम्। प्रतोल्यो भुजाद्याङ्गरूपा वीथ्यः।।
रक्षितारो महापक्षा नित्यमालोकभीरवः।।[4-4-198]
अथापवरकौघेषु चलत्सु स महीपतिः।
करोति विविधां क्रीडां नीडेष्विव विहंगमः।।[4-4-199]
त्रिशरीरः स तेष्वन्तस्तैर्यक्षैः सह पुत्रक।
लीलालसमुषित्वाशु पुनर्निष्क्रम्य गच्छति।।[4-4-200]
महापक्षाः अहंकाराः। तेषामालोकभीरुत्वं तत्त्वज्ञाननिवर्त्यत्वात्।।[4-4-198,199,200]
तस्येच्छा जायते वत्स कदाचिच्चलचेतसः।
पुरं भविष्यन्निर्माणां किंचिद्यामीति निश्चला।।[4-4-201]
भूताविष्ट इवावेगात्तत उत्थाय धावति।
पुरं तदप्यवाप्नोति गन्धर्वैरिव निर्मितम्।।[4-4-202]
तस्येच्छा जायते वत्स कदाचिच्चलचेतसः।
विनाशं संप्रयामीति तेनाशु स विनश्यति।।[4-4-203]
पुनरूत्पद्यते तूर्णं खान्महोर्मिरिवाम्भसः।
व्यवहारं तनोत्युच्चैः पुनरारम्भमन्थरम्।
स्वयैव व्यवहृत्यासौ कदाचित्परिदूयते।।[4-4-204]
किं करोम्यहमज्ञोऽस्मि दुःखितोऽस्मीति शोचति।
मुदमेत्य कदाचिच्च स्वयमायाति पीनताम्।।[4-4-205]
पिबति गच्छति वल्गति जृम्भते स्फुरति भाति च भासुररूपधृक्।
सुत महामहिमा स महीपतिः पतिपामिव वातरयाकुलः।।[4-4-206]
वसिष्ठ उवाच।।
अथापृच्छत्सुतस्तत्र जम्बूद्वीपे महानिशि।
कदम्बद्रुमपर्णस्थं पितरं पावनाशयः।।[4-4-207]
कोऽसौ स्वोत्थेति विख्यातो भूपस्तातोत्तमाकृतिः।
कथितं च किमेतन्मे त्वेयति ब्रूहि तत्त्वतः।।[4-4-208]
दाशूर उवाच।।
श्रृणु पुत्र यथाभूतमेतत्ते कथयाम्यहम्।
येन संसारचक्रस्य तत्त्वमस्यावबुध्यसे।।[4-4-209]
असदभ्युत्थितारम्भमवस्तुमयमाततम्।
संसारसंस्थानमिदमेवमाकथितं मया।।[4-4-210]
परमान्नभसो जातः संकल्पः स्वोत्थ उच्यते।
जायते स्वयमेवासौ स्वयमेव विलीयते।।[4-4-211]
तत्स्वरूपमिदं सर्वं जगदाभोगि विद्यते।
जायते तत्र जाते तु तस्मिन्नष्टे विनश्यति।।[4-4-212]
ब्रह्मविष्ण्विन्द्ररुद्रादींस्तस्यैवावयवान्विदुः।
शून्ये व्योमनि तेनेदं निर्मितं त्रिजगत्पुरम्।।[4-4-213]
प्रतिभासानुसन्धानमात्रेणैति विरञ्चिताम्।
यत्रैते वितता लोकालोककोशाश्चतुर्दश।।[4-4-214]
वनोपवनमालाश्च यत्रोद्यानपरम्परा।
क्रीडाशिखरिणो यत्र सह्यमन्दरमेरवः।।[4-4-215]
शीतोष्णदीप्तौ चन्द्रार्कौ दीपौ चण्डानिलाक्षतौ।
सूर्यांशुकवदालोलत्तरङ्गोङ्गमौक्तिकाः।।[4-4-216]
वहन्ति सरितो यत्र सन्मुक्तावलयश्चलाः।
इक्षुक्षीरादिसलिला मणिरत्नबिसाङ्कुराः।।[4-4-217]
और्वानलाम्बुजा यत्र वाप्यः सप्तमहार्णवाः।
तस्मिन्नेव जगत्यस्मिन्पुरे संकल्पभूभृता।।[4-4-218]
क्रीडार्थमात्मनश्चित्रा देहापवरकाः कृताः।
केचिद्गीर्वाणनामान ऊर्ध्व एव नियोजिताः।।[4-4-219]
नरनागादयः केचिन्मध्येऽधश्च नियोजिताः।
प्राणयन्त्रप्रवाहेण चलन्तो मांसमृन्मयाः।।[4-4-220]
सितास्थिदारवः स्निग्धत्वग्लेपमसृणामलाः।
केचित्केशोलपोल्लासरचिताच्छादनश्रियः।।[4-4-221]
कर्णाक्षिनासाप्रमुखैर्द्वारैर्नवभिरन्विताः।
कर्णनासास्यताल्वादिवातायनगणान्विताः।।[4-4-222]
भुजाद्यङ्गप्रतोलीकाः पञ्चेन्द्रियकदीपकाः।
मायया रचितास्तेषु संकल्पेन महामते।।[4-4-223]
अहंकारमहायक्षाः परमालोकभीषणाः।
देहापवरकस्यान्तर्महाहंकारपक्षकैः।।[4-4-224]
सहितः क्रीडतेऽत्यर्थं तस्मिन्नेवासदुत्थितैः।
क्षणमभ्युदयं याति क्षणं शाम्यति दीपवत्।।[4-4-225]
देहगेहेषु संकल्पस्तरङ्गः सागरेष्विव।
भविष्यन्नेव निर्माणमवाप्नोति तदा पुरम्।।[4-4-226]
यदा संकल्पितं वस्तु क्षणादेव प्रपश्यति।
असंकल्पनमात्रेण स्वेनैवाशु विनश्यति।।[4-4-227]
अनन्तायात्मदुःस्वाय नानन्दाय कदाचन।
इदं स्फारं जगद्दुःखं प्रतनोत्यात्मसत्तया।।[4-4-228]
असत्तया नाशयति घनं सांध्यं यथा तमः।
स्वयैव दुःखदायिन्या चेष्टया परिरोदिति।।[4-4-229]
संकल्पितानन्दलवस्तिष्ठत्युत्तरकन्धरम्।
त्रयस्तस्यामतेर्देहा अधमोत्तममध्यमाः।।[4-4-230]
तमःसत्त्वरजःसंज्ञाः कारणं जगतः स्थितेः।
तमोरूपो हि संकल्पो नित्यं प्राकृतचेष्टया।।[4-4-231]
परां कृपणतामेत्य प्रयाति कृमिकीटताम्।
सत्त्वरूपो हि संकल्पो धर्मज्ञानपरायणः।।[4-4-232]
अदूरकेवलीभावः साम्राज्य इव तिष्ठति।
रजोरूपो हि संकल्पो लोकसंव्यवहारवान्।।[4-4-233]
परितिष्ठति संसारे पुत्रदारानुरञ्जितः।
त्रिविधं तु परित्यज्य रूपमेतन्महामते।।[4-4-234]
संकल्पः परमायाति पदमात्मपरिक्षये।
सर्वा दृष्टीः परित्यज्य नियम्य मनसा मनः।।[4-4-235]
सबाह्याभ्यन्तरस्थस्य संकल्पस्य क्षयं कुरु।
यदि वर्षसहस्राणि तपश्चरसि दारुणम्।।[4-4-236]
पातालस्थश्च भूस्थश्च स्वर्गस्थश्चापि तत्तव।
नान्यः कश्चिदुपायोऽस्ति संकल्पोपशमादृते।।[4-4-237]
अनाबाधैऽविकारे च सुखे परमपावने।
संकल्पोपरमे यत्नं पौरुषेण परं कुरु।।[4-4-238]
संकल्पतन्तावखिला भावाः प्रोताः किलानघ।
छिन्ने तन्तौ न जाने ते क्व यान्ति विशरारवः।।[4-4-239]
निःसंकल्पो यथाप्राप्तव्यवहारपरो भव।
चिदचित्योन्मुखत्वं हि याति संकल्पसंक्षये।।,4-4-240]
अधिगतपरमार्थतामुपेत्य प्रसभमपास्य विकल्पजालमुच्चैः।
अधिगमय पदं तदद्वितीयं विततसुखाय सुषुप्तचित्तवृत्तिः।।[4-4-241]
पुत्र उवाच।।
कीदृशस्तात संकल्पः कथमुत्पद्यते प्रभो।
कथं वा वृद्धिमायाति कथं चैष विनश्यति।।[4-4-242]
तस्येति।। भविष्यन्निर्माणं पुरं भाविदेहान्तरम्।।[4-4-201 TO 4-4-242]
दाशूर उवाच।।
अनन्तस्यात्मतत्त्वस्य सत्तासामान्यरूपिणः।
चितश्चेत्योन्मुखत्वं यत्तत्संकल्पाङ्कुरं विदुः।।[4-4-243]
अनन्तस्येति।। सत्तासामान्यरूपिणः सर्वात एवानन्तस्यात्मतत्त्वस्य स्वरूपभूतचितश्चैतन्यस्य यच्चेत्योन्मुखत्वं बहिर्मुखत्वं तदेव संकल्पस्याङ्कुरं सूक्ष्मरूपं विदुः।।[4-4-243]
लेशतः प्राप्तसत्ताकः स एव घनतां शनैः।
याति चित्तत्त्वमापूर्य दृढं जाड्याय मेघवत्।।[4-4-244]
लेशोति।। लेशतः सूक्ष्मांशेन प्राप्तसत्ताको लब्धस्वरूपः स एव चिच्चेत्योन्मुखीभावरूपः संकल्पाङ्कुर एव शनैश्चित्तत्त्वं चितः स्वरूपं दृढमापूर्य जाड्याय जडात्मकप्रपञ्चभावेन परिमतये घनतां घनीभावं याति मेघवत्। यथा हि मेघः प्रथमं लेशतः प्राप्तसत्ताकः शनैराकाशमापूर्य जाड्याय जडाविर्भावाय घनतां याति तद्वदित्यर्थः।।
भावयन्ती चितिश्चेत्यं व्यतिरिक्तमिवात्मनः।
संकल्पतामिवायाति बीजमङ्कुरतामिव।।[4-4-245]
भावयन्तीति।। चितिरात्मनश्चैतन्यं चेत्यं दृश्यं आत्मनो व्यतिरिक्तमिव विभावयन्ती सती संकल्पतामायातीव बीजमङ्कुरतामिव। चितः स्वव्यतिरिक्ततया चेत्यभावनं संकल्प इत्यर्थः।।
संकल्पनं हि संकल्पः स्वयमेव प्रजायते।
वर्धते स्वत एवाशु दुःखाय न सुखाय तु।।[4-4-246]
आयातीवेत्यनेन भ्रान्तिमात्रकल्पितमेतत् न परमार्थत इति दर्शयति संकल्पनमिति।। हि यस्मात्कारणात् संकल्पनमसत्कल्पनमेव संकल्पस्तस्मात्तस्य निमित्तान्तरानपेक्षत्वात् स्वयमेव प्रजायते प्रादुर्भवति स्वत एव चाशु वर्धते किंतु ससंकल्पो दुःखाय केवलं नतु कदाचिदपि सुखाय अतो हेय एवेत्यर्थः।।
मा संकल्पय संकल्पं भावं भावय मा स्थितौ।
एतावतैव भावेन भव्यो भवसि भूतये।।[4-4-247]
तस्य हानोपायमुपदिशति-मेति।। संकल्पं मा संकल्पय मा प्रवर्तय। स्थितौ जगत्स्थितौ भावं तात्पर्यं मा भावय मा कुरु। एतावता निःसंकल्पेन जगत्स्थितौ निरादरेण च भावेनाभिप्रायेणैव भूतये मुक्तये भव्यो भवसि योग्यो भविष्यसि।।
संकल्पनाशने यत्नो न भूयाननुगच्छति।
भावनाभावमात्रेण संकल्पो जीयते ह्ययम्।।[4-4-248]
संकल्पेति।। संकल्पनाशने भूयान्प्रयत्नो नानुगच्छति। हि यस्मात्कारणात्संकल्पः भावनायाः संकल्पनायाः अभावमात्रेणाप्रवर्ततेनैव।।
सुमनःकुसुमामर्दे किंचिद्व्यतिकरो भवेत्।
सुसाध्याऽभावमात्रेण न तु संकल्पनाशने।।[4-4-249]
सुमन इति।। सुमनःकुसुमं मालतीपुष्पं तस्य संकल्पनाशे तु न कश्चिद्व्यतिकरः न कोऽपि यत्नभेदः। कुतः। सुसाध्याभावमात्रेण सुखसाध्यस्यापि कार्यस्याभावात् उपेक्षामात्रनिवर्त्यत्वात्संकल्पस्येति।।
संकल्पेनैव संकल्पं मनसैव मनो मुने।
छित्त्वा स्वात्मनि तिष्ट त्वं किमेतावति दुष्करम्।।[4-4-250]
संकल्पेनेति।। तत्रान्तर्मुखेन संकल्पेन बहिर्मुखस्य संकल्पस्य छेदः। शास्त्रसंगमधीरेणातप्तेन मनसा चिन्तासंतप्तस्य मनसश्छेद इति विवेकः।।
यथैवेदं नभः शून्यं जगच्छून्यं तथैव हि।
असन्मयविकल्पोत्थे उभे एते तते यतः।।[4-4-251]
संकल्पस्य बहिर्मुखत्वनिवृत्तये जगतो व्योमवच्छून्यतामाह-यथेति।। यतः कारणात् एते उभे जगन्नभसी असन्मयविकल्पोत्थे अज्ञानमयाद्विकल्पादेवोत्थिते सती तते विस्तीर्णे। अतः कल्पितत्वाविशेषादुभयोः शून्यत्वमित्यर्थः।।
तन्दुलस्य यथा चर्म यथा ताम्रस्य कालिमा।
नश्यति क्रियया पुत्र पुरुषस्य तता मलः।।[4-4-252]
जीवस्य तन्दुलस्येव मलं सहजमप्यलम्।
नाश्यत्येष न संदेहस्तस्मादुद्यमवान्भव।।[4-4-253]
ननु स्वाभाविकस्य मलस्य कथं पौरुषेण निवृत्तिरित्याशङ्क्य दृष्टान्तमुखेनोपपादयन्नाह-तन्दुलस्येति।। अत्र यथावहननादिक्रियया तन्दुलस्य चर्मनाशः। अम्ललवणादिबिः क्षालनया ताम्रस्य कालिमानाशः। तथा श्रवणमननादिक्रियया पुरुषस्याज्ञानरूपमलविनाश इति विवेकः।।[4-4-252,253]
मम गुरुविभवोऽज्ज्वला विलासा इति तव मास्तु वृथैव विभ्रमोऽन्तः।
त्वमपि च वितताश्च ते विलासा विलसति सर्वमिदं चिदात्मतत्त्वम्।।[4-4-254]
वसिष्ठ उवाच।।
इत्याकर्ण्य तदा तत्र रात्रावालपनं द्वयोः।
अहं रघुकुलाकाशशशाङ्ग रघुनन्दन।।[4-4-255]
पतितः स्वात्कदाम्बाग्रे पत्रपुष्पफलाकुले।
मामप्यालोक्य संप्राप्तं दाशूरोऽर्घं सपर्यया।।[4-4-256]
वितीर्णविष्टरे पत्रे परया पर्यपूजयत्।
आवयोस्तत्र चित्राभिः कथाभिरितरेतरम्।।[4-4-257]
शर्वरी सा व्यतीयाय मुहूर्त इव कान्तयोः।
अहं विसृज्य दाशूरं ततोऽमरनदीं गतः।।[4-4-258]
दाशूराख्यायिकैषा ते कथिता रघुनन्दन।
दाशूराख्यायिकेवेदं जगदित्येव भाव्यताम्।।[4-4-259]
इति श्रीयोगवासिष्ठसारे मोक्षोपाये स्थितिप्रव्दाशूराख्यानं नाम चतुर्थः सर्गः।। 4 ।।
ममेति।। गुरुणां महतां विभवानां संपदां उज्ज्वलाविलसा ममेति मदीया इति अन्तःकरणे वृथैव विभ्रमो मास्तु। त्वमपि विततास्ते विलासा अपि च सर्वमिदं तदात्मतत्त्वमेव विलसति।।[4-4-254,255,256,257,258,259]
इति श्रीमदल्लालसूरिसूनुना पदवाक्यप्रमाणपारावारपारदृश्वना श्रीमुम्मडिदेवविद्वदाचार्येण विरचिते संसारतरणिनाम्नि वासिष्ठविवरणे स्थितिप्रकरणे दाशूरोपाख्यानं नाम चतुर्थः सर्गः।। 4 ।।