सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
चतुर्थः सर्गः।

वो येषां तैः माल्यरूपेण प्रथितैः । कलापिनां पत्रैः मयूरपिञ्छैः । पत्रलदेहकान्ति पत्रं लाति आदत्त इति पत्रला पत्रवती देहकान्तिर्यस्य तं मेदुरदेहकान्तिमिति यावत् । पत्रोपपदाल्लातेः ‘आतोऽनुपसर्गे कः' इति कः। लच्प्रत्ययस्तु न सभवति, सिध्मादावपाठात् । अत एव वामनसूत्रम् । ' पत्र लातेः कः' इति । आद्यम् । सचारितमाल जगमं तापिञ्छवृक्ष कृष्णमिति भावः । अत एव निगीर्याध्यवसानादतिशयोक्तिः । 'कालस्कन्धस्तमाल: स्यात्तापिञ्छोऽपि' इत्यमरः । अवाय संप्राग्य । अस्य कृष्णस्य । छायात्मतां प्रापुरिव छायावत्तमेवान्वसरनित्यर्थः ॥ ५५ ॥ वितन्त्रता मान्मथमिन्द्रजालं पिञ्छेन तापिञ्छनिमो वभासे । अनेकरत्नप्रभवेन धाम्ना ___ शारात्मना शैल इवेन्द्रनीलः ॥ ५६ ॥ वितन्वतेति। तापिञ्छनिभः तमालश्यामलः कृष्णः। मान्मथ मन्मथसबन्धि । इन्द्रजाल द्रष्टजनव्यामोहनम् । 'देशकालापरोक्ष्य यत्परोक्षस्यैव वस्तुनः । मन्त्रौषक्रियाभेदैरिन्द्रजाल प्रचक्षते ।' वितन्वता । पिञ्छेन । ऐन्द्रजालिका मयूरपिञ्छभ्रमणेन द्रष्टुन्व्यामोहयन्तीति प्रसिद्धिः । अनेकरत्नप्रभवेन वज्रवैडूर्यमरकतादिबहुविधरमप्रभवेन । अत एव, शारात्मना विचित्ररूपेण । धाना तेजसा । ऐन्द्रनीलः शैल इव इन्द्रनीलमयपर्वत इव । बभासे भाति स्म ॥ ५६ ॥ •मुहुः स्पृशन्ती मुमुदे यशोदा मुग्धाजनामोहनवांशिकेन ।