सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
यादवाभ्युदये

त्रस्यन्मुकुन्दो नवनीतचौर्या निर्भुग्नगात्रो निभृतं शयानः । निजानि निःशब्ददशा ययाचे बद्धाञ्जलिं बालविभूषणानि ।। २९ ।। त्रस्यन्निति । नवनीतचौयाद्धेतोः । त्रस्यन् गोपिकाभ्यो बिभ्यत् । निर्भुग्नगात्रः निभृतं शयानः, नवनीतशून्य भाण्ड दृष्ट्वा मामन्विष्य गोपिका मा द्राक्षुरिति सचितगात्र. क्वचिद्गृहकोणे निःशब्द शयानः । मुकुन्दः । निजानि । बालविभूषणानि । अञ्जलि बडा । निःशब्ददशां ययाचे, धूतान्यपि निःशब्दानि भवन्त्विति साञ्जलिबन्धः प्रार्थितवानित्यर्थः । याचतियोगात · अथितं च' इति भूषणानां कर्मत्वम् ॥२९॥ आरण्यकानां प्रभवः फलाना मरण्यजातानि फलान्यभीप्सन् । वित्रंसिधान्याञ्जलिना करेण व्याधात्मजां विश्वपतिः सिषेवे ॥ ३०॥ आरण्यकानामिति । अरण्यसबन्धिनोऽध्याया उपनिषद्भागा आरण्यकाः ते धरण्यऽध्येयाः । 'अध्यायन्यायविहारमनुष्यहस्तिध्विति वक्तव्यम्' इत्यरण्यशब्दादध्याये वुञ्प्रत्ययः । तत्प्रतिपाद्यतया तत्सबन्धीनि दहराशुपासनफलान्यारण्यकानि फलानि । 'क्वचिदपवादविषयेऽयुत्सर्गोऽ. भिनिविशते' इति न्यायाच्छप्रत्ययविषयादप्यारण्यकशब्दात्प्राग्दीव्यती. योऽप्रत्ययः । तेषां फलानाम् । प्रभवः उत्पत्तिस्थानभूतः । अरण्यशब्दादणि स्वार्थे कप्रत्ययो वा । आरण्यकानां अरण्यजातानां फलानां