पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
चतुर्थः सर्गः।

य एष लोकत्रयसूत्रधारः पर्यायपात्राणि चराचराणि । आनर्तयत्यद्भुतचेष्टितोऽसौ ननर्त खेलं नवनीतकाङ्क्षी ।। २७ ॥ य एष इति । लोकत्रयस्य सूत्रधार नर्तयिता । य एषः । पर्यायपात्राणि क्रमेण नर्तकरूपतां प्रारनि । चराचराणि स्थावरजङ्गमानि । आनर्तयति । अद्भुतचेष्टित आवाग्त्र ! अौ कृष्ण । नवनीतकाक्षी सन् । आभीण्य णिनिः । खेल सुन्दर यथा तथा । ननत । नर्तन दृष्टा गोप्यो नवनीत प्रयच्छन्तीति तदर्थ नृत्यति स्म ॥ २७ ॥ गृहेषु दध्नो मथनप्रवृत्ती पृषत्कणैरुत्पतितैः प्रकीर्णः । निदर्शयामास निजामवस्था ___प्राची सुधाशीकरयोगचित्राम् ।। २८ ॥ गृहेष्विति । गृहेषु स्वगृहे अन्येषु बन्धुगृहेषु च । दध्नः । मथनस्य प्रवृत्तौ । उत्पतितैः उत्थितैः । पृषत्कणे दधिबिन्दुलेशै । प्राण. अवकीर्णः, नवनीतादरेण समीपेऽवस्थानादिति भाव । कृष्णः । सुधाशीकरयोगचित्रां अमृतकणसपर्केण कवुराम् । प्राचा अमृतमथनकालीनाम् । निजाम् । अवस्थां दशाम् । निदर्शयामारा प्रदर्शयति स्म, तद्दशायामेव स्थितोऽस्मीति दर्शितवानित्यर्थः । निदर्शयामास स्वात्मना दृष्टान्तीकृतवानिति वा । आद्यपक्षे अवयवेषु दधिबिन्दुविसरेण अमृतमथनावस्था दर्शितेति प्रकृतक्रियया अशक्यवस्त्वन्तरकरणात्मा विशेषालकारः। द्वितीयपक्षे उपमा ॥ २८ ॥