सुधाभिराप्लाव्य करस्थिताभिः प्रच्यावयामास विषं मुधांशुः ॥ ८३ ॥ स्वविप्रयोगेति । सुधांशु । कुमुद्रतीभिः । स्वविप्रयोगव्यसनात् स्वविश्लेषदुःखात् । भृङ्गापदेशेन भ्रमरव्याजेन । निपातम्। विषम् । करे किरणे एव हस्ते स्थिताभि । सुधाभि. आ'लाव्य कुमुदनीरासिच्य । प्रच्यावयामा स । अत्र विशेषणसाम्यात्कुमुदिनीनां चन्द्रस्य च दतिभावप्रतीतेः समा. सोक्तिः । स्वविप्रयोगव्यसनादिति विषपाने हेतृत्प्रेक्षा । निपीतमिति मुकुलीभावसमये भृङ्गाणामन्तःप्रवेशस्य निगीर्याध्यवसानादतिशयोक्तिः । भृङ्गापदेशेनेत्यपह्नुतिः । करस्थिताभिरिति श्लेषश्चेति संकरः॥ चकाशिरे पत्रकलासमृद्धया व्योमोपमे वारिणि कैरवाणि । ' कलङ्कदृश्यभ्रमराणि काले स्वनाथसाधम्येमुपागतानि ॥ ८४ ॥ चकाशिर इति । व्योमोपमे गगनसदृशे । वारिणि । पत्राणि दलानि कलाः इव तासां समृद्ध्या, उपलक्षितानि । कलङ्क इव दृश्यः कान्तः भ्रमरो येषु तानि। कैरवाणि । काले निशासमये । स्वनाथेन व्योमनि कलासमृद्धिमता कलङ्कचित्रितेन च चन्द्रेण साधय सादृश्यम् । उपागतानीव । प्राप्तानीव चकाशिरे । उपमासंकीर्णोत्प्रेक्षालंकारः । अत्रापि स्वमध्यसपन्नेत्यादिश्लोक इव उपमाने व्योनि कलाकलङ्काः, उपमेये वारिणि पत्रभ्रमराः इति भेदादुभयसाधारणधर्माभावेन मुख्यसादृश्याभावात्पत्रकलादिधर्मसादृश्येन निमित्तेन धर्मिसादृश्यमुत्प्रेक्ष्यत इत्युत्प्रेक्षोपपत्तिरनुसधेया ॥ ८४ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५७
दिखावट