अधःप्रदेशेषु । छायाः । शशाङ्केनैव सिंहेन । लूनाकृतीनां कृत्तगात्राणाम् । तमसामेव गजानां कुञ्जराणाम् । गात्रखण्डा इव । अवेपन्त अकम्पन्त । सद्यःकृत्ता गात्रखण्डाः क्षण कम्पन्ते । रूपकसंकीर्णोत्प्रेक्षालकारः ॥ ८१ ॥ तमस्तरङ्गानवसादयन्त्या समेयुषी चन्द्रिकया महत्या । सुरस्रवन्त्येव कलिन्दकन्या श्यामा बभौ सान्द्रनवोत्पलश्रीः ॥ ८२ ॥ तम इति । तमास तरङ्गा इव तान् । अवसादयन्त्या आभिभवन्त्या । चन्द्रिकया। समेयुषी सगता। सान्द्रनवोत्पलश्रीः निविडनवकुवलयशोभा। श्यामा रात्रिः । महत्या । अत एव स्वकीयतरङ्गानभिभवन्त्या। सुरस्रवन्त्या गङ्गया। समेयुषी । नवेन्दीवरश्यामा। कलिन्दकन्या यमुनेव। बभौ। उपमालंकारः । अत्रेन्दीवराणां रात्रौ निमीलनस्य वर्णितत्वात्तदविरोधायोत्पलशब्दः उपमेयविशेषणत्वे कैरवपरो द्रष्टव्यः । ‘स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च । इन्दीवर च नीलेऽस्मिन्सिते कुमुदकैरवे ॥' इत्यमरसिहेन कुमुदेन्दीवरमाधारणतयानुशिष्टस्य तस्याभिमतविशेषे र्पयवसानात् । यद्वा, इन्दीवरपरत्वेऽपि न विरोधः । रात्रौ तेषां विकासस्यापि कविसमयप्रसिद्धेः प्रागुक्ततया कविसमयद्वैविध्यख्यापनाय द्वेधापि वर्णनोपपत्तेः ॥ ८२ ॥ स्वविप्रयोगव्यसनानिपीतं भृङ्गापदेशेन कुमुदतीभिः ।
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५६
दिखावट