तमः क्षिपन्त्यौ जगतां त्रयाणा मन्योन्यसंवादमिवान्वभूताम् ॥ ७३ ॥ खमध्येति । स्वस्मिन् आत्मीये मध्ये अर्धरात्रे सपन्न विशुद्ध शुभ्र धाम चन्द्रज्योतिः यस्यां सा । देवकीपक्षे स्वमध्ये स्वावलमे सपन्न निखिलहेयगुणरहितं पर ज्योतिर्यस्याः सा । श्यामा निशा । सा। देवकस्य नन्दनी देवकी च । त्रयाणाम् । जगताम् । तम अन्धकार शोक च । क्षिपन्त्यौ निरस्यन्त्यौ उभे । अन्योन्य सवाद परस्परसादृश्यम् । अन्वभूतामिव । अत्र स्वमध्येत्यादिश्लेषानुप्राणित. प्रस्तुतयोः श्यामादेवक्योः सवादानुभवलक्षणैकक्रियान्वयरूपस्तुल्ययोगितालङ्कारः। स च क्रियान्वयः सभाव्यमान इत्युत्प्रेक्षेत्येषां सङ्करः। नन्वत्र स्वमध्यसपनविशुद्धधामत्वादिगुणसाधारण्येन वस्तु सदेव श्यामादेवक्योः सादृश्यम् । अत किमत्रोत्प्रेक्ष्यते । उच्यते। स्वमध्येत्यादिशब्दसाधारण्येऽपि पक्षद्वयेऽपि तस्य भिनार्थपर्यवसानानात्र साधारणधर्मोऽस्तीत्यसदेव सादृश्यम् । धर्मवाचक श्लेषमात्रेणोत्प्रेक्ष्यत इति युक्तम् । नन्वेव 'सकलकल पुरमेतज्जात संप्रति सुधांशुविम्बभिव' इत्यादौ वास्तवसादृश्याभावादुपमा न स्यात् । सत्यम् । तथापि तत्र श्लेषभित्तिकाभेदाध्यवसायरूपातिशयोक्तिकल्पितन धर्मसाधारण्येन कविप्रौढोक्तिनिष्पादित सादृश्यमादायोपमानिर्देशः । इह तु तादृश सादृश्य निश्चयेनानिम्पाद्य सभाव्यत इति विशेषः । नन्दनीति नन्दधातोः करणार्थे ल्युट् । न तु नन्द्यादिल्युः । तथा सति टित्त्वनिमित्ताभावेन डीबनुपपत्तेः । न च सरूपत्वाल्लयुटो बाधः शङ्कनीयः । कर्थन करणार्थस्य भिन्नविषयस्य बाधप्रसक्त्यभावात् ॥ ७३ ॥
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५०
दिखावट