पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०१
द्वितीयः सर्गः।

दाध्यवसायरूपातिशयोक्तिः । 'तोयमधु' 'चन्द्रद्युतिनर्तकीभिः' इति रूपकाभ्यामम्बुराशिरिति शृङ्गारनायकत्वरूपणं गम्यत इत्येकदेशवर्ति रूपकम् । पीत्वेति नदीजलप्रदेशे समुद्रकर्तृकपानत्वाध्यवसायरूपातिशयोक्तिः । प्रीत इवेति काव्यलिङ्गं हेतूत्प्रेक्षा च। ताण्डवमिति सक्षोभे ताण्डवताध्यवसायरूपातिशयोक्तिश्चेति सङ्करः ॥ ७१ ॥ कलङ्कचित्रीकृतमिन्दुखण्डं तमःसमध्यासितसत्त्वकल्पम् । अशुष्कशैवालमिवाबभासे सिद्धापगासैकतमर्धदृश्यम् ।। ७२ ॥ कलङ्केति । कलङ्केन चित्रीकृत पूर्व कलङ्कस्योदयरागाभिभूतत्वादचित्र तदपगमे स्फुटन तेन चित्रीकृतम् । अभूततद्भावे च्चिप्रत्ययः । अन एव, तमःसमध्यासितसत्त्वकल्प सत्त्वतमसोः सितासितरूपत्वातमोगुणाधिष्ठितसत्त्वगुणतुल्यमित्यर्थः । ईषदसमाप्तौ विहितः कल्पप्रत्ययः सादृश्यपर्यवसायी। 'कल्पब्देशीयदेश्यादिः प्रख्यप्रतिनिधी अपि।' इत्युपमावाचकेषु दण्डिना पठितत्वात् । कचित्तु निभसकाशादिवदुत्तरपदत्वनियतमुपमावाचक कल्पप्रातिपदिकमप्यस्तीत्याहुः । एव भूतम् , इन्दुखण्ड अष्टमीन्दुशकलं कर्तृ, । अशुष्क शैवाल यस्मिस्तत् । अर्धे अर्धभागे दृश्यम् । सिद्धापगासैकत आकाशगङ्गापुलिनमिव । आबभासे इत्युत्प्रेक्षा। तमःसमाध्यासितेत्यदि उपमा चेति संसृष्टिः ॥ ७२ ॥ स्वमध्यसंपनविशुद्धधामा श्यामा च सा देवकनन्दनी च।