________________
१०० यादवाभ्युदये तमोमयीं सूर्यसुतां निगीर्य ज्योत्स्नानदी शोणमपि व्यमुश्चत् ॥ ७० ॥ विशोधितादिति । विशोधितात् तमोनिरसनेन समृष्टात् । विष्णुपदात् आकाशात् । सागरवृद्धरेव हेतोः वृद्धयर्थमित्यर्थः । षष्ठी हेतुप्रयोगे' इति षष्ठी । विध्वड्मुखी सर्वतोमुखी । क्षरन्ती । ज्योत्स्नैव नदी गङ्गा । तमोमयी अन्धकाररूपाम् । सूर्यसुतां यमुनाम् । निगीर्य ग्रसित्वा । शोण उदयरागर्माप । अमुञ्चत् । गङ्गापि शोधितात् चतुर्मुखेन क्षालितात् विष्णोश्चरणात्सागर पूरणार्थ विष्वमुखी मेरोः उपरि स्थितस्य ब्रह्मपुरस्य चतसृषु दिक्षु गङ्गा सिता अलकनन्दा चक्षुर्भद्रेति चतुर्धा विभिद्य सर्वतोमुखतया क्षरन्ती सती यमुनासगमनानन्तर तामुत्तरत्र ग्रस्तामिव कृत्वा स्वय प्राधान्येन प्रवहन्ती तदनन्तर शोणनदेन सयुज्य तमपि समुद्रसमीपे विसृज्य गच्छतीति स्थितिः। विष्णुपदादिति श्लेषण तमोमयी सूर्यसुतामित्यपगुत्या च सकीर्णो रूपकालङ्कारः ॥ ७० ॥ . प्रियामुखैस्तोयमधु प्रदिष्टं पीत्वा नवं प्रीत इवाम्बुराशिः। समेत्य चन्द्रद्युतिनर्तकीभि स्तरङ्गितं ताण्डवमाततान ॥ ७१।। प्रियति । अम्बुराशिः । प्रियामुखैः नदीस्रोतोभिः । 'मुखं निःसरणे वके' इति विश्वः । प्रदिष्टं दत्तम् । नवम् । तोयमेव मधु मद्यम् । पीत्वा । प्रीत इव । चन्द्रद्युतिभिरेव नर्तकीभिः । समेत्य । तरङ्गितं संजाततरङ्गं प्रबुद्धम् । ताण्डवं उद्धत नटनम् । आततान विस्तारयामास.। अत्र नदीषु प्रियात्वाध्यवसायरूपातिशयोक्तिः । मुखशब्दश्लेषेण स्रोतसां वक्त्राभ