पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०३
द्वितीयः सर्गः।

शाखावकाशेषु कृतप्रवेशै श्चन्द्रातपैराश्रितचारकृत्यैः। हतावशिष्टानि तमांसि हन्तुं स्थानं तदाक्रान्तममृग्यतेव ॥ ७४ ॥ शाखेति । शाखानां अवकाशेषु रन्ध्रेषु । कृतप्रवेशैः । चन्द्रातपैः चन्द्रस्य प्रकाशैः । आश्रितचारकृत्यैः सद्भिः । हतावशिष्टानि चन्द्रेण हतानां तमसामवाशिष्टानि । तमांसि। हन्तु। तैः अवशिष्टतमोभिराक्रान्तम् । स्थानं तरुषण्डमूलरूपम् । अमृग्यतेव मार्गितमिवेति स्वरूपोत्प्रेक्षा। हन्तुमिति फलोत्प्रेक्षा चेति सङ्करः। 'प्रकाशो द्योत . आतपः' इत्यमरः ॥ ७४ ॥ पराकृतध्वान्तनिकायपकैः पर्याप्ततारागणफेनपुर अशोभत द्यौरसमायुधस्य यशःप्रवाहैरिव चन्द्रपादैः ॥ ७५ ॥ पराकृतेति । द्यौः अन्तरिक्षम् । पराकृतध्वान्तनिकायपङ्कः निरस्ततमःसमूहकर्दमैः । पर्याप्ततारागणफेनपुरैः परिपूर्णनक्षत्रगणडिण्डीरनिवहैः । चन्द्रस्य पादैः किरणैः । असमायुधस्य अयुग्मायुधस्य पञ्चशरस्य । यशःप्रवाहैरिव । अशोभत । रूपकसंकीर्णोत्प्रेक्षालंकारः॥ ७५ ॥ ददानया दिक्सरितां प्रसाद प्रसक्तहसागमया स्वकान्त्या