निदर्शनालङ्कारः। स च तमोगजानिति रूपकेण अग्रकरणेति श्लिष्ट. रूपकण तन्मदलेपत्वोत्प्रेक्षया च उत्थापित इति सङ्करः । अग्र चासौ करश्चेत्यवयवावयविनोरभेदान्समानाधिकरणसमामः । यथाह वामनः'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्' इति । अभिशुशब्द. स्तालव्यान्त । 'अभीषुः प्रनो रश्मो' इति बान्तेष्वमरकोशे । अयं वल्मिकवल्मीकवद्रस्वमध्यो दीर्घम यश्च । 'अभीशुभिः सूर्य इवाभिदीप्त' इत्यग्रे दीर्घम योऽपि वक्ष्यते ॥ ६६ ॥ निशीथलक्ष्म्या इव पुण्डरीक निवेशसिन्धोरिव फेनचक्रम् । तमन्ववक्षन्त विलासतन्त्रा तारामणीनामिव मूतिशुक्तिम् ॥ ६७ ।। निशोथेति । विलासः तन्त्र प्रधान येपा ते विलारातन्त्राः विलासप्रधाना विलासिनः । 'तन्त्र खराष्ट्रव्यापारे तन्तुवाय पच्छिदे। शास्त्रे प्र. धाने सिद्धान्ते प्रयोगऽध्वरकर्मणाम्।' इति प्रकाशः। त चन्द्रम् । निशीथस्य लक्ष्मीः शोभैव कमला तस्याः। पुण्डरीकमिव । निर्वेशः सुखभाग एव सिन्धुः तस्य फेनचक्र फेनपुअमिव । तारा नक्षत्राण्यव मणयः तेषाम् । सूतेः उत्पत्तेः शुक्तिमिव । अन्ववक्षन्त उत्प्रेक्षन्तेत्यर्थः । अत्रैकस्यैव चन्द्रम्य बहुधीत्प्रेक्षणान्मालारूपोत्प्रेक्षालङ्कारः । तत्राद्योत्प्रेक्षा लक्ष्मीशब्दश्लेषमूलातिशयोक्त्युत्थापिता । द्वितीयतृतीये रूपकोत्थापिते हात भेदः ॥ ६७ ।। उदारतारागणबुद्धदौघ श्चन्द्रेण संपनमुधाप्रसूतिः।
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४४
दिखावट