सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९९
द्वितीयः सर्गः।

अशेषदृश्यामधिगम्य लक्ष्मी मालोकदुग्धोदधिरावभासे ॥ ६८ ॥ उदारेति । उदारो महान् तारागण एव बुद्रुदोघो यस्य स तथोक्तः । 'उदारो दातृमहतोः' इत्यमरः । चन्द्रेण । सपन्ना सुधाप्रसूतिः येन सः । आलोकः चन्द्रप्रकाश एव दुग्धोदनि । अशेपदृश्यां विश्वरमणीयाम् । लक्ष्मी शोभामेव कामलाम् । अभिगम्य लब्ध्वा । आवभासे । श्लेषानुप्राणिश्वसावयवरूपकालंकारः ॥ ६८ ॥ प्रकाशयन्विश्वमिदं यथाव चन्द्रोदयांदीपितसौम्यतारः। आसीनिशीथो जगतः प्रभूता दन्धस्य दैवादिव दृष्टिलाभः ॥ ६९ ।। 'प्रकाशयान्नति । विश्व अखिलम् । इद वस्तुजातम्। यथावत् सम्यक । प्रकाशयन् । चन्द्रस्य उदयन उद्दापिताः परिष्कृताः सौम्याः मनोज्ञाः ताराः यस्मिन् सः । निशीथ अर्धरात्रः । जगत लोकस्य । प्रभूतात् प्रचु रात् । दैवात् अदृष्टात् । अन्धस्य अपगतचक्षुषः । दृष्टिलाभ इव । आसीत् । दृष्टिपक्षे चन्द्रोदयाख्येन वैद्यामद्धन गुलिकाविशेषेण उद्दीपिता उत्तेजिता रूपग्रहणयोग्यत्वं प्रापिता गौम्या काचपटलादिविगमादनुग्रा तारका कनीनिका यस्येति तद्विरोएणयोजना । ‘सोम्यो वुधे मनोज्ञ स्यादनुग्रे सोमदैवते' इति विश्वः । उपमालंकारः ॥ ६९ ॥ विशोधिताद्विप्णुपदात्क्षरन्ती . विष्वङ्मुखी सागरवृद्धिहेतोः।