सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९७
द्वितीयः सर्गः।

उदीयमानस्य महोर्मियोगात् मामिच्युतं सागरमूलपङ्कम् ॥ ६५ ॥ जिगायति । शङ्खाश्रितशैवलाभ. शङ्खमाश्रितस्य शवलस्य सदृशी आभा यस्य सः । 'आभाप्रख्योपमाभिख्याः प्रकारः सनिभ निभम् । नीकाशाद्याश्च साम्यार्थाः समे स्युः शब्दनः परे ।' इति यादवः । चारुयतेः मनोज्ञप्रभस्य । चन्द्रमस. । कलङ्कः । उदीयमानस्य पातालात्स. मुद्ररन्ध्रमार्गेणोद्यनः तस्य । महोमिभिः कलाले योगात् । सामिच्युतम् । सागरस्य । मूलपकम् । जिगाय जयति स्मेत्युत्प्रेक्षा । यद्यपि 'जयति' इति नात्प्रक्षावाचकः कि तु स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति' इत्युपमावाचकेषु दण्डिना पठितत्वादुपमायां निरूढः, तथापि चन्द्रबिम्बलग्नसागरमूलपङ्कस्य उपमानस्य अप्रसिद्धतया ताद्रूप्येणोत्प्रेक्षाया एवौचि. त्यात् तत्रैव तस्य शब्दस्य पर्यवसानमिति उपमोपक्रमोत्प्रेक्षा ॥६५॥ उदत्य तुङ्गादुदयादिशृङ्गात् तमोगजानग्रकरेण निघ्नन् । निशाकरस्तन्मदलेपलक्ष्मा सिताभिशुः सिंहदशामयासीत् ।। ६६ ॥ उदेत्येति । तुङ्गात् । उदयाद्रेः शृङ्गात् । उदेत्य उद्गत्य । तमांस्येव गजान् । अप्रकरण अग्रकिरणेनैवाग्रहस्तेन । निघ्नन् । तेषां मदस्य लेप इव स्थितं लक्ष्म यस्य सः तन्मदलेपलक्ष्मा । सिताभिशुः शुभ्रमयूखः । निशाकरः। सिंहस्य । दशाम् । अयासीत् अगमत् । अत्र अन्यस्य दशा तदन्यस्य न संभवतीति तदशासादृश्यावगमादसंभवद्वस्तुसंबन्धनिबन्धनो