सामग्री पर जाएँ

पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
यादवाभ्युदये

उदेष्यतश्चक्रभृतो नियोगात् प्रादुर्भवन् प्रागिव पाञ्चजन्यः ॥ ६३ ॥ निशाकर इति । कुन्दस्य माध्यपुष्पम्य रुचिरिव रुचिर्यस्येति कुन्दरुचिः । वारिधिनिस्वनानां क्षोभणेन समुद्रघोषाणाम् । निष्पादकः । निशाकरः । उदेष्यतः । चक्रभृतः कृष्णस्य । नियोगात् । प्राक् तत्प्रादुर्भावात् पूर्वम् । प्रादुर्भवन् । पाञ्चजन्यः तदीयशङ्ख इव । चकाशे । पाञ्चजन्योऽपि धवलत्वात्कुन्दरुचि । कुन्दे मुकुन्दे रुचिरभिरतिभक्तिः अस्येति वा कुन्दरुचिः । 'कुन्द माध्ये च कुन्दो ना निधिभेदमुरद्विषोः ।। इति रत्नमाला । वारिधिनिरवनानां सादृश्यव्यपदेशेन तत्सदृशानां गम्भीरस्वनानां निष्पादकश्च भवति । अतस्ताद्रूप्येणोत्प्रेक्षालङ्कारः ॥ ६३ ॥ मृगेण निष्पन्नमृगाजिनश्रीः स्वपादविक्षेपमितान्तरिक्षः। मुरद्विषो वामनमूर्तिभाजः पर्यायतामन्वगमच्छ शाङ्कः ॥ ६४ ।। मृगेणेनि । मृगेण । निम्पन्ना मृगाजिनस्य श्रीः शोभा यस्य सः । स्वपादानां स्वकिरणानां विक्षेपेण परितः प्रसारणेन मित लोकैः प्रत्यक्षेण प्रमित अन्तरिक्ष यस्य सः । शशाङ्कः । वामनमूर्तिभाजः । मुरद्विषः ब्रह्मचर्याभिनयेन मृगाजिन धारयतः खचरणविक्षेपेण परिमितगगनस्य च । पर्यायतां सादृश्य । अन्वगमत् । उपमालङ्कारः ॥ ६४ ॥ जिगाय शङ्खाश्रितशैवलाभ थारुयुतेश्चन्द्रमसः कलङ्कः।