तमश्च रागं च विधूय चन्द्रः सम्मोदनं सत्वमिवोल्ललास ।। ६२ ॥ प्रसादमिति । अन्तःकरणस्य प्रसाद दाता आनन्ददानशीलः । ताच्छील्ये तृन् प्रत्ययः । ‘नलोकाव्यय' इत्यादिना तद्योगे षष्टीप्रतिषेधात् द्वितीया । इद विश्वम् । प्रकाश: आलोकैः । प्रलक्षयन् प्रत्यक्ष कुर्वन् । चन्द्रः। तमः अन्धकार छ । राग उदयारुण्यञ्च । विधूय त्यक्त्वा । सम्मोदन आनन्दकरम् । सत्वमिव शुद्धसत्वामव। उल्ललाम बभावित्यर्थः । सत्वमपि तमः तमोगुणम् । राग रजोगुणञ्च । विधूय कदाचिद्विवर्धते । रजस्तमश्वाभिभूय सत्व भवति भारत । रजस्रात्व तमश्चैव तमस्सत्व रजस्तथा ॥' इति गीतोक्तेः । तथा विवृद्ध व सत्व मनस प्रसादमैकाग्र्ययोग्यता ददाति । 'मनःप्रसादः सौम्यत्व मौनमात्मविनिग्रहः।' इत्यारभ्य ‘अफलाकाद्धिभिर्युक्तैरसात्विक परिचक्षते ।' इति गीतासु मन प्रसादस्य सत्वाधीन*त्वोक्तेः । तथा विवृद्धञ्च सत्व विश्वञ्च प्रकाशैज्ञान प्रत्यक्षयति । 'सर्वद्वारेषु देहेऽस्मिन् प्रकाश उपजायते । ज्ञान यदा तदा विद्यात् विवृद्ध सत्वमित्युत ॥' इति गीतोक्तेः । उपमालङ्कारः। उपमानोपमेययोभिन्नलिङ्गदोषस्तु कविभिर्नात्यन्तमाद्रियते । उत्प्रेक्षा वा । लिङ्गभेदबाधकमत्वेन उपमात्वनिरासे पारिशेष्यात् इवशब्दस्य सम्भावनापरत्वोपपत्तः । उत्प्रेक्षायां च लिङ्गभेदस्यादोपत्व वामनालङ्कारादिषु स्फुटम् । विस्तरभिया नेह लिख्यते ॥ ६२ ॥ निशाकरो वारिधिनिखनानां निष्पादकः कुन्दरुचिश्वकाशे ।
पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४१
दिखावट