पृष्ठम्:यादवाभ्युदयम् (सर्गाः १-४) (अप्पय्यदीक्षितव्याख्यासहितम्).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९४
यादवाभ्युदये

म्बुरार्शािरत्युपमितसमासः, शलाकृतिरित्युपमानानुरोधात् । तस्य । समीपत. समीपे । आद्यादित्वात् तमिः । शङ्खस्याकृतिरिवाकृतियस्य शङ्खाकृति. । इन्दुबिम्बः । दोषा रात्रिः तत्राविला प्रियाविरहदुःखोद्गतबाष्पकलुफा, दोपेण प्रमाप्रतिबन्धकेन विकृतेति श्लेषमूलकाभेदाड्यवसायरूपानिशयोक्तिः । तथाभूतया प्रोषितानां प्रवासिनां दृष्टया दत्तात् आहितात् । पित्तोपरागात् पित्तद्रव्यरापर्कादिव । पीतिमान पीतवर्णम । बभार । 'दुष्टलोचनाना पुमां लोचनरश्मिभिः निर्गत्य विषयान्व्याप्नुवतः पित्तद्रव्यम्य पातिनावकुण्ठनात् तेषु पीतिगभ्रमः इति तार्विकप्रक्रियया, एव हेतूत्प्रेक्षा उपमातिशयोक्त्यनुप्राणितेति सङ्करः ।। ३० ॥ कृशोदरीलोचनकृष्णलक्ष्मा राव्याः समिद्धोदयराग इन्दुः। कस्तूरिकाकुङ्कुमचित्रितात्मा कर्पूरविन्यास इवान्वभावि ॥ ६१ ॥ . कृशोदरीति । कृशोदरीणां लोचनमिव कृष्ण लक्ष्म चिह्न यस्य सः। समिद्धोदयराग: दीप्यमानोदयारुणिमा। इन्दुः । कस्तूरिकाकुङ्कुमाभ्यां चित्रितात्मा चित्रीकृताकृति. । रात्र्याः। कर्पूरविन्यास. कर्पूरतिलकविन्यास इव । अन्वभावि अनुभूत. । खस्य शुभ्रत्वात् कलङ्कादयरागयोगाच तथोत्प्रेक्षा। विशेषणसाम्याद्रात्रेवनितात्वप्रतीतस्समासोक्तिश्चेति तयोरन्योन्यानुप्राणितत्वेन सङ्करः ॥ ६१ ॥ प्रसादमन्तःकरणस्य दाता प्रत्यक्षयन्विश्वमिदं प्रकाशैः।