अथर्ववेदः/काण्डं २०/सूक्तम् ११९
दिखावट
← सूक्तं २०.११८ | अथर्ववेदः - काण्डं २० सूक्तं २०.११९ १ आयुः, २ श्रुष्टिगुः। |
सूक्तं २०.१२० → |
दे. इन्द्रः। प्रगाथः। |
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
पूर्वीर्ऋतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत ॥१॥
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥२॥