अथर्ववेदः/काण्डं २०/सूक्तम् १२०

विकिस्रोतः तः
← सूक्तं २०.११९ अथर्ववेदः - काण्डं २०
सूक्तं २०.१२०
देवातिथिः।
सूक्तं २०.१२१ →
दे. इन्द्रः। प्रगाथः।

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥२॥