सामग्री पर जाएँ

अथर्ववेदः/काण्डं २०/सूक्तम् ०६२

विकिस्रोतः तः
← सूक्तं २०.०६१ अथर्ववेदः - काण्डं २०
सूक्तं २०.०६२
१-४ सोभरिः, ५-७ नृमेधः, ८-१० गोषूक्त्यश्वसूक्तिनौ।
सूक्तं २०.०६३ →
दे. इन्द्रः। उष्णिक्, १-४ प्रगाथः(बृहती-सतोबृहती)।

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
वाजे चित्रं हवामहे ॥१॥
उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।
त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
सखाय इन्द्रमूतये ॥३॥
हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
इन्द्राय साम गायत विप्राय बृहते बृहत्।
धर्मकृते विपश्चिते पनस्यवे ॥५॥
त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
विश्वकर्मा विश्वदेवो महामसि ॥६॥
विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः ।
देवास्त इन्द्र सख्याय येमिरे ॥७॥
तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥
यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
गिरींरज्रामपः स्वर्वृषत्वना ॥९॥
स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥