अथर्ववेदः/काण्डं २०/सूक्तम् ०६३

विकिस्रोतः तः
← सूक्तं २०.०६२ अथर्ववेदः - काण्डं २०
सूक्तं २०.०६३
१-३ भुवनःसाधनो वा, ३ (उत्तरार्धः) भरद्वाजः, ४-६ गोतमः, ७-९ पर्वतः।
सूक्तं २०.०६४ →
दे. इन्द्रः। त्रिष्टुप्, उष्णिक्

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥
प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥
य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्यत्त्रिणं तमीमहे ॥७॥
येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
येना समुद्रमाविथा तमीमहे ॥८॥
येन सिन्धुं महीरपो रथामिव प्रचोदयः ।
पन्थामृतस्य यातवे तमीमहे ॥९॥