अथर्ववेदः/काण्डं २०/सूक्तम् ०६४

विकिस्रोतः तः
← सूक्तं २०.०६३ अथर्ववेदः - काण्डं २०
सूक्तं २०.०६४
१-३ नृमेधः, ४-६ विश्वमनाः।
सूक्तं २०.०६५ →
दे. इन्द्रः। उष्णिक्।

एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥
अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥
त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
एवा हि वीर स्तवते सदावृधः ॥४॥
इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् ।
उदानंश शवसा न भन्दना ॥५॥
तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥