सामग्री पर जाएँ

अथर्ववेदः/काण्डं २०/सूक्तम् ०६१

विकिस्रोतः तः
← सूक्तं २०.०६० अथर्ववेदः - काण्डं २०
सूक्तं २०.०६१
गोषूक्त्यश्वसूक्तिनौ।
सूक्तं २०.०६२ →
दे. इन्द्रः। उष्णिक्।

तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥
येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।
मन्दानो अस्य बर्हिषो वि राजसि ॥२॥
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
वृषपत्नीरपो जया दिवेदिवे ॥३॥
तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥
यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
गिरींरज्रामपः स्वर्वृषत्वना ॥५॥
स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥