. १५०पटल:]: महादेवकृतवैजयन्तीव्याख्यासमेतम् । ४०६ श्रुतौ हरति(तिः)प्रापणार्थत्वेन निवपतिशब्देन व्याख्यातः । प्रापणं तु मृदो वहनपूर्व- कमिति स्वेन वहत्यर्थों हरतिर्मध्ये प्रयुक्त इति न विसंवादस्तथा चाऽग्ने अङ्गिर इत्या- रम्य निवपतीत्यन्त हरत्यर्थ एवं त्रिर्मत्रेण तूष्णी चतुर्थमिति सिद्धम् ।
सिꣳहीरसि महिषीरसीत्युत्तरवेदिं करोति ।
उत्तरवेदि वेदिश्चतुरश्रा लोकप्रसिद्धा शम्यामानेनापि चतुरम्मता च यावत्खातघा- त्वालपांसुमिरुच्छ्रितां करोतीति यावत् । तदेव व्यूहनं कात्यायनेनोक्तम् ।
उरु प्रथस्वेति प्रथयति ।
प्रथितां यावत्कृतशम्याभ्यन्तररेखाव्यापिनीं करोति । पारद्वानेनाप्युक्तं शम्यामात्री प्रपयतीति । यज्ञपतिः प्रथतामित्यन्तः ।
ध्रुवाऽसीति शम्यया सꣳहन्ति ।
संघहयति शम्यया ।
देवेभ्यः कल्पस्वेति कल्पयति ।
यथा विशीर्णा न स्यात्तथा समर्थयति प्रान्तलेपेन ।
देवेभ्यः शुन्धस्वेत्यद्भिः प्रोक्षति ।
मद्भिरित्युक्तं लौकिकीमिरेव ।
देवेभ्यः शुम्भस्वेति सिकताभिरनु प्रकिरति ।
वेदि सिकता मृत्पांसवस्तैरनपरिष्टात्कीर्णा युक्तां करोति ।
यत्ते क्रूरं यदास्थितमिति पुनरेवाद्भिरवोक्षति ।
शुन्धतामित्यन्तः प्रकरणान्तरान्तर्गतोऽप्यत्र शाखान्तरविहितः प्रतीकेनोपातः सामर्थ्याद्यावत्तियं गृह्यतेऽवोक्षणं तु न्युब्नेन करेण प्रोक्षणमुत्तानेन ।
उत्तरतो दक्षिणतो वा स्फ्येनैकस्फ्यां निःसार्यापो रिप्रं निर्वहतेत्यपाꣳ शेषं निनयति ।
उत्तरवेदेरित्यर्थीदवगम्यते तस्या एवं प्रकृतत्वाइक्षिणदेशे वोत्तरदेशे वा महावेद्या- मेव । एका स्फ्येन कृता रेखैकस्पया तो निःसार्य निःसरणमुदकशेषस्य यथा स्यात्तथा कृत्वाऽवोक्षणशेष निनयति । तस्यैव प्रकृतत्वात्प्रोक्षणस्य व्यवहितस्वात् । ययुच्चि- येत तार्ह निनयनमन्यथा नास्ति ।
विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजतीत्युत्तरवेद्या अन्तान्कल्पयति ।
मृजलैर्लेपनेन दृढां करोति । १५.छ. ज. स. म. द. क्षतु म ।