२२० सत्याषाढविरचितं श्रौतसूत्र- [२द्वितीयप्रश्ने-
सावयति ' इति । मादयध्वमिति मन्त्रान्तः । अत्र द्रव्यदेवतासंबन्धः प्रतीयते । स च दानेन बिना नान्यः संभवतीति दानार्थे यमतिर्वा जुहोतिर्वा प्रयोक्तव्य इति प्राप्ते संस्त्रावशब्देन प्रक्षेपावगतेजुहोतिरनुमेयः । तथा च ब्राह्मणे-' सस्रावभागाः स्थेत्याह । वस वै रुद्रा आदित्याः सत्रावभागाः ' इत्यादिना द्रव्यदेवता- संबन्धस्य विधानाच्च जुहोत्यनुमानम् । अत एवाहाऽऽपस्तम्बः- सनावेणाभि. जुहोति' इति । बौधायनोऽपि तथैत्रोक्त्वा स्वाहाकारान्तं मन्त्रं च पठति । तस्माच्छेष- 1 प्रतिपत्तिरूपत्वेऽपि देवतामुद्दिश्य दानरूपे होमे गुणभावाव्यस्यास्ति दविहोमतेति स्वाहाकारेण होतव्यम् । इष्टो यज्ञ इति याजमानम् ।
उक्ते शंयुवाके हविःशेषान्प्राश्नन्ति ।
पुरोडाशमानाय्यानां हविषां विनियुक्तादवशिष्टान्भक्षयन्ति । पुरुषार्थत्वात्सर्वेऽपि ननु तुषोपवापवत्परार्थान्येके न क्रियेरन्निति न्यायः प्रवर्तते । यजमानस्यापि शेषभक्षण- मस्त्येव संस्कारत्वान्नापि सूत्रान्तर इवात्रत्विजामित्युक्तम् ।
आज्यलेपान्प्रक्षाल्य ।। १० ।।
नुक्वगतानाज्यलेपान्ध्रुवावर्ग, लेपो हि प्रयोजनार्थ गृहीतस्य पात्रे किंचिल्लनः शेषः । स धुवायां न संभवतीति न तस्याः क्षालनम् ।
इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवकृतायां प्रयोगजयन्यां द्वितीयप्रश्ने चतुर्थः पटलः ।। ४ ।।
2.5 अथ द्वितीयप्रश्ने पञ्चमः पटलः ।
जुहूपभृतावध्वर्युरादत्ते वेदꣳ होता सस्रुवामाज्यस्थालीमाग्नीध्रः प्रत्यञ्चो यन्ति पत्नीः संयाजयिष्यन्तः ।
पत्नीरिति नामध्यैकदेशेन लिङ्ग समवायेन वा पत्नी संयाना एवं गृहीता न देव-- पत्नीमात्रम् । चत्वारः पत्नीसयाना इति नामधेय स्पष्टमेव चतुर्णा वाचकम् । अनि- यमनिवारणार्थमध्वर्युरित्या युक्तम् । वेदोऽसीति यानमानम् । प्रत्यञ्चो यन्ति प्रदक्षिण- मावृत्य पत्नीः संयोजयितुमित्यर्थः । एवं प्रतिज्ञामाह-
दक्षिणेन गार्हपत्यपत्यमध्वर्युरतिक्रामत्युत्तरेणेतरौ ।
अग्रेण गार्हपत्यं गत्वा प्रदक्षिणमावृत्याध्वर्युदक्षिणेन भागेन गार्हपत्यमतीत्य पश्चा- स्क्रामतीत्यर्थः । उत्तरेणेतरी होत्राग्नीधौ ।