पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् ॥

कैलासे कमनीयरत्नखचितेकल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ .१
आगत्य मृत्युञ्जयचन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वरपार्वतीश ॥२
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिंते मणिमये माणिक्यदीपाञ्चिते।
ब्रम्हेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जयसुस्थिरो भव विभो माणिक्यसिम्हासने॥
मन्दारमल्लीकरवीरमाधवी-
पुन्नागनीलोत्पल चम्पकान्वितैः।