पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

यस्थ ज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरोदेशिकमाद्यं तं... ॥२१
छिन्नेऽविद्यारूपवटे नैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं... ॥२२
स्वापस्वप्नौ जाग्रदवस्थापि न तत्र
प्राणश्चेतस्सर्वगतो यस्सकलात्मा ।
कूटस्थो यः केवलसञ्चित्सुखरूपस्तं ...॥२३
हाहेत्येवं विस्मयमीयुर्मुनिमुख्याः
ज्ञाते यस्मिन्स्वात्मतया नात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं... ॥२४
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ गुप्ता यन्मनुवर्णैतिभङ्गी ।
तामेवैतां दक्षिणवक्र: कृपयासा
दूरीकुर्याद्देशिकसम्राट्परमात्मा ॥२५
॥ इति श्रीमच्छङ्कराचार्यविरचित
दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥