पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४६ श्रीमद्वाल्मीकिरामायणे सुन्दरकाण्डे

ईशो विन्न उत्पन्नो रूपं यत्र न दृश्यते । अधोभागेन मे दृष्टिः शोचता पातिता मया ॥ ३७
ततोऽद्राक्षमहं भीमा राक्षसी सलिलेशयाम् । प्रहस्य च महानादं मुक्तोऽहं भीमया तया ॥ ३८
अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम् । क्कासि गन्ता महाकाय क्षुधिताया ममेप्सितः॥ ३९
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् । बाढमित्येव तां वाणी प्रत्यगृहामहं ततः ।।
आस्यप्रमाणादधिकं तस्याः कायमपूरयम् । तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ॥ ४१
न च मां सा तु बुबुधे मम वा निकृतं कृतम् । ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात् ।। ४२
तस्या हृदयमादाय प्रपतामि नभस्थलम् । सा विमृष्टभुजा भीमा पपात लवणाम्भसि ॥ ४३
मया पर्वतसंकाशा निकृत्तहृदया सती । शृणोमि खगतानां च सिद्धानां चारणैः सह ॥
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता। तां हत्वा पुनरेश कृत्यमात्ययिक स्मरन् ॥४५
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम् । दक्षिणं तीरमुदघेलका यत्र च सा पुरी ॥ ४६
अस्तं दिनकरे याते रक्षसां निलयं पुरम् । प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।।
तत्र प्रविशतश्चापि कल्पान्तघनसंनिभा । अट्टहासं विमुञ्चन्ती नारी काप्युत्थिता पुरः॥ ४८
जिघांसन्ती ततस्तां तु ज्वलदग्निशिरोरुहाम् । सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम ।। ४९
प्रदोषकाले प्रविशं भीतयाहं तयोदितः । अहं लकापुरी वीर निर्जिता विक्रमेण ते ।।
यस्मात्तस्माद्विजेतासि सर्वरक्षास्यशेपतः । तत्राहं सर्वरात्रं तु विचिन्वन्चमकात्मजाम ॥
रावणान्तःपुरगतो न चापश्यं सुमध्यमाम् । ततः सीतामपश्यंस्तु रावणस्य निवेशने ॥
शोकसागरमासाद्य न पारमुपलक्षये । शोचता च मया दृष्टं प्राकारेण समावृतम् ।।
काश्चनेन विकृप्टेन गृहोपवनमुत्तमम् । 'सप्राकारमवप्लुत्य पश्यामि बहुपादपम ॥
अशोकवनिकामध्ये शिंशपापादपो महान् । तमामह्य च पश्यामि काञ्चनं कदलीवनम् ॥ ५५
अदूरे शिंशपावृक्षान् पश्यामि वरवर्णिनीम् । श्यामां कमलपत्राझीमुपवासकृशाननाम् ॥
तदेकवास संवीता रजोध्वस्तशिरोरुहाम् । शोकसंतापदीनाङ्गी सीनां भर्तृहिते स्थिताम् ।।
राक्षसीभिर्विरूपाभिः कृराभिरभिसंवृताम् । मांसशोणितभक्षाभियाघ्रीभिर्हरिणीमिव ।
सा मया राक्षसीमध्ये तय॑माना मुहुर्मुहुः । एकवेणीधरा दीना भर्तृचिन्तापरायणा ॥ ५९
भूमिशय्या विवर्णाली पद्मिनीव हिमागमे । रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ॥
कचिन्मृगशाबाक्षी तूर्णमासादिता मया । तां दृष्टा तादृशीं नारी रामपत्नी यशस्विनीम् ॥६१
सत्रैव शिंशपावृक्षे पश्यनहमवस्थितः । ततो हलहलाशब्दं काञ्चीनू पुरमिश्रितम ।। ६२
शृणोम्यधिकगम्भीरं रावणस्य निवेशने । ततोऽहं परमोद्विमः स्वरूपं प्रतिसंहरन् ।
अहं तु शिशपावृक्षे पक्षीव गहने स्थितः । ततो रावणदाराश्च रावणश्च महाबलः ॥ ६४