पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टपश्चाशः सर्गः ६४५

उपसङ्गम्य तं दिव्यं काञ्चनं नगसत्तमम । कृता मे मनसा बुद्धिर्भत्तव्योऽयं मयेति च ॥ १०
प्रहतं च मया तस्य लागूलेन महागिरेः । शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ॥ ११
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः । पुत्रेति मधुरां वाणी मनः प्रहादयन्निव ।। १२
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः । मैनाकमिति विख्यातं निवसन्तं महोदधौ ।। १३
पक्षवन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः । छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशामनः । चिच्छेद भगवान् पक्षान वज्रणेषां सहस्रशः ।। १५
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना । मारुतेन तदा वम प्रक्षिप्तोऽस्मि महार्णवे ।।
रामस्य च मया साह्ये पर्तिनव्यमरिंदम । गमो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः ।। १७
एतच्छ्रुत्वा वचन्तस्य मैनाकस्य महात्मनः । कार्यमावेद्य तु गिरेगद्यतं च मनो मम ॥ १८
तेन चाहमनुज्ञातो मैनाकेन महान्मना । म चायन्तर्हितः शैलो मानुषेण वपुष्मता ।। १९
शरीरेण महाशैलः शैलेन च महोदधौ । उत्तमं जवमास्थाय शेपं पन्थानमास्थितः ।।
ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि । ततः पश्याम्यहं देवीं सुरसां नागमातरम ।।
समुद्रमध्ये मा देवी वचनं मामभापत । मम भक्षः प्रदिष्टस्त्वममरैर्हरिमत्तम ।।
अतस्त्वां भयिष्यामि विहितम्त्वं चिरस्य मे । एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः ।। २३
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयन । गमो दाशरथिः श्रीमान प्रविष्टो दण्डकावनम् ॥ २४
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः । तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात् । कर्तुमर्हसि रामस्य माहाय्यं विषये सति ॥ २६
अथवा मैथिली दृष्ट्वा रामं चाक्लिष्टकारिणम । आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ॥ २७
एवमुक्ता मया सा तु सुरसा कामरूपिणी । अब्रवीनातिवर्तत कश्चिदेष वरो मम ।।
एवमुक्तः सुरसया दशयोजनमायतः । ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु ।। २९
मत्प्रमाणाधिकं चैव व्यादितं तु मुखं तया । तदृष्टा व्यादितं चास्य हरवं करवं वपुः ॥
तस्मिन मुहूर्त च पुनर्वभूवाङ्गगुष्ठमात्रकः । अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।।
अब्रवीत् सुरसा देवी स्वेन रूपेण मां पुनः । अर्थसिद्धथै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।। ३२
समानय च वैदेही राघवेण महात्मना । सुम्बी भव महाबाहो प्रीतास्मि तव वानर ॥ ३३
ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः । ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ॥ ३४
छाया मे निगृहीता च न च पश्यामि किंचन । सोऽहं विगतवेगस्तु दिशो दश विलोकयन् ॥ ३५
न किचित्तत्र पश्यामि येन मेऽपहृता गतिः । ततो मे बुद्धिरुत्पन्ना किं नाम गगने मम ॥ ३६