पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टपञ्चाशः सर्गः ६४७

तं देशं समनुप्राप्ता यत्र सीताभवत् स्थिता । तदृष्टाथ वरारोहा सीता रक्षोगणेश्वरम् ॥ ६५
संकुच्योरू स्तनौ पानी आहुभ्यां परिरभ्य च । वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।। ६६
त्राणं किंचिदपश्यन्ती वेपमानां तपस्विनीम् । तामुवाच दशग्रीवः सीतां परमदुःखिताम् ॥ ६७
अवाक्शिराः प्रपतितो बहु मन्यस्व भामिनि । यदि चेत्त्वं तु दर्पान्मां नाभिनन्दसि गर्विते ॥
द्वौ मासावन्तरं सीते पास्यामि रुधिरं तव । एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ॥ ६९
उवाच परमक्रुद्धा सीता वचनमुत्तमम् । राक्षसाधम रामस्य भार्याममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च । अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ७१
किंस्विद्वीर्य तवानार्य यो मां भर्तुरसंनिधौ । अपहत्यागतः पाप तेनादृष्टो महात्मना । ७२
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे । अजेयः सत्यवादी च रणश्लाघी च राघवः॥
जानक्या परुषं वाक्यमेवमुक्तो दशाननः । जज्वाल सहमा कोपाञ्चितास्थ इत्र पावकः ॥ ७४
विकृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् । मैथिली हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा ॥ ७५
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः । वरा मन्दोदरी' नाम तया स प्रतिषेधितः ।।
उक्तश्च मधुरां वाणी तया स मदनार्दितः । सीतया तव किं कार्य महेन्द्रसमविक्रम ।
देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च । साध प्रभो रमस्वेह सीतया किं करिष्यसि ।।
ततस्ताभिः समेताभिनारीभिः स महाबलः । प्रसाध सहसा नीतो भवनं खं निशाचरः॥७९
याते तस्मिन् दशमीचे राक्षस्यो विकृताननाः । सीतां निर्भत्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥
तृणवद्भाषितं तासां गणयामास जानकी । तर्जितं च तदा तासां सीसां प्राप्य निरर्थकम् ।।८१
वृथा गर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः । रावणाय शशंसुस्ताः सीताव्यवसितं महत् ॥ ८२
ततस्नाः सहिताः सर्वा विहताशा निरुद्यमाः । परिक्षिप्य समन्तात्तां निद्रावशमुपागताः॥ ८३
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता । विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।।
तासां मध्यान् समुत्थाय त्रिजटा वाक्यमब्रवीत् । आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ॥८५
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ! स्वप्नो अद्य मया दृष्टो दारुणो रोमहर्षणः ।। ८६
रक्षसां च विनाशाय भर्तुरस्या जयाय च । अलमस्मान* परित्रातुं राघवाद्राक्षसीगणम् ।। ८७
अभियाचाम वैदेहीमेतद्धि मम रोचते । तस्या ह्येवंविधः स्वप्नो दुःखितायाः प्रदृश्यते ।।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् । प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।। ८९
ततः सा हीमती बाला भर्तुर्विजयहर्षिता । अवोचदि तत्तथ्यं भवेयं शरणं हि वः ॥
तां चाहं तादृशी दृष्टा सौताया दारुणां दशाम् । चिन्तयामास विक्रान्तो न च मे निवृतं मनः॥९१